अथ सप्तत्रिंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
यन्न तापाय वै पुंसां भवत्यामुष्मिकं कृतम्।
तापाय यच्च भवति तदाचक्ष्व महामुने ॥१॥
मूलम्
यन्न तापाय वै पुंसां भवत्यामुष्मिकं कृतम्।
तापाय यच्च भवति तदाचक्ष्व महामुने ॥१॥
विश्वास-प्रस्तुतिः
उपवासप्रभावं च कृष्णाराधनकाङ्क्षिणः।
कथयेह मम ब्रह्मन्न च तृप्यामि कथ्यते ॥२॥
मूलम्
उपवासप्रभावं च कृष्णाराधनकाङ्क्षिणः।
कथयेह मम ब्रह्मन्न च तृप्यामि कथ्यते ॥२॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
श्रूयतां दाल्भ्य यत्पृष्टाः कौतुकाद्भवता वयम्।
आमुष्मिकं न तापाय यच्च तापाय जायते ॥३॥
मूलम्
श्रूयतां दाल्भ्य यत्पृष्टाः कौतुकाद्भवता वयम्।
आमुष्मिकं न तापाय यच्च तापाय जायते ॥३॥
विश्वास-प्रस्तुतिः
उपोषितप्रभावं च कृष्णाराधनकाङ्क्षिणः।
कथयामि यथावृत्तं पूर्वमेव महामते ॥४॥
मूलम्
उपोषितप्रभावं च कृष्णाराधनकाङ्क्षिणः।
कथयामि यथावृत्तं पूर्वमेव महामते ॥४॥
विश्वास-प्रस्तुतिः
वैदिशं नाम नगरं प्रख्यातमिह सत्तम।
तत्र वैश्योऽभवत्पूर्वं वीरभद्रइति श्रुतः ॥५॥
मूलम्
वैदिशं नाम नगरं प्रख्यातमिह सत्तम।
तत्र वैश्योऽभवत्पूर्वं वीरभद्रइति श्रुतः ॥५॥
विश्वास-प्रस्तुतिः
भार्याजामाऋदुहितृपुत्रपौत्रस्नुषान्वितः।
प्रभूतभृत्यवर्गश्च बहुव्यापारकारकः ॥६॥
मूलम्
भार्याजामाऋदुहितृपुत्रपौत्रस्नुषान्वितः।
प्रभूतभृत्यवर्गश्च बहुव्यापारकारकः ॥६॥
विश्वास-प्रस्तुतिः
पुत्रपौत्रादिभरणव्यासक्तमतिरेव च।
परलोकं प्रति मतिस्तस्य चात्यन्तदुर्मुखा ॥७॥
मूलम्
पुत्रपौत्रादिभरणव्यासक्तमतिरेव च।
परलोकं प्रति मतिस्तस्य चात्यन्तदुर्मुखा ॥७॥
विश्वास-प्रस्तुतिः
चकारानुदिनं सोऽथ न्यायान्यायैर्धनार्जनम्।
सर्वत्रान्यत्र निःस्नेहः परस्वे चातितर्षुलः ॥८॥
मूलम्
चकारानुदिनं सोऽथ न्यायान्यायैर्धनार्जनम्।
सर्वत्रान्यत्र निःस्नेहः परस्वे चातितर्षुलः ॥८॥
विश्वास-प्रस्तुतिः
न जुहोत्युदिते काले न ददात्यतितृष्णया।
बभूव चोद्यमस्तस्य पुत्रादिभरणे परः ॥९॥
मूलम्
न जुहोत्युदिते काले न ददात्यतितृष्णया।
बभूव चोद्यमस्तस्य पुत्रादिभरणे परः ॥९॥
विश्वास-प्रस्तुतिः
नित्यनैमित्तिकानां च हानिं चक्रे स्वकर्मणाम्।
तृष्णाभिभूतो विप्रर्षे स्ववर्गभरणाधृतः ॥१०॥
मूलम्
नित्यनैमित्तिकानां च हानिं चक्रे स्वकर्मणाम्।
तृष्णाभिभूतो विप्रर्षे स्ववर्गभरणाधृतः ॥१०॥
विश्वास-प्रस्तुतिः
