अथ द्विचत्वारिंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
उपवासाश्रितं सम्यग्लोकद्वयफलप्रदम्।
कथितं भवता सर्वं यत्पृष्टोऽसि मया द्विज ॥१॥
मूलम्
उपवासाश्रितं सम्यग्लोकद्वयफलप्रदम्।
कथितं भवता सर्वं यत्पृष्टोऽसि मया द्विज ॥१॥
विश्वास-प्रस्तुतिः
अन्यदिच्छाम्यहं श्रोतुं तद्भवान्प्रब्रवीतु मे।
संसारहेतुं मुक्तिं च संसारान्मुनिसत्तम ॥२॥
मूलम्
अन्यदिच्छाम्यहं श्रोतुं तद्भवान्प्रब्रवीतु मे।
संसारहेतुं मुक्तिं च संसारान्मुनिसत्तम ॥२॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
अविद्याप्रभवं कर्म हेतुभूतं द्विजोत्तम।
संसारस्यास्य तन्मुक्तिः सङ्क्षेपाच्छ्रूयतां मम ॥३॥
मूलम्
अविद्याप्रभवं कर्म हेतुभूतं द्विजोत्तम।
संसारस्यास्य तन्मुक्तिः सङ्क्षेपाच्छ्रूयतां मम ॥३॥
विश्वास-प्रस्तुतिः
स्वजातिविहितं कर्म लोभद्वेषविवर्जितम्।
कुर्वतः क्षीयते पूर्वं मन्युबन्धश्च नेष्यते ॥४॥
मूलम्
स्वजातिविहितं कर्म लोभद्वेषविवर्जितम्।
कुर्वतः क्षीयते पूर्वं मन्युबन्धश्च नेष्यते ॥४॥
विश्वास-प्रस्तुतिः
अपूर्वसम्भवाभवात्क्षयं यात्यादिकर्मणि।
दाल्भ्य संसारविच्छेदः कारणाभावसम्भवः ॥५॥
मूलम्
अपूर्वसम्भवाभवात्क्षयं यात्यादिकर्मणि।
दाल्भ्य संसारविच्छेदः कारणाभावसम्भवः ॥५॥
विश्वास-प्रस्तुतिः
भवत्यसंशयं चान्यच्छ्रूयतामत्र कारणम्।
संसारान्मुच्यते दाल्भ्य समासाद्वदतो मम ॥६॥
मूलम्
भवत्यसंशयं चान्यच्छ्रूयतामत्र कारणम्।
संसारान्मुच्यते दाल्भ्य समासाद्वदतो मम ॥६॥
विश्वास-प्रस्तुतिः
गृहीतकर्मणा येन पुंसां जातिर्द्विजोत्तम।
तत्प्रायश्चित्तभूतं वै शृणु कर्मक्षयावहम् ॥७॥
मूलम्
गृहीतकर्मणा येन पुंसां जातिर्द्विजोत्तम।
तत्प्रायश्चित्तभूतं वै शृणु कर्मक्षयावहम् ॥७॥
विश्वास-प्रस्तुतिः
ब्राह्मणक्षत्रियविशां शूद्रान्त्यानां च सत्तम।
स्वजातिविहितं कर्म रागद्वेषादिवर्जितम् ॥८॥
मूलम्
ब्राह्मणक्षत्रियविशां शूद्रान्त्यानां च सत्तम।
स्वजातिविहितं कर्म रागद्वेषादिवर्जितम् ॥८॥
विश्वास-प्रस्तुतिः
जातिप्रदस्य क्षयदं तदेवाद्यस्य कर्मणः।
ज्ञानकारणभावं च तदेव प्रतिपद्यते ॥९॥
मूलम्
जातिप्रदस्य क्षयदं तदेवाद्यस्य कर्मणः।
ज्ञानकारणभावं च तदेव प्रतिपद्यते ॥९॥
विश्वास-प्रस्तुतिः
पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तम।
ब्रह्मणा विष्णुसञ्ज्ञेन परमेणाव्ययात्मना ॥१०॥
मूलम्
पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तम।
ब्रह्मणा विष्णुसञ्ज्ञेन परमेणाव्ययात्मना ॥१०॥
विश्वास-प्रस्तुतिः
एतत्ते कथितं दाल्भ्य संसारस्य समासतः।
कारणं भवमुक्तिश्च जायते योगिनो यथा ॥११॥
मूलम्
एतत्ते कथितं दाल्भ्य संसारस्य समासतः।
कारणं भवमुक्तिश्च जायते योगिनो यथा ॥११॥
इति विष्णुधर्मेषु संसारहेतुमुक्त्याख्यानकम्।