अथ चत्वारिंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
कुर्वीत किं पुमान्स्थानं कः पुमान्ब्रह्मणो बलम्।
ब्रह्मणश्च कथं भेदो ज्ञेयोऽभिन्नफलप्रदः ॥१॥
मूलम्

पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
स्वकर्मणा धनं लब्ध्वा नित्यनैमित्तिकाः क्रियाः।
कुर्वीत शुद्धिमास्थाय स्वेच्छया च तथा परः ॥२॥

त्यक्त्वा रागादिकान्दोषान्समः सर्वत्र वै भवेत्।
सर्वत्र मैत्रीं कुर्वीत दद्यादिष्टानि चार्थिनाम् ॥३॥

कुर्याद्दीनेषु करुणां दुःशीलान्परिवर्जयेत्।
मुदितां धर्मशीलेषु भावनां मुनिसत्तम ॥४॥

एकत्र वा जगन्नाथे भावनां पुरुषोत्तमे।
निःशेषार्थमलापेतां शुद्धां कुर्वीत पण्डितः ॥५॥

शरीरबाह्यतां शश्वद्धिंसां कुर्वीत न क्वचित्।
निन्दावमानमन्येषां यच्चान्यदुपघातकम् ॥६॥

शरीरवाङ्मनःशुद्धिं कुर्वीत च सदात्मनः।
भूतानामुपकारश्च तपोभिश्चात्मकर्षणम् ॥७॥
मूलम्
शरीरवाङ्मनःशुद्धिं कुर्वीत च सदात्मनः।
भूतानामुपकारश्च तपोभिश्चात्मकर्षणम् ॥७॥
विश्वास-प्रस्तुतिः
एष धर्मः समासेन दाल्भ्याख्यातो मया तव।
अधर्मश्चायमेवोक्तो विपरीतो मनीषिभिः ॥८॥
मूलम्
एष धर्मः समासेन दाल्भ्याख्यातो मया तव।
अधर्मश्चायमेवोक्तो विपरीतो मनीषिभिः ॥८॥
विश्वास-प्रस्तुतिः
एते यत्र गुणाः पूर्वं कथिता ज्ञानसंयुताः।
ब्रह्मणः साश्रयः शुद्ध उपचारात्तदेव सः ॥९॥

एकस्यैव सतस्तस्य ब्रह्मणो द्विजसत्तम।
नाम्नां बहुत्वं लोकानामुपकारकरं शृणु ॥१०॥

निमित्तशक्तयो नाम्नो भेदतस्तदुदीरणात्।
विभिन्नान्येव साध्यन्ते फलानि कुरुनन्दन ॥११॥

यच्छक्ति नाम तत्तस्य तत्तस्मिन्नेव वस्तुनि।
साधकं पुरुषव्याघ्र सौम्यक्रूरेषु वस्तुषु ॥१२॥

वासुदेवाच्युतानन्तसत्याज्यपुरुषोत्तमैः।
परमात्मेश्वराद्यैश्च स्तुतो नामभिरव्ययः ॥१३॥

निमित्तभावं भगवान्विमुक्तेर्यात्यधोक्षजः।
तथान्यकार्यसंसिद्धौ यद्यत्तत्तन्निशामय ॥१४॥

धनकृद्धर्मकृद्धर्मी धर्मात्मा विश्वकृच्छुचिः।
विश्वास-प्रस्तुतिः
शुचिषद्विष्णुरब्जाक्षः पुष्कराक्षो ह्यधोक्षयः।
शुचिश्रवाः शिपिविष्टो यज्ञेशो यज्ञभावनः ॥१५॥

नाम्नामित्येवमादीनां समुच्चारणतो नरः।
धर्मं महान्तमाप्नोति पापबन्धक्षयं तथा ॥१६॥

तथार्थप्राप्तये ब्रह्मन्देवनामानि मे शृणु।
येषां समुच्चारणतो वित्तमाप्नोति भक्तिमान् ॥१७॥

श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः।
श्रियः पतिः श्रीपरमः श्रीमाञ्श्रीवत्सलाञ्छनः ॥१८॥

नृसिंहो दुष्टदामनो जयो विष्णुस्त्रिविक्रमः।
स्तुतः प्रयच्छते चार्थमेवमादिभिरच्युतः ॥१९॥

काम्यः कामप्रदः कान्तः कामपालस्तथा हरिः।
आनन्दो माधवश्चैव कामसंसिद्धये नृप ॥२०॥

रामः परशुरामश्च नृसिंहो विष्णुरेव च।
विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः ॥२१॥

विद्यामभ्यसता नित्यं जप्तव्यः पुरुषोत्तमः।
दामोदरं बन्धगतो नित्यमेव जपन्नरः ॥२२॥

केशवं पुण्डरीकाक्षं पुष्कराक्षं तथा जपेत्।
नेत्रबाधासु सर्वासु हृषीकेशं भयेषु च ॥२३॥