कालेन गच्छता सोऽथ मृतो विन्ध्याटवीतटे।
यातनादेहभृत्प्रेतो ग्रीष्मकालेऽभवन्मुने ॥११॥
मूलम्
कालेन गच्छता सोऽथ मृतो विन्ध्याटवीतटे।
यातनादेहभृत्प्रेतो ग्रीष्मकालेऽभवन्मुने ॥११॥
विश्वास-प्रस्तुतिः
तं ददर्श महाभागो दिव्यज्ञानसमन्वितः।
वेदवेदान्तविद्विद्वान्पिपीतो नाम वै द्विजः ॥१२॥
मूलम्
तं ददर्श महाभागो दिव्यज्ञानसमन्वितः।
वेदवेदान्तविद्विद्वान्पिपीतो नाम वै द्विजः ॥१२॥
विश्वास-प्रस्तुतिः
भास्करस्यांशुभिर्दीप्तैर्दह्यन्तमनिवारणैः।
प्रतप्तवालुकामध्ये तृषा चात्यन्तपीडितम् ॥१३॥
मूलम्
भास्करस्यांशुभिर्दीप्तैर्दह्यन्तमनिवारणैः।
प्रतप्तवालुकामध्ये तृषा चात्यन्तपीडितम् ॥१३॥
विश्वास-प्रस्तुतिः
क्षुत्क्षामकण्ठं शुष्कास्यं स्तब्धोद्वृत्तविलोचनम्।
निष्क्रान्तजिह्वमङ्गेषु विस्फोटैः सर्वतश्चितम् ॥१४॥
मूलम्
क्षुत्क्षामकण्ठं शुष्कास्यं स्तब्धोद्वृत्तविलोचनम्।
निष्क्रान्तजिह्वमङ्गेषु विस्फोटैः सर्वतश्चितम् ॥१४॥
निश्वासायासखेदेन विरलास्यमनादरम्।
विश्वास-प्रस्तुतिः
श्रान्तं मक्षिकयाकीर्णं दुर्दग्धं चातिदारुणम्।
निजेन कर्मणा बद्धमसमर्थं पलायने ॥१५॥
मूलम्
श्रान्तं मक्षिकयाकीर्णं दुर्दग्धं चातिदारुणम्।
निजेन कर्मणा बद्धमसमर्थं पलायने ॥१५॥
विश्वास-प्रस्तुतिः
तं तादृशमथो दृष्ट्वा गार्दभेयो महामुनिः।
पिपीतः प्राह विप्रर्षिः कारुण्यस्तिमितं वचः ॥१६॥
मूलम्
तं तादृशमथो दृष्ट्वा गार्दभेयो महामुनिः।
पिपीतः प्राह विप्रर्षिः कारुण्यस्तिमितं वचः ॥१६॥
विश्वास-प्रस्तुतिः
जानन्नपि तथा प्राप्तं तदनुष्ठानजं फलम्।
जन्तोस्तस्योपकाराय सर्वतो ह्लादयन्निव ॥१७॥
मूलम्
जानन्नपि तथा प्राप्तं तदनुष्ठानजं फलम्।
जन्तोस्तस्योपकाराय सर्वतो ह्लादयन्निव ॥१७॥
पिपीत उवाच।
विश्वास-प्रस्तुतिः
अधः सूर्यांशुभिस्तप्तैर्बहुभिर्यानपांसुभिः।
उपर्यर्ककरैरुग्रैस्तृषा चार्तस्तथा क्षुधा ॥१८॥
मूलम्
अधः सूर्यांशुभिस्तप्तैर्बहुभिर्यानपांसुभिः।
उपर्यर्ककरैरुग्रैस्तृषा चार्तस्तथा क्षुधा ॥१८॥
विश्वास-प्रस्तुतिः
अन्यैस्तथाधिभिर्घोरैरविषह्यैरवारणैः।
कथयेह यथातत्त्वमेकाकी दह्यसे कथम् ॥१९॥
मूलम्
अन्यैस्तथाधिभिर्घोरैरविषह्यैरवारणैः।
कथयेह यथातत्त्वमेकाकी दह्यसे कथम् ॥१९॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
तस्यैतद्वचनं श्रुत्वा पिपीतस्य सवेदनम्।
यातनास्थ उवाचेदं कृच्छ्रादुच्छ्वास्य मस्तकम् ॥२०॥
मूलम्
तस्यैतद्वचनं श्रुत्वा पिपीतस्य सवेदनम्।
