अथैकोनचत्वारिंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
कार्यारम्भेषु सर्वेषु दुःस्वप्नेषु च सत्तम।
अमङ्गल्येषु सर्वेषु यज्जप्तव्यं तदुच्यताम् ॥१॥
मूलम्
कार्यारम्भेषु सर्वेषु दुःस्वप्नेषु च सत्तम।
अमङ्गल्येषु सर्वेषु यज्जप्तव्यं तदुच्यताम् ॥१॥
विश्वास-प्रस्तुतिः
येनारम्भाश्च सिद्ध्यन्ति दुःस्वप्नं चोपशाम्यति।
अमङ्गलानां सर्वेषां प्रतिघातश्च जायते ॥२॥
मूलम्
येनारम्भाश्च सिद्ध्यन्ति दुःस्वप्नं चोपशाम्यति।
अमङ्गलानां सर्वेषां प्रतिघातश्च जायते ॥२॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
जनार्दनं भूतपतिं जगद्गुरुं।
स्मरन्मनुष्यः सततं महामुने।
दुष्टान्यशेषाण्यपहन्ति साधयत्य्।
अशेषकार्याणि तथा यदीच्छति ॥३॥
मूलम्
जनार्दनं भूतपतिं जगद्गुरुं।
स्मरन्मनुष्यः सततं महामुने।
दुष्टान्यशेषाण्यपहन्ति साधयत्य्।
अशेषकार्याणि तथा यदीच्छति ॥३॥
विश्वास-प्रस्तुतिः
शृणुष्व चान्यद्वदतो ममाखिलं वदामि यत्ते द्विजवर्य मङ्गलम्।
सर्वार्थसिद्धिं प्रददाति यः सदा निहन्त्यशेषाणि च पातकानि ॥४॥
मूलम्
शृणुष्व चान्यद्वदतो ममाखिलं वदामि यत्ते द्विजवर्य मङ्गलम्।
सर्वार्थसिद्धिं प्रददाति यः सदा निहन्त्यशेषाणि च पातकानि ॥४॥
विश्वास-प्रस्तुतिः
प्रतिष्ठितं यत्र जगच्चराचरं जगच्च यो यो जगतश्च हेतुः।
जगच्च पात्यत्ति च यः स सर्वदा ममास्तु मङ्गल्यविवृद्दये हरिः ॥५॥
मूलम्
प्रतिष्ठितं यत्र जगच्चराचरं जगच्च यो यो जगतश्च हेतुः।
जगच्च पात्यत्ति च यः स सर्वदा ममास्तु मङ्गल्यविवृद्दये हरिः ॥५॥
विश्वास-प्रस्तुतिः
व्योमाम्बुवाय्वग्निमहीस्वरूपैर्विस्तारवान्योऽणुतरोऽणुभागात्।
स स्थूलसूक्ष्मः सततं सुरेश्वरोममास्तु मङ्गल्यविवृद्धये हरिः ॥६॥
मूलम्
व्योमाम्बुवाय्वग्निमहीस्वरूपैर्विस्तारवान्योऽणुतरोऽणुभागात्।
स स्थूलसूक्ष्मः सततं सुरेश्वरोममास्तु मङ्गल्यविवृद्धये हरिः ॥६॥
यस्मात्परस्तात्पुरुषादनन्ताद्।
अनादिमध्यादखिलं न किञ्चित्।
विश्वास-प्रस्तुतिः
स हेतुहेतुः परमेश्वरेश्वरो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥७॥
मूलम्
स हेतुहेतुः परमेश्वरेश्वरो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥७॥
विश्वास-प्रस्तुतिः
हिरण्यगर्भाच्युतरुद्ररूपी।
सृजत्यशेषं परिपाति हन्ति।
गुणाश्रयी यो भगवान्स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥८॥
मूलम्
हिरण्यगर्भाच्युतरुद्ररूपी।
सृजत्यशेषं परिपाति हन्ति।
गुणाश्रयी यो भगवान्स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥८॥
विश्वास-प्रस्तुतिः
परः सुराणां परमोऽसुराणां।
परो मुनीनां परमो यतीनाम्।
परः समस्तस्य च यः स देवो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥९॥
मूलम्
परः सुराणां परमोऽसुराणां।
परो मुनीनां परमो यतीनाम्।
परः समस्तस्य च यः स देवो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥९॥
विश्वास-प्रस्तुतिः
ध्यातो यतीनामपकल्मषैर्यो।
ददाति मुक्तिं परमेश्वरेश्वरः।
