०५१

अथैकपञ्चाशोऽध्यायः।
भगवानुवाच।

विश्वास-प्रस्तुतिः

सायं प्रातश्च यः सन्ध्यामुपास्तेऽस्कन्नमानसः।
जपन्हि पावनीं देवीं गायत्रीं वेदमातरम् ॥१॥

मूलम्

स तया पावितो देव्या ब्राह्मणः पूतकिल्बिषः।
न सीदेत्प्रतिगृह्णानः पृथिवीं तु ससागराम् ॥२॥

ये चान्ये दारुणाः केचिद्ग्रहाः सूर्यादयो दिवि।
ते चास्य सौम्या जायन्ते शिवाः शिवतमाः सदा ॥३॥

यत्रतत्रगतं चैनं दारुणाः पिशिताशनाः।
घोररूपा महाकाया न कर्षन्ति द्विजोत्तमम् ॥४॥

यावन्तश्च पृथिव्यां हि चीर्णवेदव्रता द्विजाः।
अचीर्णव्रतवेदा वा विकर्मपथमाश्रिताः ॥५॥

तेषां तु पावनार्थं हि नित्यमेव युधिष्ठिर।
द्वे सन्ध्ये ह्युपतिष्ठेत तदस्कन्नं महाव्रतम् ॥६॥

नास्ति किञ्चिन्नरव्याघ्र दुष्कृतं ब्राह्मणस्य तु।
यत्र स्थितः सदाध्यात्मे द्वे सन्ध्ये ह्युपतिष्ठति ॥७॥

पूर्णाहुतिं वा प्राप्नोति जुहुते च त्रयोऽघ्नयः।
दहन्ति दुष्कृतं तस्य अग्नयो नात्र संशयः ॥८॥

एवं सर्वस्य विप्रस्य किल्बिषं निर्दहाम्यहम्।
उभे सन्ध्ये ह्युपासिनस्तस्मात्सर्वशुचिर्द्विजः ॥९॥

दैवे पित्र्ये च यत्नेन नियोक्तव्योऽजुगुप्सितः।
जुगुप्सितस्तु तच्छ्राद्धं दहत्यग्निरिवेन्धनम् ॥१०॥

इति विष्णुधर्मेषु विप्रमाहात्म्यम्।