यातनास्थ उवाचेदं कृच्छ्रादुच्छ्वास्य मस्तकम् ॥२०॥
वीरभद्रउवाच।
विश्वास-प्रस्तुतिः
ब्रह्मन्नालोचितं पूर्वं कथमन्ते भविष्यति।
अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः ॥२१॥
मूलम्
ब्रह्मन्नालोचितं पूर्वं कथमन्ते भविष्यति।
अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः ॥२१॥
विश्वास-प्रस्तुतिः
धनापणगृहक्षेत्रपुत्रदारहिते रतः।
नात्मनोऽहं हितारम्भी तेन दह्यामि दुर्मतिः ॥२२॥
मूलम्
धनापणगृहक्षेत्रपुत्रदारहिते रतः।
नात्मनोऽहं हितारम्भी तेन दह्यामि दुर्मतिः ॥२२॥
विश्वास-प्रस्तुतिः
इदं करिष्ये कृत्वेदं करिष्याम्यपरं त्विदम्।
इतीच्छाशतसरोऽहं तेन दह्यामि दुर्मतिः ॥२३॥
मूलम्
इदं करिष्ये कृत्वेदं करिष्याम्यपरं त्विदम्।
इतीच्छाशतसरोऽहं तेन दह्यामि दुर्मतिः ॥२३॥
विश्वास-प्रस्तुतिः
जुहोमि यदि तन्नास्ति ददामि यदि सीदति।
कुटुम्बमिति मूढोऽहं तेन दह्यामि दुर्मतिः ॥२४॥
मूलम्
जुहोमि यदि तन्नास्ति ददामि यदि सीदति।
कुटुम्बमिति मूढोऽहं तेन दह्यामि दुर्मतिः ॥२४॥
विश्वास-प्रस्तुतिः
शीतोष्णवर्षाभिभवं लोभात्सोडः मयाशुभम्।
तदेव हि न धर्मार्थं तेन दह्यामि दुर्मतिः ॥२५॥
मूलम्
शीतोष्णवर्षाभिभवं लोभात्सोडः मयाशुभम्।
तदेव हि न धर्मार्थं तेन दह्यामि दुर्मतिः ॥२५॥
विश्वास-प्रस्तुतिः
पितृदेवमनुष्याणामदत्त्वापोषिता हि ये।
तेऽन्यत्र क्वापि वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः ॥२६॥
मूलम्
पितृदेवमनुष्याणामदत्त्वापोषिता हि ये।
तेऽन्यत्र क्वापि वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः ॥२६॥
विश्वास-प्रस्तुतिः
पुत्रभृत्यकलत्रेषु मम त्वादृतमानसः।
कृत्वा कर्माण्यसाधूनि दह्याम्येकोऽत्र दुर्मतिः ॥२७॥
मूलम्
पुत्रभृत्यकलत्रेषु मम त्वादृतमानसः।
कृत्वा कर्माण्यसाधूनि दह्याम्येकोऽत्र दुर्मतिः ॥२७॥
विश्वास-प्रस्तुतिः
मृते मयि धने तस्मिन्नन्यायोपार्जिते मया।
नूनं ममेति वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः ॥२८॥
मूलम्
मृते मयि धने तस्मिन्नन्यायोपार्जिते मया।
नूनं ममेति वर्तन्ते दह्याम्येकोऽत्र दुर्मतिः ॥२८॥
विश्वास-प्रस्तुतिः
न हि नः पूजिता गेहान्निर्गता द्विजसत्तमाः।
स्ववर्गहितकामस्य तेन दह्याम्यहर्निशम् ॥२९॥
मूलम्
न हि नः पूजिता गेहान्निर्गता द्विजसत्तमाः।
स्ववर्गहितकामस्य तेन दह्याम्यहर्निशम् ॥२९॥
विश्वास-प्रस्तुतिः
यन्मे न पूजिता देवाः कुटुम्बं पोषीतं परम्।
