०४७

अथ सप्तचत्वारिंशोऽध्यायः।
भगवानुवाच।

विश्वास-प्रस्तुतिः

धनं प्राप्नोति पुण्येन मौनेनाज्ञां प्रयच्छति।
उपभोगं तु दानेन जीवितं ब्रह्मचर्यया ॥१॥

मूलम्

धनं प्राप्नोति पुण्येन मौनेनाज्ञां प्रयच्छति।
उपभोगं तु दानेन जीवितं ब्रह्मचर्यया ॥१॥

विश्वास-प्रस्तुतिः

अहिंसया परं रूपं दीक्षया कुलजन्म च।
फलमूलाशनाद्राज्यं स्वर्गः पर्णाशनो भवेत् ॥२॥

मूलम्

अहिंसया परं रूपं दीक्षया कुलजन्म च।
फलमूलाशनाद्राज्यं स्वर्गः पर्णाशनो भवेत् ॥२॥

विश्वास-प्रस्तुतिः

पयोभक्ष दिवं यान्ति स्नानेन द्रविणाधिकाः।
शाकं साधयतो राज्यं नाकपृष्ठमनाशनात् ॥३॥

मूलम्

पयोभक्ष दिवं यान्ति स्नानेन द्रविणाधिकाः।
शाकं साधयतो राज्यं नाकपृष्ठमनाशनात् ॥३॥

विश्वास-प्रस्तुतिः

स्थण्डिले च शयानस्य गृहाणि शयनानि च।
चीरवल्कलधारिणां वस्त्राण्याभरणानि च ॥४॥

मूलम्

स्थण्डिले च शयानस्य गृहाणि शयनानि च।
चीरवल्कलधारिणां वस्त्राण्याभरणानि च ॥४॥

विश्वास-प्रस्तुतिः

शयनासनयानानि ये गता हि तपोवनम्।
अग्निप्रवेशी नियतं ब्रह्मलोके महीयते ॥५॥

मूलम्

शयनासनयानानि ये गता हि तपोवनम्।
अग्निप्रवेशी नियतं ब्रह्मलोके महीयते ॥५॥

विश्वास-प्रस्तुतिः

रसानां प्रतिसंहारात्सौभाग्यमभिजायते।
आमिषप्रतिषेधात्तु भवत्यायुष्मती प्रजा ॥६॥

मूलम्

रसानां प्रतिसंहारात्सौभाग्यमभिजायते।
आमिषप्रतिषेधात्तु भवत्यायुष्मती प्रजा ॥६॥

विश्वास-प्रस्तुतिः

उदवासं वसेद्यस्तु नागानामधिपो भवेत्।
सत्यवादी नरश्रेष्ठ देवतैः सह मोदते ॥७॥

मूलम्

उदवासं वसेद्यस्तु नागानामधिपो भवेत्।
सत्यवादी नरश्रेष्ठ देवतैः सह मोदते ॥७॥

कीर्तिर्भवति दानेन आरोग्यं चाप्यहिंसया।

विश्वास-प्रस्तुतिः

द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम्।
द्विजशुश्रूषया राज्यं दिव्यरूपमवाप्नुते ॥८॥

मूलम्

द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम्।
द्विजशुश्रूषया राज्यं दिव्यरूपमवाप्नुते ॥८॥

विश्वास-प्रस्तुतिः

अन्नपानप्रदानेन कामभोगैस्तु तृप्यते।
दीपालोकप्रदानेन चक्षुष्माञ्जायते नरः ॥९॥

मूलम्

अन्नपानप्रदानेन कामभोगैस्तु तृप्यते।
दीपालोकप्रदानेन चक्षुष्माञ्जायते नरः ॥९॥

विश्वास-प्रस्तुतिः

गन्धमाल्यप्रदानेन तुष्टिर्भवति पुष्कला।
केशश्मश्रून्धारयतो ह्यग्रा भवति सन्ततिः ॥१०॥

मूलम्

गन्धमाल्यप्रदानेन तुष्टिर्भवति पुष्कला।
केशश्मश्रून्धारयतो ह्यग्रा भवति सन्ततिः ॥१०॥

विश्वास-प्रस्तुतिः

वाक्शौचं मनसः शौचं यच्च शौचं जलाश्रयम्।
त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः ॥११॥

मूलम्

वाक्शौचं मनसः शौचं यच्च शौचं जलाश्रयम्।
त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः ॥११॥

विश्वास-प्रस्तुतिः

ताम्रायसानां भण्डानां दाता रत्नाधिपो भवेत्।
लभते तु परं स्थानं बलवान्पुष्यते सदा ॥१२॥

मूलम्

ताम्रायसानां भण्डानां दाता रत्नाधिपो भवेत्।
लभते तु परं स्थानं बलवान्पुष्यते सदा ॥१२॥

इति विष्णुधर्मेषु नियमफलानि।