मनोभिराद्यः पुरुषः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१०॥
मूलम्
ध्यातो यतीनामपकल्मषैर्यो।
ददाति मुक्तिं परमेश्वरेश्वरः।
मनोभिराद्यः पुरुषः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१०॥
सुरेन्द्रवैवस्वतवित्तपाम्बुपस्वरूपरूपी परिपाति यो जगत्।
विश्वास-प्रस्तुतिः
स शुद्धसत्त्वः परमेश्वरेश्वरो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥११॥
मूलम्
स शुद्धसत्त्वः परमेश्वरेश्वरो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥११॥
यन्नामकीर्तनतो विमुच्यते।
अनेकजन्मार्जितपापसञ्चयैः।
विश्वास-प्रस्तुतिः
पापेन्धनाग्निः स सदैव निर्मलो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१२॥
मूलम्
पापेन्धनाग्निः स सदैव निर्मलो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१२॥
येनोद्धृतेयं धरणी रसातलाद्।
अशेषसत्त्वस्थितिकारणादिदम्।
विश्वास-प्रस्तुतिः
बिभर्ति विश्वं जगतः स मूलवान्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१३॥
मूलम्
बिभर्ति विश्वं जगतः स मूलवान्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१३॥
विश्वास-प्रस्तुतिः
पादेषु वेदा जठरे चराचरं।
रोमस्वशेषा मुनयो मुखे मखाः।
यस्येश्वरेशस्य स सर्वदा प्रभुर्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१४॥
मूलम्
पादेषु वेदा जठरे चराचरं।
रोमस्वशेषा मुनयो मुखे मखाः।
यस्येश्वरेशस्य स सर्वदा प्रभुर्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१४॥
विश्वास-प्रस्तुतिः
समस्तयज्ञाङ्गमयं वपुर्विभोर्।
यस्याङ्गमीशेश्वरसंस्तुतस्य।
वराहरूपो भगवान्स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१५॥
मूलम्
समस्तयज्ञाङ्गमयं वपुर्विभोर्।
यस्याङ्गमीशेश्वरसंस्तुतस्य।
वराहरूपो भगवान्स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१५॥
विश्वास-प्रस्तुतिः
विक्षोभ्य सर्वोदधितोयसम्पदं।
दधार धात्रीं जगतश्च योद्भवः।
यज्ञेश्वरो यज्ञपुमान्स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१६॥
मूलम्
विक्षोभ्य सर्वोदधितोयसम्पदं।
दधार धात्रीं जगतश्च योद्भवः।
यज्ञेश्वरो यज्ञपुमान्स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१६॥
विश्वास-प्रस्तुतिः
पातालमूलेश्वरभोगिसंहतौ।
विन्यस्य पादौ पृथिवीं च बिभ्रतः।
यस्योपमानं न बभूव सोऽच्युतो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१७॥
मूलम्
पातालमूलेश्वरभोगिसंहतौ।
विन्यस्य पादौ पृथिवीं च बिभ्रतः।
यस्योपमानं न बभूव सोऽच्युतो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१७॥
विश्वास-प्रस्तुतिः
विघर्घरं यस्य च बृंहतो मुहुः।
सनन्दनाद्यैर्जनलोकसंस्थितैः।
श्रुतं जयेत्युक्तिपरैः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१८॥
मूलम्
विघर्घरं यस्य च बृंहतो मुहुः।
सनन्दनाद्यैर्जनलोकसंस्थितैः।
श्रुतं जयेत्युक्तिपरैः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१८॥
