अथ पञ्चचत्वारिंशोऽध्यायः।
शौनक उवाच।
विश्वास-प्रस्तुतिः
कौतूहलसमाविष्टः पप्रच्छेदं युधिष्ठिरः।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥१॥
मूलम्
कौतूहलसमाविष्टः पप्रच्छेदं युधिष्ठिरः।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥१॥
विश्वास-प्रस्तुतिः
कीदृशं किम्प्रमाणं वा कथं वान्तं जनार्दन।
तरन्ति पुरुषाः कृष्ण केनोपायेन संशमे ॥२॥
मूलम्
कीदृशं किम्प्रमाणं वा कथं वान्तं जनार्दन।
तरन्ति पुरुषाः कृष्ण केनोपायेन संशमे ॥२॥
विश्वास-प्रस्तुतिः
तस्य तद्वचनं श्रुत्वा विस्मितो मधुसूदनः।
प्रत्युवाच महात्मानं धर्मपुत्रं युधिष्ठिरम् ॥३॥
मूलम्
तस्य तद्वचनं श्रुत्वा विस्मितो मधुसूदनः।
प्रत्युवाच महात्मानं धर्मपुत्रं युधिष्ठिरम् ॥३॥
भगवानुवाच।
विश्वास-प्रस्तुतिः
साधु साधुरयं प्रश्नः श्रूयतां भो युधिष्ठिर।
षडशीतिसहस्राणि योजनानां नराधिप ॥४॥
मूलम्
साधु साधुरयं प्रश्नः श्रूयतां भो युधिष्ठिर।
षडशीतिसहस्राणि योजनानां नराधिप ॥४॥
विश्वास-प्रस्तुतिः
यमलोकस्य चाध्वानमन्तरं मानुषस्य च।
ताम्रपात्रमिवातप्तं शूलव्यामिश्रकण्टकम् ॥५॥
मूलम्
यमलोकस्य चाध्वानमन्तरं मानुषस्य च।
ताम्रपात्रमिवातप्तं शूलव्यामिश्रकण्टकम् ॥५॥
विश्वास-प्रस्तुतिः
द्वादशादित्यसङ्काशं भैरवं दुरतिक्रमम्।
न तत्र वृक्षा न च्छाया पानीयं केतनानि च ॥६॥
मूलम्
द्वादशादित्यसङ्काशं भैरवं दुरतिक्रमम्।
न तत्र वृक्षा न च्छाया पानीयं केतनानि च ॥६॥
विश्वास-प्रस्तुतिः
यत्र विश्रमते श्रान्तः पुरुषोऽध्वानको नृप।
याम्यैर्दूतैर्नीयमानो यमस्याज्ञाकरैर्बलात् ॥७॥
मूलम्
यत्र विश्रमते श्रान्तः पुरुषोऽध्वानको नृप।
याम्यैर्दूतैर्नीयमानो यमस्याज्ञाकरैर्बलात् ॥७॥
विश्वास-प्रस्तुतिः
अवश्यं च महाराज स गन्तव्यो महापथः।
नरैः स्त्रीभिस्तथा तिर्यैः पृथिव्यां जीवसञ्ज्ञकैः ॥८॥
मूलम्
अवश्यं च महाराज स गन्तव्यो महापथः।
नरैः स्त्रीभिस्तथा तिर्यैः पृथिव्यां जीवसञ्ज्ञकैः ॥८॥
विश्वास-प्रस्तुतिः
एकविंशच्च नरका यमस्य विषये स्मृताः।
ये तु दुष्कृतकर्माणस्ते पतन्ति पृथक् पृथक् ॥९॥
मूलम्
एकविंशच्च नरका यमस्य विषये स्मृताः।
ये तु दुष्कृतकर्माणस्ते पतन्ति पृथक् पृथक् ॥९॥
विश्वास-प्रस्तुतिः
नरको रौरवो नाम महारौरव एव च।
क्षुरधारा महारौद्रः सूकरस्ताल एव च ॥१०॥
मूलम्
नरको रौरवो नाम महारौरव एव च।
क्षुरधारा महारौद्रः सूकरस्ताल एव च ॥१०॥
विश्वास-प्रस्तुतिः
वज्रकुम्भो महाघोरः शाल्मलोऽथ विमोहनः।
कीटादः कृमिभक्षश्च शाल्मलिश्च महाद्रुमः ॥११॥
मूलम्
वज्रकुम्भो महाघोरः शाल्मलोऽथ विमोहनः।
कीटादः कृमिभक्षश्च शाल्मलिश्च महाद्रुमः ॥११॥
तथा पूयवहः पापा रुधिरान्धो महत्तमः।
विश्वास-प्रस्तुतिः
