०३८

अथाष्टात्रिंशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान्।
कर्तव्यं यन्महाभाग पुरुषेण तदुच्यताम् ॥१॥

मूलम्

संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान्।
कर्तव्यं यन्महाभाग पुरुषेण तदुच्यताम् ॥१॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान्।
गृद्धिस्तेष्वेव सन्त्याज्या तत्त्यागो गुणवान्नृणाम् ॥२॥

मूलम्

संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान्।
गृद्धिस्तेष्वेव सन्त्याज्या तत्त्यागो गुणवान्नृणाम् ॥२॥

विश्वास-प्रस्तुतिः

येषामब्दसहस्राणां सहस्रैरपि नो नरः।
भोगात्तृप्तिं समाप्नोति कस्तैर्भोगैर्विरज्यते ॥३॥

मूलम्

येषामब्दसहस्राणां सहस्रैरपि नो नरः।
भोगात्तृप्तिं समाप्नोति कस्तैर्भोगैर्विरज्यते ॥३॥

विश्वास-प्रस्तुतिः

यावतो वाञ्छते भोगानहन्यहनि मानवः।
तेषां सहस्रभागेऽपि दाल्भ्य प्राप्तिं न विन्दति ॥४॥

मूलम्

यावतो वाञ्छते भोगानहन्यहनि मानवः।
तेषां सहस्रभागेऽपि दाल्भ्य प्राप्तिं न विन्दति ॥४॥

विश्वास-प्रस्तुतिः

अथ चेत्तनवाप्नोति सहस्रगुणितान्नरः।
तथाप्यतृप्त एवान्तमन्तकाले गमिष्यति ॥५॥

मूलम्

अथ चेत्तनवाप्नोति सहस्रगुणितान्नरः।
तथाप्यतृप्त एवान्तमन्तकाले गमिष्यति ॥५॥

विश्वास-प्रस्तुतिः

तृप्तये ये न सम्प्राप्ताः प्राप्यन्ते ये न वाञ्छिताः।
बुद्धिमानिन्द्रियार्थेषु तेष्वसङ्गी सदा भवेत् ॥६॥

मूलम्

तृप्तये ये न सम्प्राप्ताः प्राप्यन्ते ये न वाञ्छिताः।
बुद्धिमानिन्द्रियार्थेषु तेष्वसङ्गी सदा भवेत् ॥६॥

विश्वास-प्रस्तुतिः

येषां तृप्तिर्न भोगेन त्यागश्चैवोपकारकः।
उपोषितविधानेन भोगान्त्यागस्ततो वरः ॥७॥

मूलम्

येषां तृप्तिर्न भोगेन त्यागश्चैवोपकारकः।
उपोषितविधानेन भोगान्त्यागस्ततो वरः ॥७॥

विश्वास-प्रस्तुतिः

कृच्छ्रचान्द्रायणादीनि नरैस्तस्मान्मुमुक्षुभिः।
निष्कामैर्दाल्भ्य कार्याणि फलाय च फलेप्सुभिः ॥८॥

मूलम्

कृच्छ्रचान्द्रायणादीनि नरैस्तस्मान्मुमुक्षुभिः।
निष्कामैर्दाल्भ्य कार्याणि फलाय च फलेप्सुभिः ॥८॥

विश्वास-प्रस्तुतिः

अत्राप्युदाहरन्तीमं मुनयो मुनिसत्तम।
दस्राभ्यां सह संवादमैलस्य च महात्मनः ॥९॥

मूलम्

अत्राप्युदाहरन्तीमं मुनयो मुनिसत्तम।
दस्राभ्यां सह संवादमैलस्य च महात्मनः ॥९॥

विश्वास-प्रस्तुतिः

ऐलः पुरूरवाः पूर्वं बभूव मनुजेश्वरः।
चकमे यं महाभागमुर्वशी सुरसुन्दरी ॥१०॥

मूलम्

ऐलः पुरूरवाः पूर्वं बभूव मनुजेश्वरः।
चकमे यं महाभागमुर्वशी सुरसुन्दरी ॥१०॥

विश्वास-प्रस्तुतिः

सन्त्यज्य त्रिदशावासं रूपौदार्यगुणान्वितम्।
भेजे तमुर्वशी दाल्भ्य बुधस्य तनयं नृपम् ॥११॥

मूलम्

सन्त्यज्य त्रिदशावासं रूपौदार्यगुणान्वितम्।
भेजे तमुर्वशी दाल्भ्य बुधस्य तनयं नृपम् ॥११॥