विश्वास-प्रस्तुतिः
एकार्णवाद्यस्य महीयसो महीम्।
आदाय वेगेन समुत्पतिष्यतः।
नुतं वपुर्योगिवरैः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१९॥
मूलम्
एकार्णवाद्यस्य महीयसो महीम्।
आदाय वेगेन समुत्पतिष्यतः।
नुतं वपुर्योगिवरैः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥१९॥
विश्वास-प्रस्तुतिः
हतो हिरण्याक्षमहासुरः पुरा।
पुराणपुंसा परमेण येन।
वराहरूपः स पतिः प्रजापतेर्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२०॥
मूलम्
हतो हिरण्याक्षमहासुरः पुरा।
पुराणपुंसा परमेण येन।
वराहरूपः स पतिः प्रजापतेर्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२०॥
विश्वास-प्रस्तुतिः
दंष्ट्राकरालं सुरभीतिनाशनं।
कृत्वा वपुर्दिव्यनृसिंहरूपिणं।
त्रातं जगद्येन स सर्वदा प्रभुर्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२१॥
मूलम्
दंष्ट्राकरालं सुरभीतिनाशनं।
कृत्वा वपुर्दिव्यनृसिंहरूपिणं।
त्रातं जगद्येन स सर्वदा प्रभुर्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२१॥
विश्वास-प्रस्तुतिः
दैत्येन्द्रवक्षःस्थलदारदारुणैः।
करोरुहैः शत्रुरुजानुकारिभिः।
चिच्छेद लोकस्य भयानि चाव्ययो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२२॥
मूलम्
दैत्येन्द्रवक्षःस्थलदारदारुणैः।
करोरुहैः शत्रुरुजानुकारिभिः।
चिच्छेद लोकस्य भयानि चाव्ययो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२२॥
विश्वास-प्रस्तुतिः
दन्तान्तदीप्तिद्युतिनिर्मलाणि।
चकार सर्वाणि दिशं मुखानि।
निनादवित्रासितदानवो ह्यसौ।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२३॥
मूलम्
दन्तान्तदीप्तिद्युतिनिर्मलाणि।
चकार सर्वाणि दिशं मुखानि।
निनादवित्रासितदानवो ह्यसौ।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२३॥
विश्वास-प्रस्तुतिः
यन्नामसङ्कीर्तनतो महाभयाद्।
विमोक्षमाप्नोति न संशयं नरः।
समस्तलोकार्तिहरो नृकेसरी।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२४॥
मूलम्
यन्नामसङ्कीर्तनतो महाभयाद्।
विमोक्षमाप्नोति न संशयं नरः।
समस्तलोकार्तिहरो नृकेसरी।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२४॥
विश्वास-प्रस्तुतिः
सटाकलापभ्रमणानिलहताः।
स्फुटन्ति यस्याम्बुधराः समन्ततः।
स दिव्यसिंहः स्फुरिताकुलेक्षणो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२५॥
मूलम्
सटाकलापभ्रमणानिलहताः।
स्फुटन्ति यस्याम्बुधराः समन्ततः।
स दिव्यसिंहः स्फुरिताकुलेक्षणो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२५॥
विश्वास-प्रस्तुतिः
यदीक्षणज्योतिषि रश्मिमण्डलं।
प्रलीनमेव न रराज भास्वतः।
कुतः शशाङ्कस्य स सिंहरूपधृ।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२६॥
मूलम्
यदीक्षणज्योतिषि रश्मिमण्डलं।
प्रलीनमेव न रराज भास्वतः।
कुतः शशाङ्कस्य स सिंहरूपधृ।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२६॥
विश्वास-प्रस्तुतिः