अच्युतं चामृतं चैव जपेदौषधकर्मणि।
भ्राजिष्णुमग्निहानौ च जपेदालम्बने स्थितम् ॥२४॥

सङ्ग्रामाभिमुखं गच्छन्संस्मरेदपराजितम्।
पातालनरसिंहं च जलप्रतरणे स्मरेत् ॥२५॥
मूलम्
सङ्ग्रामाभिमुखं गच्छन्संस्मरेदपराजितम्।
पातालनरसिंहं च जलप्रतरणे स्मरेत् ॥२५॥
विश्वास-प्रस्तुतिः
चक्रिणं गदिनं चैव शार्ङ्गिनं खड्गिनं तथा।
क्षेमार्थे प्रसवन्राजन्दिक्षु प्राच्यादिषु स्मरेत् ॥२६॥

अजितं चाधिकं चैव सर्वं सर्वश्वरं तथा।
संस्मरेत्पुरुषो भक्त्या व्यवहारेषु सर्वदा ॥२७॥

नारायणं सर्वकालं क्षुतप्रस्खलितादिषु।
ग्रहनक्षत्रपीडासु देवबाधाटवीषु च ॥२८॥
मूलम्
नारायणं सर्वकालं क्षुतप्रस्खलितादिषु।
ग्रहनक्षत्रपीडासु देवबाधाटवीषु च ॥२८॥
अस्युवैरिनिरोधेषु व्याघ्रसिंहादिसङ्कटे।
विश्वास-प्रस्तुतिः
अन्धकारे च तीव्रे च नरसिंहमनुस्मरेत्।
तरत्यखिलदुर्गाणि तापार्तो जलशायिनम् ॥२९॥

गरुडध्वजानुस्मरणादापद्भ्यो मुच्यते नरः।
ज्वरदुष्टशिरोरोगविषवीर्यं प्रशाम्यति ॥३०॥

स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे।
कीर्तयेद्भगवन्नाम वासुदेवेति तत्परः ॥३१॥

स्थगने वित्तधान्यादेरपध्याने च दुष्टजे।
कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम् ॥३२॥

नारायणं शार्ङ्गधरं श्रीधरं पुरुषोत्तमम्।
वामनं खड्गिनं चैव दुःस्वप्नेषु च संस्मरेत् ॥३३॥

एकार्णवाहिपर्यङ्कशायिनं च नरः स्मरेत्।
वाय्वग्नीगृहदाहाय प्रवृद्धावुपलक्ष्य च ॥३४॥

विद्यार्थी मोहविभ्रान्तिवेगाघूर्णितमानसः।
मनुष्यो मुनिशार्दूल सदाश्वशिरसं स्मरेत् ॥३५॥

बलभद्रंसमृद्ध्यर्थी सीरकर्मणि कीर्तयेत्।
जगत्सूतिमपत्यार्थी स्तुवन्भक्त्या न सीदति ॥३६॥

जप्तव्यं सुप्रजाख्यं तु देवदेवस्य सत्तम।
दम्पत्योरात्मसम्बन्धे विवाहाख्ये पुनः पुनः ॥३७॥

श्रीशं सर्वाभ्युदयिके कर्मणि सम्प्रकीर्तयेत्।
अरिष्टान्तेष्वशेषेषु विशोकं च सदा जपेत् ॥३८॥

मरुत्प्रतापाग्निजलबन्धनादिषु मृत्युषु।
स्वातन्त्र्यपरतन्त्रेषु वासुदेवं जपेद्बुधः ॥३९॥

सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः।
यद्वाभिरोचते नाम तत्सर्वार्थेषु कीर्तयेत् ॥४०॥

सर्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यतः।
सर्वाण्येतानि नामानि परस्य ब्रह्मणोऽनघ ॥४१॥

एवमेतानि नामानि देवदेवस्य कीर्तयेत्।
विश्वास-प्रस्तुतिः
यं यं काममभिध्यायेत्तं तमाप्नोत्यसंशयम्।
सर्वान्कामानवाप्नोति समाराध्य जगद्गुरुम् ॥४२॥

तन्मयत्वेन गोविन्दमित्येतद्दाल्भ्य नान्यथा।
तन्मयो वाञ्छितान्कामान्यदवाप्नोति मानवः ॥४३॥

निमित्तशक्तिः सा तस्य न भेदो दाल्भ्य मानसः।
वाङ्मनःकायिकं द्वेषं यच्च कुर्वन्प्रयात्यधः ॥४४॥

स्वरूपशक्तिः सा तस्य मतिभेदकृतं न तद्।
स शाक्तो निर्गुणः शुद्धो ब्रह्मभूतो जगद्गुरुः ॥४५॥

