०४४

अथ चतुश्चत्वारिंशोऽध्यायः।
शौनक उवाच।

विश्वास-प्रस्तुतिः

पञ्चमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः।
तदा नारायणं देवं प्रश्नमेतमपृच्छत ॥१॥

मूलम्

पञ्चमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः।
तदा नारायणं देवं प्रश्नमेतमपृच्छत ॥१॥

युधिष्ठिर उवाच।

विश्वास-प्रस्तुतिः

भगवन्वैष्णवा धर्माः किम्फलाः किम्परायणाः।
किं कृत्यमधिकृत्यैते भवतोत्पादिताः पुरा ॥२॥

मूलम्

भगवन्वैष्णवा धर्माः किम्फलाः किम्परायणाः।
किं कृत्यमधिकृत्यैते भवतोत्पादिताः पुरा ॥२॥

विश्वास-प्रस्तुतिः

यदि ते पाण्डुषु स्नेहो विद्यते मधुसूदन।
श्रोतव्याश्चेन्मया धर्मास्ततस्तान्कथयाखिलान् ॥३॥

मूलम्

यदि ते पाण्डुषु स्नेहो विद्यते मधुसूदन।
श्रोतव्याश्चेन्मया धर्मास्ततस्तान्कथयाखिलान् ॥३॥

विश्वास-प्रस्तुतिः

पवित्राश्चैव ये धर्माः सर्वपापप्रणाशनाः।
तव वक्त्रच्युता देव सर्वधर्मेष्वनुत्तमाः ॥४॥

मूलम्

पवित्राश्चैव ये धर्माः सर्वपापप्रणाशनाः।
तव वक्त्रच्युता देव सर्वधर्मेष्वनुत्तमाः ॥४॥

विश्वास-प्रस्तुतिः

याञ्श्रुत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः।
सुरापो वा कृतघ्नश्च मुच्यते सर्वकिल्बिषैः ॥५॥

मूलम्

याञ्श्रुत्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः।
सुरापो वा कृतघ्नश्च मुच्यते सर्वकिल्बिषैः ॥५॥

विश्वास-प्रस्तुतिः

एतन्मे कथितं सर्वं सभामध्येऽरिसूदन।
वसिष्ठाद्यैर्महाभागैर्मुनिभिर्भावितात्मभिः ॥६॥

मूलम्

एतन्मे कथितं सर्वं सभामध्येऽरिसूदन।
वसिष्ठाद्यैर्महाभागैर्मुनिभिर्भावितात्मभिः ॥६॥

विश्वास-प्रस्तुतिः

ततोऽहं तव देवेश पादमूलमुपागतः।
धर्मान्कथय तान्देव यद्यहं भवतः प्रियः ॥७॥

मूलम्

ततोऽहं तव देवेश पादमूलमुपागतः।
धर्मान्कथय तान्देव यद्यहं भवतः प्रियः ॥७॥

विश्वास-प्रस्तुतिः

श्रुता मे मानवा धर्मा वासिष्ठाश्च महामते।
पराशरकृताश्चैव तथात्रेयस्य धीमतः ॥८॥

मूलम्

श्रुता मे मानवा धर्मा वासिष्ठाश्च महामते।
पराशरकृताश्चैव तथात्रेयस्य धीमतः ॥८॥

विश्वास-प्रस्तुतिः

श्रुता गार्ग्यस्य शङ्खस्य लिखितस्य यमस्य च।
जापालेश्च महाबाहो मुनेर्द्वैपायनस्य च ॥९॥

मूलम्

श्रुता गार्ग्यस्य शङ्खस्य लिखितस्य यमस्य च।
जापालेश्च महाबाहो मुनेर्द्वैपायनस्य च ॥९॥

विश्वास-प्रस्तुतिः

उमामहेश्वराश्चैव जातिधर्माश्च पावनाः।
गुणेश्च गुणबाहोश्च काश्यपेयास्तथैव च ॥१०॥

मूलम्

उमामहेश्वराश्चैव जातिधर्माश्च पावनाः।
गुणेश्च गुणबाहोश्च काश्यपेयास्तथैव च ॥१०॥

विश्वास-प्रस्तुतिः

बह्वायनकृताश्चैव शाकुनेयास्तथैव च।
अगस्त्यगीता मौद्गल्याः शाण्डिल्याः सौरभास्तथा ॥११॥

मूलम्

बह्वायनकृताश्चैव शाकुनेयास्तथैव च।
अगस्त्यगीता मौद्गल्याः शाण्डिल्याः सौरभास्तथा ॥११॥

विश्वास-प्रस्तुतिः

भृगोरङ्गिरसश्चैव कश्यपोद्दालकास्तथा।
सौमन्तूग्रायणाग्राश्च पैलस्य च महात्मनः ॥१२॥

मूलम्

भृगोरङ्गिरसश्चैव कश्यपोद्दालकास्तथा।
सौमन्तूग्रायणाग्राश्च पैलस्य च महात्मनः ॥१२॥