विश्वास-प्रस्तुतिः

नासत्यदस्रौ रूपेण देवानामधिकौ ततः।
उर्वशीलोभनं तस्य रूपं द्रष्टुं समुत्सुकौ ॥१२॥

मूलम्

नासत्यदस्रौ रूपेण देवानामधिकौ ततः।
उर्वशीलोभनं तस्य रूपं द्रष्टुं समुत्सुकौ ॥१२॥

विश्वास-प्रस्तुतिः

प्रतिष्ठानं पुरं तस्य बुधपुत्रस्य धीमतः।
जग्मतुः सुमहाभागौ तस्य द्वास्थमथोचतुः ॥१३॥

मूलम्

प्रतिष्ठानं पुरं तस्य बुधपुत्रस्य धीमतः।
जग्मतुः सुमहाभागौ तस्य द्वास्थमथोचतुः ॥१३॥

अश्विनावूचतुः।
क्षत्तोऽस्मद्वचनादैलं ब्रूहि त्वं वसुधाधिपम्।

विश्वास-प्रस्तुतिः

द्रष्टुं तवाश्विनौ प्राप्तौ रूपसम्पद्गुणं नृप।
तदेह्यत्र महाभाग इहास्मान्सम्प्रवेशय ॥१४॥

मूलम्

द्रष्टुं तवाश्विनौ प्राप्तौ रूपसम्पद्गुणं नृप।
तदेह्यत्र महाभाग इहास्मान्सम्प्रवेशय ॥१४॥

विश्वास-प्रस्तुतिः

आश्चर्यभूतं लोकेषु उर्वशीलोभनं वपुः।
तत्कौतुकं न कुरुते कस्य पार्थिवपुङ्गव ॥१५॥

मूलम्

आश्चर्यभूतं लोकेषु उर्वशीलोभनं वपुः।
तत्कौतुकं न कुरुते कस्य पार्थिवपुङ्गव ॥१५॥

पुलस्त्य उवाच।
आवां समागतौ तस्मात्त्वां द्रष्टुं मनुजोत्तम।

विश्वास-प्रस्तुतिः

द्वास्थस्तथेति तावाह प्रविवेश च सत्वरम्।
आचचक्षे च तद्राज्ञे नासत्यवचनं द्विज ॥१६॥

मूलम्

द्वास्थस्तथेति तावाह प्रविवेश च सत्वरम्।
आचचक्षे च तद्राज्ञे नासत्यवचनं द्विज ॥१६॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा वचनं राजा द्वास्थमाह मुहूर्तकम्।
विलम्ब्यतां महाभागौ तौ ब्रूहि वचनान्मम ॥१७॥

मूलम्

तच्छ्रुत्वा वचनं राजा द्वास्थमाह मुहूर्तकम्।
विलम्ब्यतां महाभागौ तौ ब्रूहि वचनान्मम ॥१७॥

विश्वास-प्रस्तुतिः

व्यायामतैलसंसर्गमलिनो न विभूषितः।
प्रसाधनं च कृत्वाहं निष्क्रमामि त्वरान्वितः ॥१८॥

मूलम्

व्यायामतैलसंसर्गमलिनो न विभूषितः।
प्रसाधनं च कृत्वाहं निष्क्रमामि त्वरान्वितः ॥१८॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

निष्क्रम्य स ततो द्वास्थो यथोक्तं भूभृतखिलम्।
समाचष्ट ततो दाल्भ्य तौ च भूयस्तमूचतुः ॥१९॥

मूलम्

निष्क्रम्य स ततो द्वास्थो यथोक्तं भूभृतखिलम्।
समाचष्ट ततो दाल्भ्य तौ च भूयस्तमूचतुः ॥१९॥

अश्विनावूचतुः।

विश्वास-प्रस्तुतिः

अप्रसाधितमेवाशु भवन्तं वसुधाधिप।
पश्यावस्तव भूयोऽपि त्वां द्रक्ष्यावः प्रसाधितम् ॥२०॥

मूलम्

अप्रसाधितमेवाशु भवन्तं वसुधाधिप।
पश्यावस्तव भूयोऽपि त्वां द्रक्ष्यावः प्रसाधितम् ॥२०॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

इत्युक्तो निर्गतस्तूर्णं भवनादवनीपतिः।
तैलाभ्यक्ततनुर्दाल्भ्य व्यायामपरिधानधृक् ॥२१॥

मूलम्

इत्युक्तो निर्गतस्तूर्णं भवनादवनीपतिः।
तैलाभ्यक्ततनुर्दाल्भ्य व्यायामपरिधानधृक् ॥२१॥

विश्वास-प्रस्तुतिः

स प्रणामं तयोः कृत्वा किञ्चिन्नतशिरा नृपः।
प्रोवाच यन्मया कार्यं भवतोस्तदिहोच्यताम् ॥२२॥

