अथ चतुष्पञ्चाशोऽध्यायः।
भगवानुवाच।
विश्वास-प्रस्तुतिः
अध्यायं तपसो वक्ष्ये तन्मे निगदतः शृणु।
तपसो हि परं नास्ति तपसा विन्दते फलम् ॥१॥
मूलम्
अध्यायं तपसो वक्ष्ये तन्मे निगदतः शृणु।
तपसो हि परं नास्ति तपसा विन्दते फलम् ॥१॥
विश्वास-प्रस्तुतिः
ऋषयस्तप आस्थाय मोदन्ते दैवतैः सह।
तपसा प्राप्यते स्वर्गं तपसा प्राप्यते यशः ॥२॥
मूलम्
ऋषयस्तप आस्थाय मोदन्ते दैवतैः सह।
तपसा प्राप्यते स्वर्गं तपसा प्राप्यते यशः ॥२॥
विश्वास-प्रस्तुतिः
आयुःप्रकर्षं भोगांश्च तपसा विन्दते नरः।
ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ॥३॥
मूलम्
आयुःप्रकर्षं भोगांश्च तपसा विन्दते नरः।
ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् ॥३॥
विश्वास-प्रस्तुतिः
तपसा लभ्यते सर्वं मनसा यद्यदिच्छति।
नातप्ततपसो यान्ति ब्रह्मलोकं कदाचन ॥४॥
मूलम्
तपसा लभ्यते सर्वं मनसा यद्यदिच्छति।
नातप्ततपसो यान्ति ब्रह्मलोकं कदाचन ॥४॥
विश्वास-प्रस्तुतिः
यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः।
सर्वं तत्समवाप्नोति परत्रेह च मानवः ॥५॥
मूलम्
यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः।
सर्वं तत्समवाप्नोति परत्रेह च मानवः ॥५॥
विश्वास-प्रस्तुतिः
सुरापः पारदारी च भ्रूणहा गुरुतल्पगः।
तपसा तरते सर्वं सर्वतश्च विमुच्यते ॥६॥
मूलम्
सुरापः पारदारी च भ्रूणहा गुरुतल्पगः।
तपसा तरते सर्वं सर्वतश्च विमुच्यते ॥६॥
विश्वास-प्रस्तुतिः
अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः।
ब्रह्मा हुताशनः शक्रस्तपस्यन्ति सनातनाः ॥७॥
मूलम्
अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः।
ब्रह्मा हुताशनः शक्रस्तपस्यन्ति सनातनाः ॥७॥
विश्वास-प्रस्तुतिः
षडशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम्।
तपसा दिवि मोदन्ते समेता दैवतैः सह ॥८॥
मूलम्
षडशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम्।
तपसा दिवि मोदन्ते समेता दैवतैः सह ॥८॥
विश्वास-प्रस्तुतिः
तपसा प्राप्यते राज्यं शक्रः सर्वसुरेश्वरः।
तपसा पालयन्सर्वमहन्यहनि वृत्रहा ॥९॥
मूलम्
तपसा प्राप्यते राज्यं शक्रः सर्वसुरेश्वरः।
तपसा पालयन्सर्वमहन्यहनि वृत्रहा ॥९॥
विश्वास-प्रस्तुतिः
सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ।
तपसैव प्रकाशेते नक्षत्राणि ग्रहास्तथा ॥१०॥
मूलम्
सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ।
तपसैव प्रकाशेते नक्षत्राणि ग्रहास्तथा ॥१०॥
विश्वास-प्रस्तुतिः
न चास्ति तत्सुखं लोके यद्विना तपसा किल।
तपसैव सुखं सर्वमिति धर्मविदो विदुः ॥११॥
मूलम्
न चास्ति तत्सुखं लोके यद्विना तपसा किल।
तपसैव सुखं सर्वमिति धर्मविदो विदुः ॥११॥
विश्वामित्रश्च तपसा ब्राह्मणत्वमुपागतः।
सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते।
विश्वास-प्रस्तुतिः
तपस्तप्यति योऽरण्ये मुनिर्मूलफलाशनः।
ऋचमेकां अपि पठन्स याति परमां गतिम् ॥१२॥
मूलम्
तपस्तप्यति योऽरण्ये मुनिर्मूलफलाशनः।
ऋचमेकां अपि पठन्स याति परमां गतिम् ॥१२॥
विश्वास-प्रस्तुतिः
भगवानुवाच।
तस्मात्तपः समास्थाय प्रार्थयेद्यदभीप्सितम् ॥१३॥
मूलम्
भगवानुवाच।
तस्मात्तपः समास्थाय प्रार्थयेद्यदभीप्सितम् ॥१३॥
इति विष्णुधर्मेषु तपःप्रशंसा।