द्रवन्ति दैत्याः प्रणमन्ति देवता।
नश्यन्ति रक्षांस्यपयान्ति चारयः।
यत्कीर्तनात्सोऽद्भुतरूपकेसरी।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२७॥
मूलम्
द्रवन्ति दैत्याः प्रणमन्ति देवता।
नश्यन्ति रक्षांस्यपयान्ति चारयः।
यत्कीर्तनात्सोऽद्भुतरूपकेसरी।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२७॥
विश्वास-प्रस्तुतिः
अशेषदेवेशनरेश्वरेश्वरैः।
सदा स्तुतं यच्चरितं महाद्भुतम्।
स सर्वलोकार्तिहरो महाहरिर्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२८॥
मूलम्
अशेषदेवेशनरेश्वरेश्वरैः।
सदा स्तुतं यच्चरितं महाद्भुतम्।
स सर्वलोकार्तिहरो महाहरिर्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२८॥
विश्वास-प्रस्तुतिः
ऋक्कारितं यो यजुषातिशान्तिमत्।
सामध्वनिध्वस्तसमस्तपातकम्।
चक्रे जगद्वामनकः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२९॥
मूलम्
ऋक्कारितं यो यजुषातिशान्तिमत्।
सामध्वनिध्वस्तसमस्तपातकम्।
चक्रे जगद्वामनकः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥२९॥
विश्वास-प्रस्तुतिः
यत्पादविन्यासपवित्रतां मही।
ययौ वियदृग्यजुषामुदीरणात्।
स वामनो दिव्यशरीरधृक् सदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३०॥
मूलम्
यत्पादविन्यासपवित्रतां मही।
ययौ वियदृग्यजुषामुदीरणात्।
स वामनो दिव्यशरीरधृक् सदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३०॥
विश्वास-प्रस्तुतिः
यस्मिन्प्रयाते सुरभूभृतोऽध्वरं।
ननाम खेदादवनिः ससागरा।
स वामनः सर्वजगन्मयः सदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३१॥
मूलम्
यस्मिन्प्रयाते सुरभूभृतोऽध्वरं।
ननाम खेदादवनिः ससागरा।
स वामनः सर्वजगन्मयः सदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३१॥
विश्वास-प्रस्तुतिः
महाद्युतौ दैत्यपतेर्महाध्वरं।
यस्मिन्प्रविष्टे क्षुभितं महासुरैः।
स वामनोऽन्तस्थितसप्तलोकधृङ्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३२॥
मूलम्
महाद्युतौ दैत्यपतेर्महाध्वरं।
यस्मिन्प्रविष्टे क्षुभितं महासुरैः।
स वामनोऽन्तस्थितसप्तलोकधृङ्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३२॥
विश्वास-प्रस्तुतिः
समस्तदेवेष्टिमयं महाद्युतिर्।
दधार यो रूपमतीन्द्रियं प्रभुः।
त्रिविक्रमाक्रान्तजगत्त्रयः सदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३३॥
मूलम्
समस्तदेवेष्टिमयं महाद्युतिर्।
दधार यो रूपमतीन्द्रियं प्रभुः।
त्रिविक्रमाक्रान्तजगत्त्रयः सदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३३॥
विश्वास-प्रस्तुतिः
सङ्घैः सुराणां दिवि भूतले स्थितैस्।
तथा मनुष्यैर्गगने स सर्वदा।
स्तुतः क्रमाद्यः प्रददे स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३४॥
मूलम्
सङ्घैः सुराणां दिवि भूतले स्थितैस्।
तथा मनुष्यैर्गगने स सर्वदा।
स्तुतः क्रमाद्यः प्रददे स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३४॥