मूलम्

स प्रणामं तयोः कृत्वा किञ्चिन्नतशिरा नृपः।
प्रोवाच यन्मया कार्यं भवतोस्तदिहोच्यताम् ॥२२॥

विश्वास-प्रस्तुतिः

सप्तद्वीपवती पृथ्वी पुत्रदारबलं धनम्।
यच्चान्यदपि तत्सर्वं युवयोर्मे निवेदितम् ॥२३॥

मूलम्

सप्तद्वीपवती पृथ्वी पुत्रदारबलं धनम्।
यच्चान्यदपि तत्सर्वं युवयोर्मे निवेदितम् ॥२३॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

इत्युदाहृतमाकर्ण्य नृपतेरश्विनावपि।
अङ्गोपाङ्गादिकं सर्वं शनकैस्तावपश्यताम् ॥२४॥

मूलम्

इत्युदाहृतमाकर्ण्य नृपतेरश्विनावपि।
अङ्गोपाङ्गादिकं सर्वं शनकैस्तावपश्यताम् ॥२४॥

विश्वास-प्रस्तुतिः

शिरोललाटबाहुं सनयनादिविलोकनम्।
कृत्वा च तं महीपालमूचतुस्ताविदं सुरौ ॥२५॥

मूलम्

शिरोललाटबाहुं सनयनादिविलोकनम्।
कृत्वा च तं महीपालमूचतुस्ताविदं सुरौ ॥२५॥

विश्वास-प्रस्तुतिः

प्रविश्य स्नाहि भूपाल यथार्थैश्च विभूषणैः।
विभूषितं तु भूयस्त्वां द्रक्ष्यावोऽवां नरेश्वर ॥२६॥

मूलम्

प्रविश्य स्नाहि भूपाल यथार्थैश्च विभूषणैः।
विभूषितं तु भूयस्त्वां द्रक्ष्यावोऽवां नरेश्वर ॥२६॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

तथेति चोक्त्वा स नृपः प्रविवेश महामुने।
चक्रे च सकलं सम्यक् स्नात्वा देहप्रसाधनम् ॥२७॥

मूलम्

तथेति चोक्त्वा स नृपः प्रविवेश महामुने।
चक्रे च सकलं सम्यक् स्नात्वा देहप्रसाधनम् ॥२७॥

विश्वास-प्रस्तुतिः

स्नातोऽनुलिप्तः स्रग्धारी सुवस्त्रः सुविभूषितः।
नासत्यदस्रयोः पार्श्वमियाय वसुधाधिपः ॥२८॥

मूलम्

स्नातोऽनुलिप्तः स्रग्धारी सुवस्त्रः सुविभूषितः।
नासत्यदस्रयोः पार्श्वमियाय वसुधाधिपः ॥२८॥

विश्वास-प्रस्तुतिः

भूयोऽपि तौ यथा पूर्वमङ्गोपाङ्गविलोकनम्।
चक्रतुर्नृपतेस्तस्य स्मितभिन्नौष्ठसम्पुटौ ॥२९॥

मूलम्

भूयोऽपि तौ यथा पूर्वमङ्गोपाङ्गविलोकनम्।
चक्रतुर्नृपतेस्तस्य स्मितभिन्नौष्ठसम्पुटौ ॥२९॥

विश्वास-प्रस्तुतिः

तौ सहासौ समालक्ष्य स तदा वसुधाधिपः।
हासस्य कारणं देवभिषजौ तावपृच्छत ॥३०॥

मूलम्

तौ सहासौ समालक्ष्य स तदा वसुधाधिपः।
हासस्य कारणं देवभिषजौ तावपृच्छत ॥३०॥

विश्वास-प्रस्तुतिः

पृच्छन्तं न ततो दाल्भ्य नृपतिं हास्यकारणम्।
यदूचतुर्महाभागौ तच्छृणुष्व वदामि ते ॥३१॥

मूलम्

पृच्छन्तं न ततो दाल्भ्य नृपतिं हास्यकारणम्।
यदूचतुर्महाभागौ तच्छृणुष्व वदामि ते ॥३१॥

अश्विनावूचतुः।

विश्वास-प्रस्तुतिः

शृणु भूपाल सकलं हासकारणमावयोः।
युष्मद्दर्शनसम्भूतं क्षणापचयहेतुकम् ॥३२॥

मूलम्

शृणु भूपाल सकलं हासकारणमावयोः।
युष्मद्दर्शनसम्भूतं क्षणापचयहेतुकम् ॥३२॥

विश्वास-प्रस्तुतिः

अस्नातस्याभवद्भूप यादृशी ते सुरूपता।
साम्प्रतं तादृशी नेयं भूषितस्यापि भूषणैः ॥३३॥

