अथ पञ्चपञ्चाशोऽध्यायः।
भगवानुवाच।
सत्यमेव परं ब्रह्म सत्यमेव परं तपः।
विश्वास-प्रस्तुतिः
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम्।
सत्यं देवेषु जागर्ति मुक्तिः सत्यतरोः फलम् ॥१॥
मूलम्

तपो यशश्च पुण्यं च पितृदेवर्षिपूजनम्।
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् ॥२॥

सत्यं यज्ञस्तथा वेदा मन्त्रा देवी सरस्वती।
व्रतचर्या तथा सत्यमॐकारः सत्यमेव च ॥३॥

सत्येन वायुरभ्येति सत्येन तपते रविः।
विश्वास-प्रस्तुतिः
सत्येन चाग्निर्दहति स्वर्गं सत्येन गच्छति।
सत्येन चापः क्षिपति पर्जन्यः पृथिवीतले ॥४॥

पारणं सर्ववेदानां सर्वतीर्थावगहनः।
सत्यं च वदतो लोके तत्समं स्यान्न संशयः ॥५॥

अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेतद्विशिष्यते ॥६॥

मुनयः सत्यनिरता मुनयः सत्यविक्रमाः।
मुनयः सत्यप्रपथाः परां सिद्धिमितो गताः।
विश्वास-प्रस्तुतिः
सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा।
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लोपयेत् ॥७॥

मुनयः सत्यनिरतास्तस्मात्सत्यं विशिष्यते।
स्वर्गे सत्यपरा नित्यं मोदन्ते देवता इव ॥८॥

अप्सरोगणसङ्कीर्णैर्विमानैरुपयान्ति ते।
वक्तव्यं हि सदा सत्यं न सत्याद्विद्यते परम् ॥९॥

एतत्प्रमाणं यः कुर्यात्सर्वयज्ञफलं लभेत्।
विश्वास-प्रस्तुतिः
अगाधे विमले शुद्धे सत्यतीर्थे ह्रदे शुभे।
स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम् ॥१०॥

आत्मार्थे च परार्थे वा पुत्रार्थे वापि पार्थिव।
येऽनृतं नाभिभाषन्ते ते नराः स्वर्गगामिनः ॥११॥

अपि चेदं पुरा गीतं धर्मविद्भिर्युधिष्ठिर।
यः सत्यवादी पुरुषो नानृतं परिभाषते ॥१२॥

सम्प्राप्य विरजांल्लोकानुषित्वा शाश्वतीः समाः।
शुचीनां श्रीमतां गेहे जायते सुमहामतिः ॥१३॥

विद्यारोग्यसुखैश्वर्यैर्युक्तो योगपरो भवेत्।
विश्वास-प्रस्तुतिः
आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥१४॥

तस्मान्न वाच्यमनृतं हि सद्भिरेवंविधैर्धर्मविदो वदन्ति।
सत्यं वदंस्तेजसा दीप्यमानो न हीयते धर्मयशोऽर्थकामैः ॥१५॥

एष वाणीकृतो धर्मो वैदिको धर्मनिश्चये।
विश्वास-प्रस्तुतिः
एवमेतद्यथान्यायं सत्याध्याये प्रकीर्तितम्।
तत्प्रमाणं बुधः कुर्या न सत्याद्विद्यते परम् ॥१६॥

इति विष्णुधर्मेषु सत्यप्रशंसा।