विश्वास-प्रस्तुतिः

वैशम्पायनगीताश्च पिशङ्गमकृताश्च ये।
ऐन्द्राश्च वारुणाश्चैव कौबेरा वात्स्यपौणकाः ॥१३॥

मूलम्

वैशम्पायनगीताश्च पिशङ्गमकृताश्च ये।
ऐन्द्राश्च वारुणाश्चैव कौबेरा वात्स्यपौणकाः ॥१३॥

आपस्तम्बाः श्रुता धर्मास्तथा गोपालकस्य च।

विश्वास-प्रस्तुतिः

भृग्वङ्गिरःकृताश्चैव सौर्या हारीतकास्तथा।
याज्ञवल्क्यकृताश्चैव तथा सप्तर्षयश्च ये ॥१४॥

मूलम्

भृग्वङ्गिरःकृताश्चैव सौर्या हारीतकास्तथा।
याज्ञवल्क्यकृताश्चैव तथा सप्तर्षयश्च ये ॥१४॥

विश्वास-प्रस्तुतिः

एताश्चान्याश्च विविधाः श्रुता मे धर्मसंहिताः।
भगवञ्श्रोतुमिच्छामि तव वक्त्राद्विनिःसृतान् ॥१५॥

मूलम्

एताश्चान्याश्च विविधाः श्रुता मे धर्मसंहिताः।
भगवञ्श्रोतुमिच्छामि तव वक्त्राद्विनिःसृतान् ॥१५॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

एवमुक्तः स पार्थेन प्रत्युवाच जनार्दनः।
बहुमानाच्च प्रीत्या च धर्मपुत्रं युधिष्ठिरम् ॥१६॥

मूलम्

एवमुक्तः स पार्थेन प्रत्युवाच जनार्दनः।
बहुमानाच्च प्रीत्या च धर्मपुत्रं युधिष्ठिरम् ॥१६॥

भगवानुवाच।

विश्वास-प्रस्तुतिः

इष्टस्त्वं हि महाबाहो सदा मम युधिष्ठिर।
परमार्थं तव ब्रूयां किं पुनर्धर्मसंहिताम् ॥१७॥

मूलम्

इष्टस्त्वं हि महाबाहो सदा मम युधिष्ठिर।
परमार्थं तव ब्रूयां किं पुनर्धर्मसंहिताम् ॥१७॥

विश्वास-प्रस्तुतिः

परमज्ञानिभिः सिद्धैर्युञ्जद्भिरपि नित्यशः।
प्रशान्तस्येव दीपस्य गतिर्मम दुरत्यया ॥१८॥

मूलम्

परमज्ञानिभिः सिद्धैर्युञ्जद्भिरपि नित्यशः।
प्रशान्तस्येव दीपस्य गतिर्मम दुरत्यया ॥१८॥

विश्वास-प्रस्तुतिः

सर्ववेदमयं ब्रह्म पवित्रमृषिभिः स्तुतम्।
कथयिष्यामि ते राजन्धर्मं धर्मभृतां वर ॥१९॥

मूलम्

सर्ववेदमयं ब्रह्म पवित्रमृषिभिः स्तुतम्।
कथयिष्यामि ते राजन्धर्मं धर्मभृतां वर ॥१९॥

विश्वास-प्रस्तुतिः

एवमुक्ते तु कृष्णेन ऋषयोऽमिततेजसः।
समाजग्मुः सभामध्ये श्रोतुकामा हरेर्गिरम् ॥२०॥

मूलम्

एवमुक्ते तु कृष्णेन ऋषयोऽमिततेजसः।
समाजग्मुः सभामध्ये श्रोतुकामा हरेर्गिरम् ॥२०॥

देवगन्धर्वऋषयो गुह्यकाश्च महायशाः।
वालखिल्या महात्मानो मुनयः सम्मितव्रताः।
पावनान्सर्वधर्मेभ्यो रहस्यान्द्विजसत्तम।

विश्वास-प्रस्तुतिः

वैष्णवानखिलान्धर्मान्यः पठेत्पापनाशनान्।
भवेयुरक्षयास्तस्य लोकाः सत्पुण्यभागिनः ॥२१॥

मूलम्

वैष्णवानखिलान्धर्मान्यः पठेत्पापनाशनान्।
भवेयुरक्षयास्तस्य लोकाः सत्पुण्यभागिनः ॥२१॥

विश्वास-प्रस्तुतिः

कृष्णदृष्टिहतं चास्य किल्बिषं सम्प्रणश्यति।
वैष्णवस्य च यज्ञस्य फलं प्राप्नोति मानवः ॥२२॥

मूलम्

कृष्णदृष्टिहतं चास्य किल्बिषं सम्प्रणश्यति।
वैष्णवस्य च यज्ञस्य फलं प्राप्नोति मानवः ॥२२॥

इति विष्णुधर्मेषु युधिष्ठिरप्रश्नः।