मूलम्

अस्नातस्याभवद्भूप यादृशी ते सुरूपता।
साम्प्रतं तादृशी नेयं भूषितस्यापि भूषणैः ॥३३॥

विश्वास-प्रस्तुतिः

स्नातः स्रग्दामधारी त्वं स्वनुलिप्तः सुभूषितः।
तथाप्यस्नात एव प्राच्छोभनोऽभून्न साम्प्रतम् ॥३४॥

मूलम्

स्नातः स्रग्दामधारी त्वं स्वनुलिप्तः सुभूषितः।
तथाप्यस्नात एव प्राच्छोभनोऽभून्न साम्प्रतम् ॥३४॥

राजोवाच।

विश्वास-प्रस्तुतिः

किन्तु तत्कारणं येन व्यायाममलिनाम्बरः।
शोभनोऽहमभूत्पूर्वमिदानीं न विभूषितः ॥३५॥

मूलम्

किन्तु तत्कारणं येन व्यायाममलिनाम्बरः।
शोभनोऽहमभूत्पूर्वमिदानीं न विभूषितः ॥३५॥

अश्विनावूचतुः।

विश्वास-प्रस्तुतिः

दिव्येन चक्षुषा भूप कालस्यास्य च तस्य च।
वयःपरिणतिं सूक्ष्मां पश्यावोऽपचयप्रदाम् ॥३६॥

मूलम्

दिव्येन चक्षुषा भूप कालस्यास्य च तस्य च।
वयःपरिणतिं सूक्ष्मां पश्यावोऽपचयप्रदाम् ॥३६॥

विश्वास-प्रस्तुतिः

यथा हि नाडिका पूर्णा गलत्यविरतं नृप।
नॄणां परिणतस्तद्वच्छरीरग्रहणादनु ॥३७॥

मूलम्

यथा हि नाडिका पूर्णा गलत्यविरतं नृप।
नॄणां परिणतस्तद्वच्छरीरग्रहणादनु ॥३७॥

जन्मतोऽनन्तरं बाल्यं पौगण्डत्वं ततः परम्।

विश्वास-प्रस्तुतिः

यौवनं मध्यदेहित्वं वार्द्धकं च जरा नृणाम्।
स्थूलदृष्ट्या तु पश्यन्ति न तु ते सूक्ष्मदर्शिनः ॥३८॥

मूलम्

यौवनं मध्यदेहित्वं वार्द्धकं च जरा नृणाम्।
स्थूलदृष्ट्या तु पश्यन्ति न तु ते सूक्ष्मदर्शिनः ॥३८॥

विश्वास-प्रस्तुतिः

निमेषशतभागस्य सहस्रांशः क्षणो नृप।
तस्याप्ययुतभागांशो भवत्यपचयो नृणाम् ॥३९॥

मूलम्

निमेषशतभागस्य सहस्रांशः क्षणो नृप।
तस्याप्ययुतभागांशो भवत्यपचयो नृणाम् ॥३९॥

विश्वास-प्रस्तुतिः

सूक्ष्मातिसूक्ष्मापचयी भवत्येष पुमान्नृप।
परिणामं क्रमाद्याति तृप्तिं वारि पिबन्निव ॥४०॥

मूलम्

सूक्ष्मातिसूक्ष्मापचयी भवत्येष पुमान्नृप।
परिणामं क्रमाद्याति तृप्तिं वारि पिबन्निव ॥४०॥

विश्वास-प्रस्तुतिः

तदहर्जातबाल्यस्य बालस्यापचयो हि सः।
प्रतिक्षणांशया वृद्धिर्बालत्वं हीयते तया ॥४१॥

मूलम्

तदहर्जातबाल्यस्य बालस्यापचयो हि सः।
प्रतिक्षणांशया वृद्धिर्बालत्वं हीयते तया ॥४१॥

विश्वास-प्रस्तुतिः

पौगण्डे यौवने चैव वार्द्धके च महामते।
हानिक्रमः स एवोक्तो यो बाल्ये कथितस्तव ॥४२॥

मूलम्

पौगण्डे यौवने चैव वार्द्धके च महामते।
हानिक्रमः स एवोक्तो यो बाल्ये कथितस्तव ॥४२॥

विश्वास-प्रस्तुतिः

कान्तिर्या नृप बालस्य पोगण्डस्य हि सा कुतः।
तत्कान्तिसौकुमार्याद्यैः शून्यमेव हि यौवनम् ॥४३॥

