०४६

अथ षट्चत्वारिंशोऽध्यायः।
भगवानुवाच।

विश्वास-प्रस्तुतिः

न तथा हविषो होमैर्न पुष्पैर्नानुलेपनैः।
अग्नौ वा सुहुते राजन्यथा ह्यतिथिपूजने ॥१॥

मूलम्

कपिलायां तु दत्तायां यत्फलं ज्येष्ठपुष्करे।
तत्फलं पाण्डवश्रेष्ठ विप्राणां पादशौचने ॥२॥

द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी।
तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् ॥३॥

देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम्।

विश्वास-प्रस्तुतिः

श्रान्तसंवाहनं चैव दीनस्य परिपालनम्।
एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते ॥४॥

पादशौचं तथाभ्यङ्गं दीपमन्नं प्रतिश्रयम्।
ददन्ति ये महाराज नोपसर्पन्ति ते यमम् ॥५॥

स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः।
पितरः पादशौचेन अन्नाद्येन प्रजापतिः ॥६॥

मूलम्

स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः।
पितरः पादशौचेन अन्नाद्येन प्रजापतिः ॥६॥

अभयस्य प्रदानेन भवेत्प्रीतिर्ममातुला।

विश्वास-प्रस्तुतिः

येषां तडागानि बहूदकानि प्रपाश्च कूपाश्च प्रतिश्रयाश्च।
अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति ॥७॥

सवृषं गोशतं तेन दत्तं भवति शाश्वतम्।

विश्वास-प्रस्तुतिः

पापं कर्म च यत्किञ्चिद्ब्रह्महत्यासमं भवेत्।
शोछयेत्कपिलां दत्त्वा एतद्वै नात्र संशयः ॥९॥

प्रासादा यत्र सौवर्णा वसोर्धारा च स्यन्दते।
गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति गोप्रदाः ॥१०॥

प्रयच्छते यः कपिलां सवत्सां कांस्योपदोहां कनकाग्रशृङ्गीम्।
यान्यान्हि कामानभिवाञ्छतेऽसौ तांस्तानवाप्नोत्यमलांश्च लोकान् ॥११॥

यावद्वत्सस्य द्वौ पादौ शिरश्चैव प्रदृश्यते।

विश्वास-प्रस्तुतिः

तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति।
तस्मिन्काले प्रदातव्या विधिना या मयोदिता ॥१२॥

अन्तरिक्षगतो वत्सो यावद्योन्यां प्रदृश्यते।
आवद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥१३॥

यावन्ति तस्य रोमाणि तावद्वर्षाणि मानवः।

विश्वास-प्रस्तुतिः

हंसयुक्तेन यानेन युक्तेनाप्सरसां गणैः।
गन्धर्वाप्सरसोद्गीतैः स्वर्गलोके महीयते ॥१४॥

तिलधेनुं प्रवक्ष्यामि यश्चास्या विधिरुत्तमः।
सुवर्णनाभिं यः कृत्वा सुखूरं कृष्णमार्गणाम् ॥१५॥

कुतपप्रस्तरस्थां तु तिलां कृत्वा प्रयत्नतः।
तिलैः प्रस्थादि तां दद्यात्सर्वरत्नैरलङ्कृताम् ॥१६॥

ससमुद्रद्रुमा चैव सशैलवनकानना।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥१७॥

कृष्णाजिने तिलां कृत्वा कृष्णां वा यदि वेतराम्।
राजतेषु तु पात्रेषु कोणेषु मधुसर्पिषी।

विश्वास-प्रस्तुतिः

प्रीयतां धर्मराजेति यद्वा मनसि वर्तते।
यावज्जीवकृतं पापं तेन दानेन पूयते ॥१८॥

मूलम्

प्रीयतां धर्मराजेति यद्वा मनसि वर्तते।
यावज्जीवकृतं पापं तेन दानेन पूयते ॥१८॥

इति विष्णुधर्मेषु गोप्रदानमिश्रदानम्।