अथ सप्तपञ्चाशोऽध्यायः।
भगवानुवाच।
विश्वास-प्रस्तुतिः
ब्राह्मणत्वं सुदुष्प्रापं निसर्गाद्ब्राह्मणो भवेत्।
क्षत्रियो वाथवा वैश्यो निसर्गादेव जायते ॥१॥
मूलम्

दुष्कृतेन तु दुष्टात्मा स्थानाद्भ्रश्यति मानवः।
श्रेष्ठं स्थानं समासाद्य तस्माद्रक्षेत पण्डितः ॥२॥

यस्तु विप्रत्वमुत्सृज्य क्षत्रियत्वं निषेवते।
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोन्यां प्रसूयते ॥३॥

वैश्यकर्माणि वा कुर्वन्वैश्ययोनौ प्रजायते।
शूद्रकर्माणि कुर्वाणः शूद्रत्वमुपपद्यते ॥४॥

स तत्र दुर्गतिं प्राप्य स्थानाद्भ्रष्टो युधिष्ठिर।
शूद्रयोनिमनुप्राप्तो यदि धर्मं न सेवते ॥५॥

मानुष्यात्स परिभ्रष्टस्तिर्यग्योनौ प्रजायते।
अधर्मसेवनान्मूढस्तमोपहतचेतनः ॥६॥

जात्यन्तरसहस्राणि तत्रैव परिवर्तते।
तस्मात्प्राप्य शुभं स्थानं प्रमादान्न तु नाशयेत् ॥७॥

शूद्रान्नेनावशेषेण यो म्रियेज्जठरे द्विजः।
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ॥८॥

क्षत्रान्नेनावशेषेण क्षत्रत्वमुपपद्यते।
विश्वास-प्रस्तुतिः
वैश्यान्नेनावशेषेण वैश्यत्वमुपपद्यते।
तां योनिं लभते विप्रो भुक्त्वान्नं यस्य वै मृतः ॥९॥

ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते।
भोज्याभोज्यं न जानाति स भवेत्क्षत्रियो द्विजः ॥१०॥

कर्मणा येन मेधावी शूद्रोवैश्योऽभिजायते।
तत्ते वक्ष्यामि निखिलं येन वर्णोत्तमो भवेत् ॥११॥

शूद्रकर्म यथोद्दिष्टं शूद्रोभूत्वा समाचरेत्।
विश्वास-प्रस्तुतिः
यथावत्परिचर्यां तु त्रिषु वर्णेषु नित्यदा।
कुरुतेऽविमना यस्तु स शूद्रोवैश्यतां व्रजेत् ॥१२॥

क्षत्रियत्वं यथा वैश्यस्तद्वक्ष्याम्यनुपूर्वशः।
चौक्षः पापजनद्वेष्टा शेषान्नकृतभोजनः ॥१३॥

अग्निहोत्रमुपादाय जुह्वानश्च यथाविधि।
स वैश्यः क्षत्रियकुले जायते नात्र संशयः ॥१४॥

क्षत्रियो ब्रह्मयोन्यां तु जायते शृणु तद्यथा।
विश्वास-प्रस्तुतिः
ददाति यजते यज्ञैर्विधिवच्चाप्तदक्षिणैः।
अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ॥१५॥

आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन्।
ऋतुकाले तु स्वां भार्यामभिगच्छन्विधानतः ॥१६॥

सर्वातिथ्यं त्रिवर्गस्य दीयतां भुज्यतामिति।
शूद्राणां याचकानां च नित्यं सिद्धिमिति ब्रुवन् ॥१७॥

गोब्राह्मणस्य चार्थाय रणे चाभिमुखो हतः।
विश्वास-प्रस्तुतिः
त्रेताग्निमन्त्रपूतात्मा क्षत्रियो ब्राह्मणो भवेत्।
विधिज्ञः क्षत्रियकुले याजकः स तु जायते ॥१८॥

प्राप्यतेऽविकलः स्वर्गो वर्णैः सत्पथमास्थितैः।
विश्वास-प्रस्तुतिः
ब्राह्मणत्वं सुदुष्प्रापं कृच्छ्रेणासाद्यते नरैः।
तस्मात्सर्वप्रयत्नेन रक्षेद्ब्राह्मण्यमुत्तमम् ॥१९॥

इति विष्णुधर्मेषु वर्णान्यत्वप्राप्तिः।