मूलम्

कान्तिर्या नृप बालस्य पोगण्डस्य हि सा कुतः।
तत्कान्तिसौकुमार्याद्यैः शून्यमेव हि यौवनम् ॥४३॥

विश्वास-प्रस्तुतिः

कान्त्यादिसम्पदो हानिः परमा नृप वार्द्धके।
तत्राप्यनुक्षणं हानिर्हानिरा मृत्युतो नृप ॥४४॥

मूलम्

कान्त्यादिसम्पदो हानिः परमा नृप वार्द्धके।
तत्राप्यनुक्षणं हानिर्हानिरा मृत्युतो नृप ॥४४॥

विश्वास-प्रस्तुतिः

एवं प्रतिक्षणांशांशो नॄणामपचयप्रदः।
कुर्वतः किमु कालस्ते महास्नानप्रसाधनम् ॥४५॥

मूलम्

एवं प्रतिक्षणांशांशो नॄणामपचयप्रदः।
कुर्वतः किमु कालस्ते महास्नानप्रसाधनम् ॥४५॥

विश्वास-प्रस्तुतिः

अस्मद्दृष्टो भवान्यावत्प्रविष्टो निजमन्दिरम्।
तावद्धानिमनुप्राप्तः किमु यामार्धसंस्थितः ॥४६॥

मूलम्

अस्मद्दृष्टो भवान्यावत्प्रविष्टो निजमन्दिरम्।
तावद्धानिमनुप्राप्तः किमु यामार्धसंस्थितः ॥४६॥

विश्वास-प्रस्तुतिः

यादृशोऽद्य भवांस्तादृक् त्वं न रूपी नरेश्वर।
परश्वः शस्तनं नैव चतुर्थेऽह्नि च तन्मयः ॥४७॥

मूलम्

यादृशोऽद्य भवांस्तादृक् त्वं न रूपी नरेश्वर।
परश्वः शस्तनं नैव चतुर्थेऽह्नि च तन्मयः ॥४७॥

विश्वास-प्रस्तुतिः

एवं समस्तभूतानि स्थावराणि चराणि च।
प्रतिक्षणांशापचयं प्राप्नुवन्ति महीतले ॥४८॥

मूलम्

एवं समस्तभूतानि स्थावराणि चराणि च।
प्रतिक्षणांशापचयं प्राप्नुवन्ति महीतले ॥४८॥

विश्वास-प्रस्तुतिः

तस्मान्न कौतुकं कार्यं भवता तु नरेश्वर।
यत्ते रूपमभूत्पूर्वमप्रसाधितशोभनम् ॥४९॥

मूलम्

तस्मान्न कौतुकं कार्यं भवता तु नरेश्वर।
यत्ते रूपमभूत्पूर्वमप्रसाधितशोभनम् ॥४९॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

राजा पुरूरवा भूयः श्रुत्वा वाक्यमिदं तयोः।
चिन्तयित्वा वचः प्राह संवेगोत्कम्पिमानसः ॥५०॥

मूलम्

राजा पुरूरवा भूयः श्रुत्वा वाक्यमिदं तयोः।
चिन्तयित्वा वचः प्राह संवेगोत्कम्पिमानसः ॥५०॥

राजोवाच।

विश्वास-प्रस्तुतिः

अहो भवद्भ्यां कथितमनवस्थितसंस्थितम्।
स्वरूपं जगतो देवौ येन त्रस्तोऽस्मि साम्प्रतम् ॥५१॥

मूलम्

अहो भवद्भ्यां कथितमनवस्थितसंस्थितम्।
स्वरूपं जगतो देवौ येन त्रस्तोऽस्मि साम्प्रतम् ॥५१॥

विश्वास-प्रस्तुतिः

अज्ञानतिमिरान्धानां मद्विधानां भवद्विधाः।
प्रदीपभूताः सन्देहो विद्यते नात्र कश्चन ॥५२॥

मूलम्

अज्ञानतिमिरान्धानां मद्विधानां भवद्विधाः।
प्रदीपभूताः सन्देहो विद्यते नात्र कश्चन ॥५२॥

विश्वास-प्रस्तुतिः

सदापचयदोषेण दुष्टकायैः सुरोत्तमौ।
यत्कार्यं पुरुषैस्तच्च कथ्यतां हितकाम्यया ॥५३॥

मूलम्

सदापचयदोषेण दुष्टकायैः सुरोत्तमौ।
यत्कार्यं पुरुषैस्तच्च कथ्यतां हितकाम्यया ॥५३॥

अश्विनावूचतुः।

विश्वास-प्रस्तुतिः

अतिमूढोऽध्रुवे काये सदापचयधर्मिणि।
नरस्तदुपभोग्यानि ध्रुवाणि परिमार्गति ॥५४॥

मूलम्

अतिमूढोऽध्रुवे काये सदापचयधर्मिणि।
नरस्तदुपभोग्यानि ध्रुवाणि परिमार्गति ॥५४॥

विश्वास-प्रस्तुतिः

आसनं शयनं यानं परिधानं गृहादिकम्।
वाञ्छत्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ॥५५॥

