०५३

अथ त्रिपञ्चाशोऽध्यायः।
भगवानुवाच।

विश्वास-प्रस्तुतिः

दानं देवाः प्रशंसन्ति इति धर्मविदो विदुः।
नानादानविधिं तस्माच्छृणुष्व सुसमाहितः ॥१॥

मूलम्

हिरण्यदानं गोदानं पृथिवीदानमेव च।
एतानि वै पवित्राणि तारयन्ति परत्र च ॥२॥

मूलम्

हिरण्यदानं गोदानं पृथिवीदानमेव च।
एतानि वै पवित्राणि तारयन्ति परत्र च ॥२॥

विश्वास-प्रस्तुतिः

यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥३॥

मूलम्

यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥३॥

विश्वास-प्रस्तुतिः

सुवर्णदानं गोदानं पृथिवीदानमेव च।
एतत्प्रयच्छमानो वै सर्वपाऐः प्रमुच्यते ॥४॥

यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने।
तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥५॥

तुल्यनामानि शस्तानि त्रीणि तुल्यफलानि च।
नित्यं देयानि राजेन्द्रगावः पृथ्वी सरस्वती ॥६॥

तद्वज्जलममित्रघ्न तत्तुल्यफलनामतः।
दत्त्वा तृप्तिमवाप्नोति यत्रतत्राभिजायते ॥७॥

सङ्कल्पविहितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते।
अर्थिभ्यो ह्यर्थहेतुभ्यो मनस्वी तेन जायते ॥८॥

सीदते द्विजमुख्याय योऽर्थिने न प्रयच्छति।
अमर्थे सति दुर्बुद्धिर्नरकायोपपद्यते ॥९॥

धेनवोऽनडुहश्चैव छत्त्रं वस्त्रमुपानहौ।

विश्वास-प्रस्तुतिः

देयानि याचमानेभ्यः पानमन्नं तथैव च।
एवं दानं समुद्दिष्टं व्युष्टिमत्तारकं परम् ॥१०॥

एष ते विहितो यज्ञः श्रद्धापूतः सदक्षिणः।
विशिष्टः स च यज्ञेषु ददतामनसूयया ॥११॥

दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः।
यैर्दानैस्तर्पयिष्यन्ति श्रद्धापूतैर्द्विजोत्तमान् ॥१२॥

यथा हि सुकृते क्षेत्रे फलं विन्दति क्षेत्रिकः।
एवं दत्त्वा ब्राह्मणेभ्यो दाता फलमुपाश्नुते ॥१३॥

ब्राह्मणाश्चैव विद्यन्ते सत्यवन्तो बहुश्रुताः।
न ददाति च दानानि मोघं तस्य धनार्जनम् ॥१४॥

उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं मया।
दत्तं वा दापितं वापि वोत्साह्यमपि वा कृतम् ॥१५॥

उत्थायोत्थाय दातव्यं ब्राह्मणेभ्यो युधिष्ठिर।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥१६॥

यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम्।
असङ्कीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति ॥१७॥

इति विष्णुधर्मेषु दानप्रशंसा।