अथ षट्पञ्चाशोऽध्यायः।
भगवानुवाच।
विश्वास-प्रस्तुतिः
सर्वेषामेव वर्णानां प्रवक्ष्यामि युधिष्ठिर।
उपोषितैश्च कौन्तेय यत्प्रयोज्यं यथाविधि ॥१॥
मूलम्

फलं यदुपवासस्य तन्निबोध च पाण्डव।
अवाप्नोति यथा कामानुपवासपरायणः ॥२॥
मूलम्
फलं यदुपवासस्य तन्निबोध च पाण्डव।
अवाप्नोति यथा कामानुपवासपरायणः ॥२॥
विश्वास-प्रस्तुतिः
मयैते नृपते काम्या विहिता हितमिच्छता।
उपवासा मनुष्याणां मय्येवार्पितचेतसाम् ॥३॥

पञ्चमीं चैव षष्ठीं च पौर्णमासीं च पाण्डव।
उपोष्य रूपवान्धन्यः सुभगश्चैव जायते ॥४॥

अष्टमीं चैव कौन्तेय शुक्लपक्षे चतुर्दशीम्।
उपोष्य व्याधिरहितो वीर्यवांश्चैव जायते ॥५॥

मार्गशीर्षं तु यो मासं नित्यमेकाशनो भवेत्।
कृषिभागी भवेद्राजन्बहुपुत्रश्च जायते ॥६॥

पौषमासे तु राजेन्द्रभक्तेनैकेन यः क्षपेत्।
सुभगो दर्शनीयश्च ज्ञानभागी च जायते ॥७॥

पितॄनुद्दिश्य माघं तु यः क्षपेदेकभोजनम्।
मासेन पुरुषव्याघ्र सोऽनन्त्यं फलमश्नुते ॥८॥

भगदैवतमासं तु यः क्षपेदेकभोजनम्।
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥९॥

चैत्रं तु पुरुषव्याघ्र यः क्षपेदेकभोजनम्।
मासेन पुरुषव्याघ्र मौनन्तु फलमश्नुते।
भगदैवतमासं तु यः क्षपेदेकभोजनः।
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः।
विश्वास-प्रस्तुतिः
चैत्रं तु पुरुषव्याघ्र यः क्षपेदेकभोजनः।
सुवर्णमणिमुक्ताढ्ये कुले महति जाअते ॥१०॥

निस्तरेदेकभक्तेन वैशाखं यो नराधिप।
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥११॥

ज्येष्ठमासमपानीयमेकभक्तेन यः क्षपेत्।
ऐश्वर्यं पुरुषव्याघ्र स्त्रीभागी चोपजायते ॥१२॥

आषाढं भरतश्रेष्ठ एकभक्तेन यः क्षपेत्।
शूरश्च बहुधान्यश्च बहुपुत्रश्च जायते ॥१३॥

श्रावणं तु नरव्याघ्र भक्तेनैकेन यः क्षपेत्।
यत्र यत्रोपपद्येत तत्र स्याज्ज्ञातिवर्धनः ॥१४॥

मासं भाद्रपदं राजन्नेकभक्तेन यः क्षपेत्।
धनाढ्यो वीर्यवांश्चैव ऐश्वर्यं प्रतिपद्यते ॥१५॥

यः क्षपेदेकभक्तेन मासमाश्वयुजं नरः।
धनवान्वाहनाढ्यश्च बहुपुत्रश्च जायते ॥१६॥

कार्त्तिकं तु नरो मासं नित्यमेकाशनो भवेत्।
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ॥१७॥

एते मासा नरश्रेष्ठ एकभक्तेन कीर्तिताः।
तिथीनां नियमांश्चैव ताञ्शृणुष्व नराधिप ॥१८॥

पक्षे पक्षे चतुर्थं तु भक्तं यः क्षपयेन्नरः।
विपुलं धनमाप्नोति भगवानग्निरब्रवीत् ॥१९॥

मासे मासे चतुर्थं तु भक्तमेकं तु यः क्षपेत्।
कृषिभागी यशोभागी तेजस्वी चापि जायते ॥२०॥

पक्षे पक्षे त्रिरात्रं तु यः क्षपेन्नरपुङ्गव।
गणे घोषे पुरे ग्रामे माहात्म्यं प्रतिपद्यते ॥२१॥

मासे मासे त्रिरात्रं तु भक्तेनैकेन यः क्षपेत्।
गणाधिपत्यं लभते निःसपत्नमकण्टकम् ॥२२॥

यस्तु सायं तथा कल्यं भुङ्क्ते नैवान्तरा पिबेत्।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥२३॥

षड्भिरेव तु वर्षैस्तु सिध्यते नात्र संशयः।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥२४॥

अष्टमेन तु भक्तेन राजन्संवत्सरं नयेत्।
गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥२५॥

हंससारसयुक्तेन विमानेन स गच्छति।
पूर्णं वर्षसहस्रं तु स्वर्गलोके महीयते ॥२६॥

आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः।
पदे पदे यज्ञफलं तस्य मन्नामकीर्तनात् ॥२७॥

दिव्यऋक्षप्रयुक्तेन विमानेन स गच्छति।
शतमप्सरसां चैव रमयन्तीह तं नरम् ॥२८॥
मूलम्
दिव्यऋक्षप्रयुक्तेन विमानेन स गच्छति।
शतमप्सरसां चैव रमयन्तीह तं नरम् ॥२८॥
विश्वास-प्रस्तुतिः
सहस्रशतसंयुक्ते विमाने सूर्यवर्चसे।
आरूढस्त्रीशताकीर्णे विहरन्सुखमेधते ॥२९॥
मूलम्
सहस्रशतसंयुक्ते विमाने सूर्यवर्चसे।
आरूढस्त्रीशताकीर्णे विहरन्सुखमेधते ॥२९॥
विश्वास-प्रस्तुतिः
न क्रुद्धो व्याधितो नार्तः प्रसन्नमनसेन्द्रियः।
गच्छेदनशनं यस्तु तस्यापि शृणु यत्फलम् ॥३०॥

शतं वर्षसहस्राणां स्वर्गलोके महीयते।
विश्वास-प्रस्तुतिः
स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः।
स्त्रीसहस्रसमाकीर्णे सुप्रभे सुखमेधते ॥३१॥

यावन्ति रोमकूपानि तस्य गात्रेषु भारत।
तावद्वर्षसहस्राणि दिव्यानि दिवि मोदते ॥३२॥

नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः।
न धर्मात्परमो लाभस्तपो नानशनात्परम् ॥३३॥

ब्राह्मणेभ्यः परं नास्ति दिवि चेह च पावनम्।
उपवासैस्तथा तुल्यं तपो ह्यन्यन्न विद्यते ॥३४॥

उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे।
मुनयश्च परां सिद्धिमुपवासैरवाप्नुवन् ॥३५॥

दिव्यं वर्षसहस्रं तु विश्वामित्रेण धीमता।
क्षान्तमेकेन भक्तेन येन विप्रत्वमागतः ॥३६॥

च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः।
विश्वास-प्रस्तुतिः
सर्वे ह्येते दिवं प्राप्ताः क्षमावन्तो बहुश्रुताः।
विधिनानेन राजेन्द्रयो मया परिकीर्तितः ॥३७॥

पठेत यो वै शृणुयाच्च भक्त्या न विद्यते तस्य नरस्य पापम्।
उपद्रवैर्मुच्यते सर्वाङ्गिकैर्न चापि पापैरभिभूयते नरः ॥३८॥

इति विष्णुधर्मेषूपवासप्रशंसा।