अथाष्टपञ्चाशोऽध्यायः।
भगवानुवाच।
विश्वास-प्रस्तुतिः
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा।
एतत्पवित्रं परममेतत्स्वस्त्ययनं महत् ॥१॥
मूलम्

दश पूर्वापरान्वंशानात्मानं च विशाम्यते।
अपि पापशतं कृत्वा दत्त्वा विप्रेषु तारयेत् ॥२॥

सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसा।
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥३॥

अग्निर्हि देवताः सर्वाः सुवर्णं च हुताशनः।
तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः ॥४॥

अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम्।
सर्ववेदप्रमाणज्ञा वेदश्रुतिनिदर्शनात् ॥५॥

ये त्वेनं ज्वाअयित्वाग्निमादित्योदयनं प्रति।
दद्युर्वै व्रतमुद्दिश्य सर्वान्कामानवाप्नुयुः ॥६॥

सुवर्णदः स्वर्गलोके कामानिष्टानुपाश्नुते।
विरजाम्बरसंवीतः परियाति यतस्ततः ॥७॥

विमानेनार्कवर्णेन भास्वरेण विराजता।
अप्सरोगणसङ्कीर्णे भास्वता स्वेन तेजसा ॥८॥

हंसबर्हिणयुक्तेन कामगेन नरोत्तमः।
दिव्यगन्धवहः स्वर्गे परिगच्छेदितस्ततः ॥९॥

तस्मात्स्वशक्त्या दातव्यं काञ्चनं मानवैर्भुवि।
न ह्यतः परमं लोके सद्यः पापविमोचनम् ॥१०॥

सुवर्णस्य तु शुद्धस्य सुवर्णं यः प्रयच्छति।
बहून्यब्दसहस्राणि स्वर्गलोके महीयते ॥११॥

इति विष्णुधर्मेषु सुवर्णदानम्।