कर्मभिर्नामभिर्जीवो दृश्यते दाल्भ्य नैकधा।
यथा च गङ्गासलिलं सितमत्यन्तनिर्मलम् ॥४६॥

एकस्वरूपमध्यात्मं पुण्यापुण्यविभेदिभिः।
विश्वास-प्रस्तुतिः
भ्रान्तिज्ञानान्वितैर्मिश्रं सितासितविचेष्टितैः।
दृश्यते नैकधा दाल्भ्य प्राणिभिर्भिन्नबुद्धिभिः ॥४७॥

तापार्तास्तापशमनमतिप्रीत्यतिशीतलम्।
कफदोषान्वितैर्नातिप्रीतियुक्तैर्निरंशुभिः ॥४८॥

स्त्रीयोग्यमेतन्नेतीति प्रीत्यप्रीतिसमन्वितैः।
मध्यस्थबुद्ध्या चैवान्ये नातिशीतातितापिभिः ॥४९॥

पवित्रमित्येतदिति पुण्यबुद्ध्या तथापरैः।
मृष्टमेतदितीत्यन्यैर्मत्स्याढ्यमिति चापरैः ॥५०॥

तुल्यबुद्ध्यापि चैवान्यैर्हेयबुद्ध्या तथापरैः।
नातिवेगातिवेगं च हृष्टोद्विग्नैस्तथापरैः ॥५१॥

किमेतेनेति चैवान्यैः परदाराभिलाषिभिः।
विश्वास-प्रस्तुतिः
दाल्भ्य सन्दृश्यते चान्यैर्जन्तुभिर्भायकातरैः।
तदेव पूयं पश्यन्ति प्रेताद्या हृतिपापिनः ॥५२॥

एतैश्चान्यैश्च बहुभिर्विशेषैर्बहुजन्तुभिः।
विशेषवत्कर्मभेदादेकमेव हि दृश्यते ॥५३॥

नैते गङ्गाम्भसो भेदाः प्रीत्यप्रीतिप्रदायिनः।
प्राणिनां चेतसो भेदाद्दाल्भ्यैते कर्मयोनयः ॥५४॥

समस्तकर्मणा दाल्भ्य सङ्क्षये भयमेत्यसौ।
विशेषकारणाभावाद्विशेषाभाव एव हि ॥५५॥
मूलम्
समस्तकर्मणा दाल्भ्य सङ्क्षये भयमेत्यसौ।
विशेषकारणाभावाद्विशेषाभाव एव हि ॥५५॥
विश्वास-प्रस्तुतिः
विष्ण्वाख्यमेवं तद्ब्रह्म शुद्धमत्यन्तनिर्मलम्।
अभेदं बहुधा भिन्नं दृश्यते कर्मभेदिभिः ॥५६॥

योगिभिर्दृश्यते शुद्धं रागाद्युपशमामलैः।
रागिभिर्विषयाकारं तदेव ब्रह्म दृश्यते ॥५७॥

कर्ममार्गाश्रितैः कर्मभोक्तृत्वे च तथेष्यते।
किमप्यस्तीति चैवान्यैरविवेकिभिरुच्यते ॥५८॥

सर्वमेतत्तदेवेति वदन्त्यद्वैतवादिनः।
प्रत्यक्षं दृश्यमेवेति वदन्त्यन्ये दुरुक्तिभिः ॥५९॥

वदन्त्यन्ये तदेवाहं नास्तीत्यन्ये वदन्ति तत्।
तिर्यङ्मनुष्यदेवाख्यं तदन्यैरभिधीयते ॥६०॥

वन्द्यबुद्ध्या तु तत्कैश्चिद्ध्येयबुद्ध्या तथापरैः।
गम्यबुद्ध्या तथान्यैश्च लभ्यबुद्ध्या च जन्तुभिः ॥६१॥

गृह्यते तत्परं ब्रह्म रिपुबुद्ध्या तथापरैः।
आत्मपुत्रसुहृद्भर्तृपरबुद्ध्या च नैकधा ॥६२॥

प्राणिभिः कर्मवैषम्यभिन्नबुद्धिभिरव्ययम्।
तद्ब्रह्म गृह्यते दाल्भ्य परमार्थं निबोध मे ॥६३॥

भूतेन्द्रियान्तःकरणप्रधानपुरुषात्मकम्।
अपरं ब्रह्मणो रूपं परं दाल्भ्य निशामय ॥६४॥

अहेयमक्षरं शुद्धमसम्भूतिनिरञ्जनम्।
विष्ण्वाख्यं परमं ब्रह्म यद्वै पश्यन्ति सूरयः ॥६५॥

इति विष्णुधर्मेषु ब्रह्माख्यानकम्।