एकाकी तेन दह्यामि ये पुष्टास्तेऽन्यतो गताः ॥३०॥
मूलम्
यन्मे न पूजिता देवाः कुटुम्बं पोषीतं परम्।
एकाकी तेन दह्यामि ये पुष्टास्तेऽन्यतो गताः ॥३०॥
विश्वास-प्रस्तुतिः
नित्यनैमित्तिकं कर्म कृते येषां न म कृतम्।
एकाकी तेन दह्यामि तैर्मन्ये क्वापि रम्यते ॥३१॥
मूलम्
नित्यनैमित्तिकं कर्म कृते येषां न म कृतम्।
एकाकी तेन दह्यामि तैर्मन्ये क्वापि रम्यते ॥३१॥
विश्वास-प्रस्तुतिः
यन्मे परिजनस्यार्थे कृतं कर्म शुभाशुभम्।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥३२॥
मूलम्
यन्मे परिजनस्यार्थे कृतं कर्म शुभाशुभम्।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥३२॥
विश्वास-प्रस्तुतिः
दाराः पुत्राश्च भृत्याश्च पापव्याप्त्या मयैधिताः।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥३३॥
मूलम्
दाराः पुत्राश्च भृत्याश्च पापव्याप्त्या मयैधिताः।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥३३॥
विश्वास-प्रस्तुतिः
पुत्रदारादिभृत्यार्थे मयान्यायार्थसञ्चयाः।
कृतास्तेनात्र दह्यामि भुञ्जतेऽप्यन्यतो गताः ॥३४॥
मूलम्
पुत्रदारादिभृत्यार्थे मयान्यायार्थसञ्चयाः।
कृतास्तेनात्र दह्यामि भुञ्जतेऽप्यन्यतो गताः ॥३४॥
विश्वास-प्रस्तुतिः
कृतं पापं मया भुक्तमन्यैस्तत्कर्मसञ्चितम्।
दह्याम्येकोऽहमत्यन्तं त्यक्तस्तैः फलभोगिभिः ॥३५॥
मूलम्
कृतं पापं मया भुक्तमन्यैस्तत्कर्मसञ्चितम्।
दह्याम्येकोऽहमत्यन्तं त्यक्तस्तैः फलभोगिभिः ॥३५॥
विश्वास-प्रस्तुतिः
यन्ममत्वाभिभूतेन मया धनमुपार्जितम्।
अन्यस्य तेऽद्य कस्यापि केवलं मम दुष्कृतम् ॥३६॥
मूलम्
यन्ममत्वाभिभूतेन मया धनमुपार्जितम्।
अन्यस्य तेऽद्य कस्यापि केवलं मम दुष्कृतम् ॥३६॥
विश्वास-प्रस्तुतिः
अन्तर्दुःखेन दग्धोऽन्तर्बहिर्दह्यामि भानुना।
नान्तर्दुःखं न वा भानुः पापमेव द्विधा स्थितम् ॥३७॥
मूलम्
अन्तर्दुःखेन दग्धोऽन्तर्बहिर्दह्यामि भानुना।
नान्तर्दुःखं न वा भानुः पापमेव द्विधा स्थितम् ॥३७॥
विश्वास-प्रस्तुतिः
कञ्चित्कर्मसमुद्धारं पश्यस्यसुखसागरात्।
मम येनाहमाह्लादमाप्नुयां मुनिसत्तम ॥३८॥
मूलम्
कञ्चित्कर्मसमुद्धारं पश्यस्यसुखसागरात्।
मम येनाहमाह्लादमाप्नुयां मुनिसत्तम ॥३८॥
पिपीत उवाच।
विश्वास-प्रस्तुतिः
अल्पकालिकमुद्धारं तव पश्याम्यसंशयम्।
प्रक्षीणप्रायमेतत्ते सुकृतं चास्ति ते परम् ॥३९॥
मूलम्
अल्पकालिकमुद्धारं तव पश्याम्यसंशयम्।
