०४१

अथैकचत्वारिंशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

यथैतद्भवता प्रोक्तं धर्मार्थादेस्तु साधनम्।
पत्नी नॄणां मुनिश्रेष्ठ योषितश्च तथा नरः ॥१॥

मूलम्

तच्छ्रोतुमिच्छे विप्रर्षे विधवा स्त्री न जायते।
उपोषीतेन येनाग्र्या पत्न्या च रहितो नरः ॥२॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

अशून्यशयना नाम द्वितीयां शृणु तां मम।
यामुपोष्य न वैधव्यं प्रयाति स्त्री द्विजोत्तम ॥३॥

पत्नीवियुक्तश्च नरो न कदाचित्प्रजायते।
शेते जगत्पतिः कृष्णः श्रिया सार्धं यदा द्विज ॥४॥

अशून्यशयना नाम तदा ग्राह्या हि सा तिथिः।
कृष्णपक्षद्वितीयायां श्रावणे द्विजसत्तम ॥५॥

इदमुच्चारयेन्नाम प्रणम्य जगतः पतिम्।
श्रीवत्सधारिणं श्रीशं भक्त्याभ्यर्च्य श्रिया सह ॥६॥

श्रीवत्सधारिञ्श्रीकान्त श्रीधाम श्रीपतेऽच्युत।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ॥७॥

अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः।
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ॥८॥

लक्ष्म्या प्रयुज्यते देव न कदाचिद्यथा भवान्।
तथा कलत्रसम्बन्धो देव मा मे विभिद्यताम् ॥९॥

लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा।
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ॥१०॥

एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्यास्तथा हरेः।
फलानि दद्याच्छय्यायामभीष्टानि जगत्पतेः ॥११॥

नक्तं प्रणम्यायतने हविर्भुञ्जीत वाग्यतः।
ब्राह्मणाय द्वितीयेऽह्नि शक्त्या दद्याच्च दक्षिणाम् ॥१२॥

एवं करोति यः सम्यग्नरो मासचतुष्टयम्।
तस्य जन्मत्रयं दाल्भ्य गृहभङ्गो न जायते ॥१३॥

अशून्यशयनश्चासौ धर्मकर्मार्थसाधकः।
भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः ॥१४॥

नारी च दाल्भ्य धर्मज्ञा व्रतमेतद्यथाविधि।
या करोति न सा शोच्या बन्धुवर्गस्य जायते ॥१५॥

वैधव्यं दुर्भगत्वं वा भर्तृत्यागं च सत्तम।
नाप्नोति जन्मत्रितयमेतच्चीर्त्वा पतिव्रता ॥१६॥

इति विष्णुधर्मेष्वशून्यशयनद्वितीया नाम एकचत्वारिंशोऽध्यायः।