०४९

अथैकोनपञ्चाशोऽध्यायः।
युधिष्ठिर उवाच।

विश्वास-प्रस्तुतिः

कीदृग्विधास्ववस्थासु दत्तं दानं जनार्दन।
इहलोकेष्वनुभवेत्पुरुषस्तद्ब्रवीहि मे ॥१॥

मूलम्

कीदृग्विधास्ववस्थासु दत्तं दानं जनार्दन।
इहलोकेष्वनुभवेत्पुरुषस्तद्ब्रवीहि मे ॥१॥

विश्वास-प्रस्तुतिः

गर्भस्थास्याथवा बाल्ये यौवने वार्द्धकेऽपि वा।
अवस्थां कृष्ण कथय परं कौतूहलं हि मे ॥२॥

मूलम्

गर्भस्थास्याथवा बाल्ये यौवने वार्द्धकेऽपि वा।
अवस्थां कृष्ण कथय परं कौतूहलं हि मे ॥२॥

भगवानुवाच।
वृथाजन्मानि चत्वारि वृथादानानि षोडश।

विश्वास-प्रस्तुतिः

अपुत्राणां वृथा जन्म ये च धर्मबहिष्कृताः।
परपाकं च येऽश्नन्ति परदाररताश्च ये ॥३॥

मूलम्

अपुत्राणां वृथा जन्म ये च धर्मबहिष्कृताः।
परपाकं च येऽश्नन्ति परदाररताश्च ये ॥३॥

विश्वास-प्रस्तुतिः

पर्यस्थानं वृथा दानं सदोषं परिकीर्तितम्।
आरूढपतिते चैव अन्यायोपार्जितं च यत् ॥४॥

मूलम्

पर्यस्थानं वृथा दानं सदोषं परिकीर्तितम्।
आरूढपतिते चैव अन्यायोपार्जितं च यत् ॥४॥

विश्वास-प्रस्तुतिः

व्यर्थं चाब्राह्मणे दानं पतिते तस्करे तथा।
गुरोश्चाप्रीतिजनके कृतघ्ने ग्रामयाजके ॥५॥

मूलम्

व्यर्थं चाब्राह्मणे दानं पतिते तस्करे तथा।
गुरोश्चाप्रीतिजनके कृतघ्ने ग्रामयाजके ॥५॥

विश्वास-प्रस्तुतिः

ब्रह्मबन्धौ च यद्दत्तं यद्दत्तं वृषलीपतौ।
वेदविक्रयिणे चैव यस्य चोपपतिर्गृहे ॥६॥

मूलम्

ब्रह्मबन्धौ च यद्दत्तं यद्दत्तं वृषलीपतौ।
वेदविक्रयिणे चैव यस्य चोपपतिर्गृहे ॥६॥

विश्वास-प्रस्तुतिः

स्त्रीनिर्जितेषु यद्दत्तं व्यालग्राहे तथैव च।
परिचारके च यद्दत्तं वृथादानानि षोडश ॥७॥

मूलम्

स्त्रीनिर्जितेषु यद्दत्तं व्यालग्राहे तथैव च।
परिचारके च यद्दत्तं वृथादानानि षोडश ॥७॥

विश्वास-प्रस्तुतिः

तमोवृतस्तु यो दद्याद्भयात्क्रोधात्तथैव च।
वृथा दानं तु तत्सर्वं भुङ्क्ते गर्भस्थ एव तु ॥८॥

मूलम्

तमोवृतस्तु यो दद्याद्भयात्क्रोधात्तथैव च।
वृथा दानं तु तत्सर्वं भुङ्क्ते गर्भस्थ एव तु ॥८॥

विश्वास-प्रस्तुतिः

सेर्ष्यामन्युमनाश्चैव दम्भार्थं चार्थकारणात्।
यो ददाति द्विजातिभ्यः स बालत्वे तदश्नुते ॥९॥

मूलम्

सेर्ष्यामन्युमनाश्चैव दम्भार्थं चार्थकारणात्।
यो ददाति द्विजातिभ्यः स बालत्वे तदश्नुते ॥९॥

यः शुद्धिः प्रयतो भूत्वा प्रसन्नमानसेन्द्रियः।
प्रददाति द्विजातिभ्यो यौवनस्थस्तदश्नुते।

विश्वास-प्रस्तुतिः

देशे देशे च पात्रे च यो ददाति द्विजातिषु।
मनसा परितुष्टेन यौवनस्थस्तदश्नुते ॥१०॥

मूलम्

देशे देशे च पात्रे च यो ददाति द्विजातिषु।
मनसा परितुष्टेन यौवनस्थस्तदश्नुते ॥१०॥

विश्वास-प्रस्तुतिः

तस्मात्सर्वास्ववस्थासु सर्वदानानि पार्थिव।
दातव्यानि द्विजातिभ्यः स्वर्गमर्गमभीप्सता ॥११॥

मूलम्

तस्मात्सर्वास्ववस्थासु सर्वदानानि पार्थिव।
दातव्यानि द्विजातिभ्यः स्वर्गमर्गमभीप्सता ॥११॥

इति विष्णुधर्मेषु वृथादानानि।