०५०

अथ पञ्चाशोऽध्यायः।
युधिष्ठिर उवाच।

विश्वास-प्रस्तुतिः

त्रैलोक्य कृष्ण भूतानां सर्वलोकात्मको ह्यसि।
नॄणां यदुवरश्रेष्ठ तुष्यसे केन कर्मणा ॥१॥

मूलम्

भगवानुवाच।

विश्वास-प्रस्तुतिः

ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः।
निर्भर्त्सितैश्च निर्भग्नस्तस्याहं सर्वकर्मसु ॥२॥

विप्रापरा गतिर्मह्यं यस्तान्पूजयते नृप।
तमहं तेन रूपेण प्रपश्यामि युधिष्ठिर ॥३॥

मूलम्

विप्रापरा गतिर्मह्यं यस्तान्पूजयते नृप।
तमहं तेन रूपेण प्रपश्यामि युधिष्ठिर ॥३॥

विश्वास-प्रस्तुतिः

काणाः कुब्जाश्च खञ्जाश्च दरिद्राव्याधिताश्च ये।
नावमन्येद्द्विजान्प्राज्ञो मम रूपं हितं तथा ॥४॥

बहवोऽपि न जानन्ते नरा ज्ञानबहिष्कृताः।
यथाहं द्विजरूपेण चरामि पृथिवीतले ॥५॥

मूलम्

बहवोऽपि न जानन्ते नरा ज्ञानबहिष्कृताः।
यथाहं द्विजरूपेण चरामि पृथिवीतले ॥५॥

विश्वास-प्रस्तुतिः

ये केचित्सागरान्तायां पृथिव्यां कीर्तिता द्विजाः।
तद्रूपं हि परं मह्यं योऽर्चयेदर्चयेत्तु सः ॥६॥

तद्रूपान् घ्नन्ति ये विप्रान्विकर्मसु च युञ्जन्ति।
अप्रेषणे प्रेषयन्तो दासत्वं कारयन्ति हि ॥७॥

मृतांस्तान्करपत्त्रेन यमदूता महाबलाः।
निकृन्तन्ति यथा काष्ठं सूत्रमार्गेण शिल्पिनः ॥८॥

ये चैवाश्लक्ष्णया वाचा तर्जयन्ति नराधमाः।
वदन्ति क्रोधनिःस्पर्शं पादेनाभिहनन्ति च ॥९॥

मृतांस्तान्यमलोकेषु निहत्य धरणीतले।

विश्वास-प्रस्तुतिः

उरः पादेन चाक्रम्य क्रोधसंरक्तलोचनः।
अग्निवर्णैश्च सन्दंशैर्जिह्वामुद्धरते यमः ॥१०॥

पापाश्च नारके वह्नौ धास्यन्ते यमकिङ्करैः।

विश्वास-प्रस्तुतिः

ये तु विप्रान्निरीक्षन्ति पापाः पापेन चक्षुषा।
अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः ॥११॥

तेषां घोरा महाकाया वज्रतुण्डा भयानकाः।
उद्धरन्ति मुहूर्तेन चक्षुः काका यमाज्ञया ॥१२॥

यस्ताडयति विप्रांस्तु क्षतं कुर्यात्सशोणितम्।
अस्थिभङ्गं च यःकुर्यात्प्राणैर्वापि वियोजयेत् ॥१३॥

ब्रह्मघ्नः सोऽनुपूर्वेण नरके वसुधाधिप।
कीलैर्विनिहतः पापो मीरायां पच्यते भृशम् ॥१४॥

सुबहूनि सहस्राणि वर्षाणां क्लेशभाग्भवेत्।
रवान्मुञ्चति दुर्बुद्धिर्न तस्मै निष्कृतिः स्मृता ॥१५॥

तस्माद्विप्रा नरश्रेष्ठ नमस्कार्याश्च नित्यशः।
अन्नपानप्रदानैस्तु पूजार्हाः सततं द्विजाः ॥१६॥

आमन्त्रयित्वा यो विप्रान्गन्धैर्माल्यैश्च मानवः।

विश्वास-प्रस्तुतिः

तर्पयेच्छ्रद्धया युक्तः स मामर्चयते सदा।
स मां प्रसादयेच्चैव स च मां परितोषयेत् ॥१७॥

तपोदमान्वितेष्वेव नित्यं पूजां प्रयोजयेत्।

विश्वास-प्रस्तुतिः

ये ब्राह्मणाः सोऽहमसंशयं नृप तेष्वर्चितेष्वर्चितोऽहं यथावत्।
तेष्वेव तुष्टेष्वहमेव तुष्टो वैरं च तैर्यस्य ममापि वैरम् ॥१८॥

सुगन्धिधूपादिभिरभ्यर्च्य विप्रं तमच्युतं नार्चयते सदैव।
यो भक्षतोयादिभिरन्नपानैरनुलेपाचमनप्रदानैः।
यः पूजयेद्भोजयित्वा द्विजाग्र्यान्सम्पूजयित्वा परितोषयेच्च।
अर्घ्यादिना येऽभिपूज्य पूजयन्ति सदाच्युतम्।
तेनैव मामेव सदा पूजयन्ति न संशयः।
विरूपाश्च सुरूपाश्च विजनान्निष्कलानपि।
कृपया भावितात्मानो येऽर्चयन्ति द्विजोत्तमान्।
अनसूया हितात्मानो विप्रानाराधते क्वचित्।
असंशयं सदा भक्त्या मामेवार्चयते हि सः।
ततः पवित्रमतुलं न पुण्यमधिकं ततः।

विश्वास-प्रस्तुतिः

यश्चन्दनैः सागरुगन्धमाल्यैरभ्यर्चयेद्दारुमयीं ममार्चाम्।
नासौ ममार्चामर्चयतेऽर्चयन्वै विप्रार्चनादर्चित एव चाहम् ॥१९॥

विप्रप्रसादान्मध एव चाहं विप्रप्रसादादसुराञ्जयामि।
विप्रप्रसादात्पुरुषोत्तमत्वं विप्रप्रसादादजितोऽस्मि नित्यम् ॥२०॥

इति विष्णुधर्मेषु विप्रबाधाफलम्।