मूलम्

आसनं शयनं यानं परिधानं गृहादिकम्।
वाञ्छत्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ॥५५॥

विश्वास-प्रस्तुतिः

मूढोऽध्रुवं ध्रुवमतिः किमात्मानं न बुध्यते।
बाल्यात्पौगण्डतां गत्वा यः पुनर्यौवनं गतः ॥५६॥

मूलम्

मूढोऽध्रुवं ध्रुवमतिः किमात्मानं न बुध्यते।
बाल्यात्पौगण्डतां गत्वा यः पुनर्यौवनं गतः ॥५६॥

विश्वास-प्रस्तुतिः

भुवः शैलं समारूढः समारूढस्ततो द्रुमम्।
आरोहणं स किमन्यदृक्षभीतः करिष्यति ॥५७॥

मूलम्

भुवः शैलं समारूढः समारूढस्ततो द्रुमम्।
आरोहणं स किमन्यदृक्षभीतः करिष्यति ॥५७॥

विश्वास-प्रस्तुतिः

बाल्यात्पौगण्डतां यातो यौवनाद्वृद्धतां गतः।
वयोऽवस्था ततः कान्या यद्भोगाय स्थिरेच्छकः ॥५८॥

मूलम्

बाल्यात्पौगण्डतां यातो यौवनाद्वृद्धतां गतः।
वयोऽवस्था ततः कान्या यद्भोगाय स्थिरेच्छकः ॥५८॥

विश्वास-प्रस्तुतिः

तस्मादेतन्मनुष्येण विचार्यात्महितैषिणा।
श्रेयस्यामुष्मिके यत्नः कर्तव्योऽहर्निशं नृप ॥५९॥

मूलम्

तस्मादेतन्मनुष्येण विचार्यात्महितैषिणा।
श्रेयस्यामुष्मिके यत्नः कर्तव्योऽहर्निशं नृप ॥५९॥

विश्वास-प्रस्तुतिः

भोगेष्वसक्तिः सततं तथैवात्मावलोकनम्।
श्रेयः परं मनुष्याणां कपिलः प्राह पार्थिवः ॥६०॥

मूलम्

भोगेष्वसक्तिः सततं तथैवात्मावलोकनम्।
श्रेयः परं मनुष्याणां कपिलः प्राह पार्थिवः ॥६०॥

विश्वास-प्रस्तुतिः

सर्वत्र समदर्शित्वं निर्ममत्वमसङ्गिता।
श्रेयः परं मनुष्याणां प्राह पञ्चशिखो मुनिः ॥६१॥

मूलम्

सर्वत्र समदर्शित्वं निर्ममत्वमसङ्गिता।
श्रेयः परं मनुष्याणां प्राह पञ्चशिखो मुनिः ॥६१॥

विश्वास-प्रस्तुतिः

आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम्।
श्रेयः परं मनुष्याणामङ्गारिष्ठोऽब्रवीन्नृपः ॥६२॥

मूलम्

आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम्।
श्रेयः परं मनुष्याणामङ्गारिष्ठोऽब्रवीन्नृपः ॥६२॥

विश्वास-प्रस्तुतिः

अध्यात्मिकादिदुःखानामत्यन्तादिप्रतिक्रिया।
श्रेयः परं मनुष्याणां जनको ह्याह मोक्षवित् ॥६३॥

मूलम्

अध्यात्मिकादिदुःखानामत्यन्तादिप्रतिक्रिया।
श्रेयः परं मनुष्याणां जनको ह्याह मोक्षवित् ॥६३॥

विश्वास-प्रस्तुतिः

अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनोः।
हिरण्यगर्भस्तच्छान्तिं श्रेयः परममब्रवीत् ॥६४॥

मूलम्

अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनोः।
हिरण्यगर्भस्तच्छान्तिं श्रेयः परममब्रवीत् ॥६४॥

विश्वास-प्रस्तुतिः

कर्तव्यमिति यत्कर्म ऋग्यजुःसामसञ्ज्ञितम्।
क्रियते तत्परं श्रेयो जैगीषव्योऽब्रवीन्मुनिः ॥६५॥

मूलम्

कर्तव्यमिति यत्कर्म ऋग्यजुःसामसञ्ज्ञितम्।
क्रियते तत्परं श्रेयो जैगीषव्योऽब्रवीन्मुनिः ॥६५॥