अग्निज्वालो महानादः सन्दांशः शुनभोजनः।
तथा वैतरणी चोष्णा असिपत्त्रवनं तथा ॥१२॥
मूलम्
अग्निज्वालो महानादः सन्दांशः शुनभोजनः।
तथा वैतरणी चोष्णा असिपत्त्रवनं तथा ॥१२॥
विश्वास-प्रस्तुतिः
विष्णोस्तद्वचनं श्रुत्वा पपात भुवि पाण्डवः।
स सञ्ज्ञश्च मुहूर्तेन भूयः केशवमब्रवीत् ॥१३॥
मूलम्
विष्णोस्तद्वचनं श्रुत्वा पपात भुवि पाण्डवः।
स सञ्ज्ञश्च मुहूर्तेन भूयः केशवमब्रवीत् ॥१३॥
युधिष्ठिर उवाच।
विश्वास-प्रस्तुतिः
भीतश्चास्मि महाबाहो श्रुत्वा मार्गस्य विस्तरम्।
केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम् ॥१४॥
मूलम्
भीतश्चास्मि महाबाहो श्रुत्वा मार्गस्य विस्तरम्।
केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम् ॥१४॥
भगवानुवाच।
विश्वास-प्रस्तुतिः
ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव।
यो दद्याच्छ्रद्धया युक्तः सुखं याति महापथम् ॥१५॥
मूलम्
ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव।
यो दद्याच्छ्रद्धया युक्तः सुखं याति महापथम् ॥१५॥
विश्वास-प्रस्तुतिः
उपानहप्रदा यान्ति सुखं छायासु च्छत्त्रदाः।
न तेषामशुभं किञ्चिच्छूलादि न च कण्टकाः ॥१६॥
मूलम्
उपानहप्रदा यान्ति सुखं छायासु च्छत्त्रदाः।
न तेषामशुभं किञ्चिच्छूलादि न च कण्टकाः ॥१६॥
विश्वास-प्रस्तुतिः
उपानहौ यो ददाति पात्रभूते द्विजोत्तमे।
अश्वतर्यः प्रदातारमुपतिष्ठन्ति तं नरम् ॥१७॥
मूलम्
उपानहौ यो ददाति पात्रभूते द्विजोत्तमे।
अश्वतर्यः प्रदातारमुपतिष्ठन्ति तं नरम् ॥१७॥
विश्वास-प्रस्तुतिः
वितृष्णाश्चाम्बुदातारस्तर्पिताश्चान्नदास्तथा।
औप्रावृता वस्त्रदाश्च नग्ना वै यान्त्यवस्त्रदाः ॥१८॥
मूलम्
वितृष्णाश्चाम्बुदातारस्तर्पिताश्चान्नदास्तथा।
औप्रावृता वस्त्रदाश्च नग्ना वै यान्त्यवस्त्रदाः ॥१८॥
विश्वास-प्रस्तुतिः
हिरण्यदाः सुखं यान्ति पुरुषाः स्वाभ्यलङ्कृताः।
गोप्रदा यान्ति च सुखं विमुक्ताः सर्वकिल्बिषैः ॥१९॥
मूलम्
हिरण्यदाः सुखं यान्ति पुरुषाः स्वाभ्यलङ्कृताः।
गोप्रदा यान्ति च सुखं विमुक्ताः सर्वकिल्बिषैः ॥१९॥
विश्वास-प्रस्तुतिः
भूमिदाः सुखमधन्ते सर्वकामैः सुतर्पिताः।
यान्ति चैवापरिक्लिष्टा नराः शय्यासनप्रदाः ॥२०॥
मूलम्
भूमिदाः सुखमधन्ते सर्वकामैः सुतर्पिताः।
यान्ति चैवापरिक्लिष्टा नराः शय्यासनप्रदाः ॥२०॥
विश्वास-प्रस्तुतिः
ततः सुखतरं यान्ति विमानेषु गृहप्रदाः।
क्षीरप्रदा हि दिव्याभिः ससर्पिभिस्तथैव च ॥२१॥
मूलम्
ततः सुखतरं यान्ति विमानेषु गृहप्रदाः।
क्षीरप्रदा हि दिव्याभिः ससर्पिभिस्तथैव च ॥२१॥
विश्वास-प्रस्तुतिः
गोप्रदाता लभेत्तृप्तिं तस्मिन्देशे सुदुर्लभाम्।
आरामरोपी च्छायासु शीतलासु सुखं व्रजेत् ॥२२॥
मूलम्
