०४८

अथाष्टाचत्वारिंशोऽध्यायः।
भगवानुवाच।

विश्वास-प्रस्तुतिः

धान्यं क्रमेणार्जितवित्तसञ्चयं विप्रे सुशीले ते प्रयच्छते यः।
वसुन्धरा तस्य भवेत्सुतुष्टा धारा वसूनां प्रतिमुञ्चतीह ॥१॥

मूलम्

पुष्पोपभोगं च फलोपभोगं यः पाअपं स्पर्शयते द्विजाय।
स श्रीसमृद्धं बहुरत्नपूर्णं लभत्यधिष्ठानवरं समृद्धम् ॥२॥

इन्धनानि च यो दद्याद्द्विजेभ्यः शिशिरागमे।
कायाग्निदीप्तिं सौभाग्यमैश्वर्यं चाधिगच्छति ॥३॥

छत्त्रप्रदानेन गृहं वरिष्ठं रथं तथोपानहसम्प्रदानात्।

विश्वास-प्रस्तुतिः

धुर्यप्रदानेन गवां तथैव लोकानवाप्नोति पुरन्दरस्य।
स्वर्गीयमप्याह हिरण्यदानं तथा वरिष्ठं कनकप्रदानम् ॥४॥

नैवेशिकं सर्वगुणोपपन्नं प्रयच्छते यः पुरुषो द्विजाय।
स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः प्रवरा भवन्ति ॥५॥

यो ब्रह्मदेयां प्रददाति कन्यां भूमिप्रदानं च करोति विप्रे।
हिरण्यदानं च तथा विशिष्टं स शक्रो लोकं लभते दुरापम् ॥६॥

सुचित्रवस्त्राभरणोपधानं दद्यान्नरो यः शयनं द्विजाय।
रूपान्वितां दक्षवतीं मनोज्ञां भार्यामयत्नोपचितां लभेत्सः ॥७॥

लवणस्य तु दातारस्तिलानां सर्पिषस्तथा।
तेजस्विनोऽभिजायन्ते भोगिनश्चिरजीविनः ॥८॥

स्वर्गेऽप्सरोभिः सह भुक्तभोगस्ततश्च्युतः शीलवतीं स भार्याम्।

विश्वास-प्रस्तुतिः

रूपान्वितां दक्षवतीं सुरक्तां सुखेन धर्मेण तथापि काले।
तस्यैव सार्धं सुरलोकमेति तस्यैव चान्यत्पुनरेति जन्म ॥९॥

इति विष्णुधर्मेषु दानफलानि।