विश्वास-प्रस्तुतिः
क्रान्त्वा धरित्रीं गगनं तथा दिवं।
मरुत्पतेर्यः प्रददौ त्रिविष्टपम्।
स देवदेवो भुवनेश्वरेश्वरो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३५॥
मूलम्
क्रान्त्वा धरित्रीं गगनं तथा दिवं।
मरुत्पतेर्यः प्रददौ त्रिविष्टपम्।
स देवदेवो भुवनेश्वरेश्वरो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३५॥
अनुग्रहं चापि बलेरनुत्तमं।
चकार यश्चेन्द्रपदोपलक्षणं।
विश्वास-प्रस्तुतिः
सुरांश्च यज्ञस्य भुजः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३६॥
मूलम्
सुरांश्च यज्ञस्य भुजः स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३६॥
विश्वास-प्रस्तुतिः
रसातलाद्येन पुरा समाहृताः।
समस्तवेदा वरवाजिरूपिणा।
स कैटभारिर्मधुसूदनो महान्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३७॥
मूलम्
रसातलाद्येन पुरा समाहृताः।
समस्तवेदा वरवाजिरूपिणा।
स कैटभारिर्मधुसूदनो महान्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३७॥
विश्वास-प्रस्तुतिः
निःक्षत्रियां यश्च चकार मेदिनीम्।
अनेकशो बाहुवनं तथाछिनत्।
यः कार्तवीर्यस्य स भार्गवोत्तमो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३८॥
मूलम्
निःक्षत्रियां यश्च चकार मेदिनीम्।
अनेकशो बाहुवनं तथाछिनत्।
यः कार्तवीर्यस्य स भार्गवोत्तमो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३८॥
विश्वास-प्रस्तुतिः
निहत्य वालिं च कपीश्वरं हि यो।
निबध्य सेतुं जलधौ दशाननम्।
जघान चान्यान्रजनीचरानसौ।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३९॥
मूलम्
निहत्य वालिं च कपीश्वरं हि यो।
निबध्य सेतुं जलधौ दशाननम्।
जघान चान्यान्रजनीचरानसौ।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥३९॥
विश्वास-प्रस्तुतिः
चिक्षेप बालः शकटं बभञ्ज यो।
यमलार्जुनौ कंसमरिं जघान।
ममर्द चाणूरमुखं स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥४०॥
मूलम्
चिक्षेप बालः शकटं बभञ्ज यो।
यमलार्जुनौ कंसमरिं जघान।
ममर्द चाणूरमुखं स सर्वदा।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥४०॥
विश्वास-प्रस्तुतिः
प्रातः सहस्रांशुमरीचिनिर्मलं।
करेण बिभ्रद्भगवान्सुदर्शनम्।
कौमोदकीं चापि गदामनुत्तमां।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥४१॥
मूलम्
प्रातः सहस्रांशुमरीचिनिर्मलं।
करेण बिभ्रद्भगवान्सुदर्शनम्।
कौमोदकीं चापि गदामनुत्तमां।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥४१॥
विश्वास-प्रस्तुतिः
हिमेन्दुकुन्दस्फटिकाभ्रकोमलं।
मुखानिलापूरितमीश्वरेश्वरः।
मध्याह्नकाले च स शङ्खमुत्तमम्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥४२॥
मूलम्
हिमेन्दुकुन्दस्फटिकाभ्रकोमलं।
मुखानिलापूरितमीश्वरेश्वरः।
मध्याह्नकाले च स शङ्खमुत्तमम्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥४२॥
विश्वास-प्रस्तुतिः
तथापराह्ने प्रविकासिपङ्कजं।
वक्षःस्थलेन श्रियमुद्वहद्विभुः।