गोप्रदाता लभेत्तृप्तिं तस्मिन्देशे सुदुर्लभाम्।
आरामरोपी च्छायासु शीतलासु सुखं व्रजेत् ॥२२॥
सुगन्धिगन्धिनो यान्ति गन्धमाल्यप्रदा नरः।
विश्वास-प्रस्तुतिः
अदत्तदाना गच्छन्ति पद्भ्यां यानेन यानदाः।
दीपप्रदाः सुखं यान्ति दीपयन्तश्च तत्पथम् ॥२३॥
मूलम्
अदत्तदाना गच्छन्ति पद्भ्यां यानेन यानदाः।
दीपप्रदाः सुखं यान्ति दीपयन्तश्च तत्पथम् ॥२३॥
विमानैर्हंसयुक्तैस्तु यान्ति मासोपवासिनः।
विश्वास-प्रस्तुतिः
चक्रवाकप्रयुक्तेन पञ्चरात्रोपवासिनः।
ततो बर्हिणयुक्तेन षड्रात्रमुपवासिनः ॥२४॥
मूलम्
चक्रवाकप्रयुक्तेन पञ्चरात्रोपवासिनः।
ततो बर्हिणयुक्तेन षड्रात्रमुपवासिनः ॥२४॥
विश्वास-प्रस्तुतिः
त्रिरात्रमेकभक्तेन क्षपयेद्यस्तु पाण्डव।
अनन्तरं च योऽश्नीयात्तस्य लोका यथा मम ॥२५॥
मूलम्
त्रिरात्रमेकभक्तेन क्षपयेद्यस्तु पाण्डव।
अनन्तरं च योऽश्नीयात्तस्य लोका यथा मम ॥२५॥
पनीयं परलोकेषु पावनं परमं स्मृतम्।
विश्वास-प्रस्तुतिः
पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती।
पानीयस्य गुणा दिव्याः प्रेतलोके सुखावहाः ॥२६॥
मूलम्
पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती।
पानीयस्य गुणा दिव्याः प्रेतलोके सुखावहाः ॥२६॥
विश्वास-प्रस्तुतिः
तत्र पुण्योदका नाम नदी तेषां प्रवर्तते।
शीतलं सलिलं तत्र पिबन्ति ह्यमृतोपमम् ॥२७॥
मूलम्
तत्र पुण्योदका नाम नदी तेषां प्रवर्तते।
शीतलं सलिलं तत्र पिबन्ति ह्यमृतोपमम् ॥२७॥
विश्वास-प्रस्तुतिः
ये च दुष्कृतकर्माणः पूयं तेषां प्रवर्तते।
एषा नदी महाराज सर्वकामदुघा शुभा ॥२८॥
मूलम्
ये च दुष्कृतकर्माणः पूयं तेषां प्रवर्तते।
एषा नदी महाराज सर्वकामदुघा शुभा ॥२८॥
अध्वनि खिन्नगात्रस्तु द्विजो यः क्षुत्तृष्णान्वितः।
विश्वास-प्रस्तुतिः
पृच्छन्सदान्नदातारमभ्येति गृहमाशया।
तं पूजय प्रयत्नेन सोऽतिथिर्ब्राह्मणः स्मृतः ॥२९॥
मूलम्
पृच्छन्सदान्नदातारमभ्येति गृहमाशया।
तं पूजय प्रयत्नेन सोऽतिथिर्ब्राह्मणः स्मृतः ॥२९॥
पितरो देवताश्चैव ऋषयश्च तपोधनाः।
पूजिताः पूजिते तस्मिन्निराशे तु निराशकाः।
विश्वास-प्रस्तुतिः
तमेव गच्छन्तमनुव्रजन्ति देवाश्च सर्वे पितरस्तथैव।
तस्मिन्द्विजे पूजिते पूजितास्ते गते निराशे प्रतियान्ति नाशम् ॥३०॥
मूलम्
तमेव गच्छन्तमनुव्रजन्ति देवाश्च सर्वे पितरस्तथैव।
तस्मिन्द्विजे पूजिते पूजितास्ते गते निराशे प्रतियान्ति नाशम् ॥३०॥
विश्वास-प्रस्तुतिः
अहन्यहनि दातव्यं ब्राह्मणेभ्यो युधिष्ठिर।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥३१॥
मूलम्
अहन्यहनि दातव्यं ब्राह्मणेभ्यो युधिष्ठिर।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥३१॥
इति विष्णुधर्मेषु याम्याख्यानकम्।