अथ त्रिचत्वारिंशोऽध्यायः।
शुक्र उवाच।
विश्वास-प्रस्तुतिः
इति दाल्भ्यः पुलस्त्येन यथावत्प्रतिबोधितः।
आराधयामास हरिं लेभे कामांश्च वाञ्छितान् ॥१॥
मूलम्
इति दाल्भ्यः पुलस्त्येन यथावत्प्रतिबोधितः।
आराधयामास हरिं लेभे कामांश्च वाञ्छितान् ॥१॥
विश्वास-प्रस्तुतिः
तथा त्वमपि दैत्येन्द्रकेशवाराधनं कुरु।
आराध्य तं जगन्नाथं न कश्चिदवसीदति ॥२॥
मूलम्
तथा त्वमपि दैत्येन्द्रकेशवाराधनं कुरु।
आराध्य तं जगन्नाथं न कश्चिदवसीदति ॥२॥
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
इति शुक्रवचः श्रुत्वा प्रह्लादो मधुसूदनम्।
आराध्य प्राप्तवान्कृत्स्नं त्रैलोकैश्वर्यमूर्जितम् ॥३॥
मूलम्
इति शुक्रवचः श्रुत्वा प्रह्लादो मधुसूदनम्।
आराध्य प्राप्तवान्कृत्स्नं त्रैलोकैश्वर्यमूर्जितम् ॥३॥
विश्वास-प्रस्तुतिः
एतन्मयोक्तं सकलं तव भूमिप पृच्छतः।
अनाराध्याच्युतं देवं कः कामान्प्राप्नुते नरः ॥४॥
मूलम्
एतन्मयोक्तं सकलं तव भूमिप पृच्छतः।
अनाराध्याच्युतं देवं कः कामान्प्राप्नुते नरः ॥४॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
अम्बरीसो नरपतिर्विष्णोर्माहात्म्यमुत्तमम्।
श्रुत्वा बभूव सततं केशवार्पितमानसः ॥५॥
मूलम्
अम्बरीसो नरपतिर्विष्णोर्माहात्म्यमुत्तमम्।
श्रुत्वा बभूव सततं केशवार्पितमानसः ॥५॥
विश्वास-प्रस्तुतिः
एवं त्वमपि कौरव्य यदि मुक्तिमभीष्यसि।
भोगान्वा विलुपान्देवात्तस्मादाराधयाच्युतम् ॥६॥
मूलम्
एवं त्वमपि कौरव्य यदि मुक्तिमभीष्यसि।
भोगान्वा विलुपान्देवात्तस्मादाराधयाच्युतम् ॥६॥
विश्वास-प्रस्तुतिः
ददाति वाञ्छितान्कामान्सकामैरर्चितो हरिः।
मुक्तिं ददाति गोविन्दो निष्कामैरभिपूजितः ॥७॥
मूलम्
ददाति वाञ्छितान्कामान्सकामैरर्चितो हरिः।
मुक्तिं ददाति गोविन्दो निष्कामैरभिपूजितः ॥७॥
शतानीक उवाच।
विश्वास-प्रस्तुतिः
भगवानवतीर्णोऽभून्मर्त्यलोकं जनार्दनः।
भारावतरणार्थाय भुवो भूतपतिर्हरिः ॥८॥
मूलम्
भगवानवतीर्णोऽभून्मर्त्यलोकं जनार्दनः।
भारावतरणार्थाय भुवो भूतपतिर्हरिः ॥८॥
विश्वास-प्रस्तुतिः
मानुषत्वे च गोविन्दो मम पूर्वपितामहैः।
चकार प्रीतिमतुलां सामान्यपुरुषो यथा ॥९॥
मूलम्
मानुषत्वे च गोविन्दो मम पूर्वपितामहैः।
चकार प्रीतिमतुलां सामान्यपुरुषो यथा ॥९॥
विश्वास-प्रस्तुतिः
सारथ्यं कृतवांश्चैव तेषां सर्वेश्वरो हरिः।
निस्तीर्णो येन भीष्मौघो कुरुसैन्यमहोदधिः ॥१०॥