प्रक्षीणप्रायमेतत्ते सुकृतं चास्ति ते परम् ॥३९॥
विश्वास-प्रस्तुतिः
अतीते दशमे जन्मन्यच्युताराधनेच्छया।
सुकर्मजयदां भद्रद्वादशीं त्वमुपोषितः ॥४०॥
मूलम्
अतीते दशमे जन्मन्यच्युताराधनेच्छया।
सुकर्मजयदां भद्रद्वादशीं त्वमुपोषितः ॥४०॥
विश्वास-प्रस्तुतिः
तव तस्याः प्रभावेण पापमत्यन्तदुर्जयम्।
अल्पैरहोभिः सङ्क्षीणं नवपात्रे यथा जलम् ॥४१॥
मूलम्
तव तस्याः प्रभावेण पापमत्यन्तदुर्जयम्।
अल्पैरहोभिः सङ्क्षीणं नवपात्रे यथा जलम् ॥४१॥
विश्वास-प्रस्तुतिः
यदन्यः क्षपयेद्वर्षैस्तद्दिनैर्भवतः क्षयम्।
गतं पापमयं तस्याः प्रभावोऽत्यन्तदुर्लभः ॥४२॥
मूलम्
यदन्यः क्षपयेद्वर्षैस्तद्दिनैर्भवतः क्षयम्।
गतं पापमयं तस्याः प्रभावोऽत्यन्तदुर्लभः ॥४२॥
विश्वास-प्रस्तुतिः
शमं पापस्य कुरुते जयं सुकृतकर्मणः।
सत्कर्मजयदा ह्येषा ततो वै द्वादशी स्मृता ॥४३॥
मूलम्
शमं पापस्य कुरुते जयं सुकृतकर्मणः।
सत्कर्मजयदा ह्येषा ततो वै द्वादशी स्मृता ॥४३॥
विश्वास-प्रस्तुतिः
यच्चैतद्वेदनार्तेन भवता परिदेवितम्।
तत्तथा नात्र सन्देहो ममता पापहेतुकी ॥४४॥
मूलम्
यच्चैतद्वेदनार्तेन भवता परिदेवितम्।
तत्तथा नात्र सन्देहो ममता पापहेतुकी ॥४४॥
विश्वास-प्रस्तुतिः
पापमत्र कृतं प्रेत्य भद्रतापाय जायते।
आह्लादाय तथा पुण्यमिह पुण्यकृतां नृणाम् ॥४५॥
मूलम्
पापमत्र कृतं प्रेत्य भद्रतापाय जायते।
आह्लादाय तथा पुण्यमिह पुण्यकृतां नृणाम् ॥४५॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
वीरभद्रंसमाश्वास्य ययावित्थं महामुनिः।
सोऽप्यल्पेनैव कालेन ततो मोक्षमवाप्तवान् ॥४६॥
मूलम्
वीरभद्रंसमाश्वास्य ययावित्थं महामुनिः।
सोऽप्यल्पेनैव कालेन ततो मोक्षमवाप्तवान् ॥४६॥
विश्वास-प्रस्तुतिः
एवं दाल्भ्य परे लोके यदत्रासुकृतं कृतम्।
तत्तापाय सुखायोक्तं यदत्रैव शुभं कृतम् ॥४७॥
मूलम्
एवं दाल्भ्य परे लोके यदत्रासुकृतं कृतम्।
तत्तापाय सुखायोक्तं यदत्रैव शुभं कृतम् ॥४७॥
विश्वास-प्रस्तुतिः
उपवासप्रभावश्च कथितस्ते महामुने।
येनाल्पैरेव दिवसैर्भूरि पापं क्षयं गतम् ॥४८॥
मूलम्
उपवासप्रभावश्च कथितस्ते महामुने।
येनाल्पैरेव दिवसैर्भूरि पापं क्षयं गतम् ॥४८॥
विश्वास-प्रस्तुतिः
तस्मान्नरेण पुण्याय पतितव्यं न पातके।
उपवासाश्च कर्तव्याः सदैवात्महितैषिणा ॥४९॥
मूलम्
तस्मान्नरेण पुण्याय पतितव्यं न पातके।
उपवासाश्च कर्तव्याः सदैवात्महितैषिणा ॥४९॥
इति विष्णुधर्मेषु वीरभद्रगीता सुकृतद्वादशीप्रभावः।