विस्तारिपद्मोत्पलपत्रलोचनो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥४३॥
मूलम्
तथापराह्ने प्रविकासिपङ्कजं।
वक्षःस्थलेन श्रियमुद्वहद्विभुः।
विस्तारिपद्मोत्पलपत्रलोचनो।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥४३॥
विश्वास-प्रस्तुतिः
सर्वेषु कालेषु समस्तदेशेष्व्।
अशेषकार्येषु तथेश्वरेश्वरः।
सर्वैः स्वरूपैर्भगवाननादिमान्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥४४॥
मूलम्
सर्वेषु कालेषु समस्तदेशेष्व्।
अशेषकार्येषु तथेश्वरेश्वरः।
सर्वैः स्वरूपैर्भगवाननादिमान्।
ममास्तु मङ्गल्यविवृद्धये हरिः ॥४४॥
विश्वास-प्रस्तुतिः
एतत्पठन्दाल्भ्य समस्तपापैर्।
विमुच्यते विष्णुपरो मनुष्यः।
सिध्यन्ति कार्याणि तथास्य सर्वाण्य्।
अर्थानवाप्नोति तथा यथेष्टम् ॥४५॥
मूलम्
एतत्पठन्दाल्भ्य समस्तपापैर्।
विमुच्यते विष्णुपरो मनुष्यः।
सिध्यन्ति कार्याणि तथास्य सर्वाण्य्।
अर्थानवाप्नोति तथा यथेष्टम् ॥४५॥
विश्वास-प्रस्तुतिः
दुःस्वप्नं प्रशममुपैति पठ्यमाने।
स्तोत्रेऽस्मिञ्श्रवणविधौ सदोत्थितस्य।
प्रारम्भो द्रुतमुपयाति सिद्धिमीशः।
पापानि क्षपयति चास्य वासुदेवः ॥४६॥
मूलम्
दुःस्वप्नं प्रशममुपैति पठ्यमाने।
स्तोत्रेऽस्मिञ्श्रवणविधौ सदोत्थितस्य।
प्रारम्भो द्रुतमुपयाति सिद्धिमीशः।
पापानि क्षपयति चास्य वासुदेवः ॥४६॥
विश्वास-प्रस्तुतिः
मङ्गल्यं परममिदं सदार्थसिद्धिं।
निर्विघ्न त्वधिकफलं सदा ददाति।
किं लोके तदिह परत्र चास्ति पुंसाम्।
यद्विष्णुप्रवणधिया न दाल्भ्य साध्यम् ॥४७॥
मूलम्
मङ्गल्यं परममिदं सदार्थसिद्धिं।
निर्विघ्न त्वधिकफलं सदा ददाति।
किं लोके तदिह परत्र चास्ति पुंसाम्।
यद्विष्णुप्रवणधिया न दाल्भ्य साध्यम् ॥४७॥
विश्वास-प्रस्तुतिः
देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः।
सर्वर्द्धिं त्रिभुवनगां च कार्तवीर्यः।
वैदेहः परमपदं प्रसाद्य विष्णुं।
सम्प्राप्तः सकलफलप्रदो हि विष्णुः ॥४८॥
मूलम्
देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः।
सर्वर्द्धिं त्रिभुवनगां च कार्तवीर्यः।
वैदेहः परमपदं प्रसाद्य विष्णुं।
सम्प्राप्तः सकलफलप्रदो हि विष्णुः ॥४८॥
विश्वास-प्रस्तुतिः
सर्वारम्भेषु दाल्भ्यैतद्दुःस्वप्नेषु च पण्डितः।
जपेदेकमतिर्विष्णौ तथामङ्गल्यदर्शने ॥४९॥
मूलम्
सर्वारम्भेषु दाल्भ्यैतद्दुःस्वप्नेषु च पण्डितः।
जपेदेकमतिर्विष्णौ तथामङ्गल्यदर्शने ॥४९॥
विश्वास-प्रस्तुतिः
शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः।
कर्मारम्भाश्च सिध्यन्ति पुण्यमाप्नोति चोत्तमम् ॥५०॥
मूलम्
शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः।
कर्मारम्भाश्च सिध्यन्ति पुण्यमाप्नोति चोत्तमम् ॥५०॥
विश्वास-प्रस्तुतिः
हरिर्ददाति भद्राणि मङ्गल्यस्तुतिसंस्तुतः।
करोत्यखिलरूपैश्च रक्षामक्षतशक्तिधृक् ॥५१॥
मूलम्
हरिर्ददाति भद्राणि मङ्गल्यस्तुतिसंस्तुतः।
करोत्यखिलरूपैश्च रक्षामक्षतशक्तिधृक् ॥५१॥
इति विष्णुधर्मेषु मङ्गल्यस्तवः।