मूलम्
सारथ्यं कृतवांश्चैव तेषां सर्वेश्वरो हरिः।
निस्तीर्णो येन भीष्मौघो कुरुसैन्यमहोदधिः ॥१०॥
विश्वास-प्रस्तुतिः
उपकारी महाभागः स तेषां सर्ववस्तुषु।
केशवः पाण्डुपुत्राणां सुतानां जनको यथा ॥११॥
मूलम्
उपकारी महाभागः स तेषां सर्ववस्तुषु।
केशवः पाण्डुपुत्राणां सुतानां जनको यथा ॥११॥
विश्वास-प्रस्तुतिः
धन्यास्ते कृतपुण्याश्च मम पाण्डुसुता मताः।
विविशुर्ये परिष्वङ्गे गोविन्दभुजपञ्जरम् ॥१२॥
मूलम्
धन्यास्ते कृतपुण्याश्च मम पाण्डुसुता मताः।
विविशुर्ये परिष्वङ्गे गोविन्दभुजपञ्जरम् ॥१२॥
विश्वास-प्रस्तुतिः
राज्यहेतोररीञ्जघ्नुरकस्मात्पाण्डुनन्दनाः।
सप्तलोकैकनाथेन येऽभवन्नेकशायिनः ॥१३॥
मूलम्
राज्यहेतोररीञ्जघ्नुरकस्मात्पाण्डुनन्दनाः।
सप्तलोकैकनाथेन येऽभवन्नेकशायिनः ॥१३॥
विश्वास-प्रस्तुतिः
आत्मानमवगच्छामि भगवन्धूतकल्मषम्।
जातं निर्धूतपापेऽस्मिन्कुले विष्णुपरिग्रहे ॥१४॥
मूलम्
आत्मानमवगच्छामि भगवन्धूतकल्मषम्।
जातं निर्धूतपापेऽस्मिन्कुले विष्णुपरिग्रहे ॥१४॥
विश्वास-प्रस्तुतिः
एवं देववरस्तेषां प्रसादसुमुखो हरिः।
पृच्छतां कच्चिदाचष्टे किञ्चिद्गुह्यं महात्मनाम् ॥१५॥
मूलम्
एवं देववरस्तेषां प्रसादसुमुखो हरिः।
पृच्छतां कच्चिदाचष्टे किञ्चिद्गुह्यं महात्मनाम् ॥१५॥
विश्वास-प्रस्तुतिः
गुह्यं जनार्दनं यांस्तु धर्मपुत्रो युधिष्ठिरः।
पप्रच्छ धर्मानखिलांस्तन्ममाख्यातुमर्हसि ॥१६॥
मूलम्
गुह्यं जनार्दनं यांस्तु धर्मपुत्रो युधिष्ठिरः।
पप्रच्छ धर्मानखिलांस्तन्ममाख्यातुमर्हसि ॥१६॥
विश्वास-प्रस्तुतिः
धर्मार्थकाममोक्षेषु यद्गुह्यं मधुसूदनः।
तेषामवोचद्भगवाञ्श्रोतुमिच्छामि तत्त्वहम् ॥१७॥
मूलम्
धर्मार्थकाममोक्षेषु यद्गुह्यं मधुसूदनः।
तेषामवोचद्भगवाञ्श्रोतुमिच्छामि तत्त्वहम् ॥१७॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
बहूनि धर्मगुह्यानि धर्मपुत्राय केशवः।
पुरा प्रोवाच राजेन्द्रप्रसादसुमुखो हरिः ॥१८॥
मूलम्
बहूनि धर्मगुह्यानि धर्मपुत्राय केशवः।
पुरा प्रोवाच राजेन्द्रप्रसादसुमुखो हरिः ॥१८॥
विश्वास-प्रस्तुतिः
शरतल्पगताद्भीष्माद्धर्माञ्श्रुत्वा युधिष्ठिरः।
पृष्टवान्यज्जगन्नाथं तन्मे निगदतः शृणु ॥१९॥
मूलम्
शरतल्पगताद्भीष्माद्धर्माञ्श्रुत्वा युधिष्ठिरः।
पृष्टवान्यज्जगन्नाथं तन्मे निगदतः शृणु ॥१९॥
इति विष्णुधर्मेषु पुलस्त्यदाल्भ्यसंवादः।