विश्वास-प्रस्तुतिः

हानिं सर्वविधित्सानामात्मनः सुखहेतुकीम्।
श्रेयः परं मनुष्याणां देवलोऽप्याह तत्त्ववित् ॥६६॥

मूलम्

हानिं सर्वविधित्सानामात्मनः सुखहेतुकीम्।
श्रेयः परं मनुष्याणां देवलोऽप्याह तत्त्ववित् ॥६६॥

विश्वास-प्रस्तुतिः

यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते।
एतदेव परं श्रेयो विज्ञानं हितकामिनाम् ॥६७॥

मूलम्

यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते।
एतदेव परं श्रेयो विज्ञानं हितकामिनाम् ॥६७॥

विश्वास-प्रस्तुतिः

कामानुसारी पुरुषः कामाननु विनश्यति।
अश्रेयसं परं चैतद्यद्भूपालातिकामिता ॥६८॥

मूलम्

कामानुसारी पुरुषः कामाननु विनश्यति।
अश्रेयसं परं चैतद्यद्भूपालातिकामिता ॥६८॥

विश्वास-प्रस्तुतिः

एवं विज्ञाततत्त्वार्थः सनको योगिनां वरः।
नरेन्द्रप्राह विप्राणां परमार्थपरम्परम् ॥६९॥

मूलम्

एवं विज्ञाततत्त्वार्थः सनको योगिनां वरः।
नरेन्द्रप्राह विप्राणां परमार्थपरम्परम् ॥६९॥

विश्वास-प्रस्तुतिः

क्रियाकलापफलदमृग्यजुःसामसञ्ज्ञितम्।
अमुष्मिन्मध्यमं श्रेयः प्राहुः सप्त र्षयो नृप ॥७०॥

मूलम्

क्रियाकलापफलदमृग्यजुःसामसञ्ज्ञितम्।
अमुष्मिन्मध्यमं श्रेयः प्राहुः सप्त र्षयो नृप ॥७०॥

विश्वास-प्रस्तुतिः

इहैव फलदं काम्यं कर्म यत्क्रियते नरैः।
तदाहुरपरं श्रेयो ऋचीकच्यवनादयः ॥७१॥

मूलम्

इहैव फलदं काम्यं कर्म यत्क्रियते नरैः।
तदाहुरपरं श्रेयो ऋचीकच्यवनादयः ॥७१॥

विश्वास-प्रस्तुतिः

द्वे कर्मणी नरश्रेष्ठ ब्रह्मणा समुदाहृते।
प्रवृत्ताख्यं निवृत्तं च स्वर्गमुक्तिफले हि ते ॥७२॥

मूलम्

द्वे कर्मणी नरश्रेष्ठ ब्रह्मणा समुदाहृते।
प्रवृत्ताख्यं निवृत्तं च स्वर्गमुक्तिफले हि ते ॥७२॥

विश्वास-प्रस्तुतिः

प्रवृत्तमपि मोक्षाय कर्म पार्थिव जायते।
कर्म स्वरूपतो भ्रष्टमनाकाङ्क्ष्य फलं कृतम् ॥७३॥

मूलम्

प्रवृत्तमपि मोक्षाय कर्म पार्थिव जायते।
कर्म स्वरूपतो भ्रष्टमनाकाङ्क्ष्य फलं कृतम् ॥७३॥

विश्वास-प्रस्तुतिः

सामान्यं चापरं श्रेयः सर्ववर्णाश्रमेषु यत्।
तच्छृणुष्व महीपाल वदतो मम तत्त्वतः ॥७४॥

मूलम्

सामान्यं चापरं श्रेयः सर्ववर्णाश्रमेषु यत्।
तच्छृणुष्व महीपाल वदतो मम तत्त्वतः ॥७४॥

सत्यं वक्तव्यं नित्यं मैत्रेण भाव्यं।
कार्यं च त्याज्यं नित्यमायासकारि।

विश्वास-प्रस्तुतिः

लोकेऽमुष्मिन्यद्धितं च तथास्मिंस्।
तस्मिन्नात्मा योजनीयोऽनुधीरैः ॥७५॥

मूलम्

लोकेऽमुष्मिन्यद्धितं च तथास्मिंस्।
तस्मिन्नात्मा योजनीयोऽनुधीरैः ॥७५॥

विश्वास-प्रस्तुतिः

तीर्थस्नानैः सोपवासैरजस्रं पात्रे दानैर्होमजापैश्च नित्यम्।
शुद्धिर्नेयो देवताभ्यर्चनैश्च शुद्धोऽप्यात्मा सङ्गदोषादशुद्धः ॥७६॥

मूलम्

तीर्थस्नानैः सोपवासैरजस्रं पात्रे दानैर्होमजापैश्च नित्यम्।
शुद्धिर्नेयो देवताभ्यर्चनैश्च शुद्धोऽप्यात्मा सङ्गदोषादशुद्धः ॥७६॥

शुद्धं वस्त्रं सङ्गदोषादशुद्धं।
भूयः शुद्धिं शोध्यमानं पर्याति।

विश्वास-प्रस्तुतिः

एतज्ज्ञात्वा न प्रमादो मनुष्यैः।
शुद्धे ह्यात्मन्यात्मविद्भिर्विधेयः ॥७७॥

मूलम्

एतज्ज्ञात्वा न प्रमादो मनुष्यैः।
शुद्धे ह्यात्मन्यात्मविद्भिर्विधेयः ॥७७॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

इत्युक्त्वा तौ नरेन्द्रंतौ तेन चार्घ्यादिना पृथक्।
सम्यक् सम्पूजितौ यातौ नाक पृष्ठमथाश्विनौ ॥७८॥

मूलम्

इत्युक्त्वा तौ नरेन्द्रंतौ तेन चार्घ्यादिना पृथक्।
सम्यक् सम्पूजितौ यातौ नाक पृष्ठमथाश्विनौ ॥७८॥

स चाप्यनित्यतामेवमवगम्य नरेश्वरः।

विश्वास-प्रस्तुतिः

निष्कामोऽनुदिनमेव अवगम्य नरेश्वरः।
निष्कामोऽनुदिनं यज्ञैरियाज पुरुषोत्तमम् ॥७९॥

मूलम्

निष्कामोऽनुदिनमेव अवगम्य नरेश्वरः।
निष्कामोऽनुदिनं यज्ञैरियाज पुरुषोत्तमम् ॥७९॥

विश्वास-प्रस्तुतिः

भोगासङ्गि मनो दाल्भ्य यदासीत्तस्य भूपतेः।
तदेव भगवद्ध्यानपरं चक्रे महामुने ॥८०॥

मूलम्

भोगासङ्गि मनो दाल्भ्य यदासीत्तस्य भूपतेः।
तदेव भगवद्ध्यानपरं चक्रे महामुने ॥८०॥

विश्वास-प्रस्तुतिः

तत्याजार्थेषु ममतामहङ्कारं तथात्मनि।
समतां सर्वभूतेषु सम्प्राप पृथिवीपतिः ॥८१॥

मूलम्

तत्याजार्थेषु ममतामहङ्कारं तथात्मनि।
समतां सर्वभूतेषु सम्प्राप पृथिवीपतिः ॥८१॥

विश्वास-प्रस्तुतिः

यस्यात्मन्यपि विप्रर्षे नाहम्मानोऽस्ति कुत्रचित्।
मदावलेपो पूपादौ तस्य स्यादिति का कथा ॥८२॥

मूलम्

यस्यात्मन्यपि विप्रर्षे नाहम्मानोऽस्ति कुत्रचित्।
मदावलेपो पूपादौ तस्य स्यादिति का कथा ॥८२॥

विश्वास-प्रस्तुतिः

एवं दाल्भ्य मनुष्येण समतामनुतिष्ठता।
सर्वभोगेषु सन्त्याज्यो ध्येयश्च पुरुषोत्तमः ॥८३॥

मूलम्

एवं दाल्भ्य मनुष्येण समतामनुतिष्ठता।
सर्वभोगेषु सन्त्याज्यो ध्येयश्च पुरुषोत्तमः ॥८३॥

विश्वास-प्रस्तुतिः

कुत्र तिष्ठति गोविन्दो बाह्यनिवृतचेतसि।
तस्मान्निःसङ्गचित्तेन शक्यश्चिन्तयितुं हरिः ॥८४॥

मूलम्

कुत्र तिष्ठति गोविन्दो बाह्यनिवृतचेतसि।
तस्मान्निःसङ्गचित्तेन शक्यश्चिन्तयितुं हरिः ॥८४॥

विश्वास-प्रस्तुतिः

प्रीतिद्वेषादयस्त्यक्त्वा महर्षे यस्य चेतसा।
प्रियातिथिस्तद्धृदये विष्णुर्मोक्षफलप्रदः ॥८५॥

मूलम्

प्रीतिद्वेषादयस्त्यक्त्वा महर्षे यस्य चेतसा।
प्रियातिथिस्तद्धृदये विष्णुर्मोक्षफलप्रदः ॥८५॥

इति विष्णुधर्मेष्वश्विनपुरूरवसंवादः।