०३६

अथ षट्त्रिंशोऽध्यायः।
पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

एवं स्तुतस्ततः प्राह प्रीतिमांस्तं जनार्दनः।
परिष्वज्य महाबाहुं समाश्वास्य च फाल्गुनम् ॥१॥

मूलम्

एवं स्तुतस्ततः प्राह प्रीतिमांस्तं जनार्दनः।
परिष्वज्य महाबाहुं समाश्वास्य च फाल्गुनम् ॥१॥

प्रोवाच भगवान्देवः प्रहृष्टेनान्तरात्मना।

विश्वास-प्रस्तुतिः

यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु।
अभेदेनात्मना वेद्मी त्वामहं पाण्डुनन्दन ॥२॥

मूलम्

यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु।
अभेदेनात्मना वेद्मी त्वामहं पाण्डुनन्दन ॥२॥

विश्वास-प्रस्तुतिः

ममांशत्वं महाबाहो जगतः पालनेच्छया।
भुवो भारावतारार्थं पृथक् पार्थ मया कृतम् ॥३॥

मूलम्

ममांशत्वं महाबाहो जगतः पालनेच्छया।
भुवो भारावतारार्थं पृथक् पार्थ मया कृतम् ॥३॥

विश्वास-प्रस्तुतिः

देवदैत्योरगा यक्षा गन्धर्वाः किन्नराप्सराः।
राक्षसाश्च पिशाचाश्च पशुपक्षिसरीसृपाः ॥४॥

मूलम्

देवदैत्योरगा यक्षा गन्धर्वाः किन्नराप्सराः।
राक्षसाश्च पिशाचाश्च पशुपक्षिसरीसृपाः ॥४॥

विश्वास-प्रस्तुतिः

वृक्षगुल्मादयः शैलाः सर्वभूतानि चार्जुन।
ममैवांशानि भूतानि विद्धि सर्वाण्यरिन्दम ॥५॥

मूलम्

वृक्षगुल्मादयः शैलाः सर्वभूतानि चार्जुन।
ममैवांशानि भूतानि विद्धि सर्वाण्यरिन्दम ॥५॥

अर्जुन उवाच।

विश्वास-प्रस्तुतिः

भगवन्सर्वभूतात्मन्सर्वभूतेषु वै भवान्।
परमात्मस्वरूपेण स्थितं वेद्मि तदव्ययम् ॥६॥

मूलम्

भगवन्सर्वभूतात्मन्सर्वभूतेषु वै भवान्।
परमात्मस्वरूपेण स्थितं वेद्मि तदव्ययम् ॥६॥

विश्वास-प्रस्तुतिः

क्षेत्रेषु येषु येषु त्वं चिन्तनीयो मयाच्युत।
चेतसः प्रणिधानार्थं तन्ममाख्यातुमर्हसि ॥७॥

मूलम्

क्षेत्रेषु येषु येषु त्वं चिन्तनीयो मयाच्युत।
चेतसः प्रणिधानार्थं तन्ममाख्यातुमर्हसि ॥७॥

विश्वास-प्रस्तुतिः

यत्र यत्र च यन्नाम प्रीतये भवतः स्तुतौ।
प्रसादसुमुखो नाथ तन्ममाशेषतो वद ॥८॥

मूलम्

यत्र यत्र च यन्नाम प्रीतये भवतः स्तुतौ।
प्रसादसुमुखो नाथ तन्ममाशेषतो वद ॥८॥

भगवानुवाच।

विश्वास-प्रस्तुतिः

सर्वगः सर्वभूतोऽहं न हि किञ्चिद्मया विना।
चराचरे जगत्यस्मिन्विद्यते कुरुसत्तम ॥९॥

मूलम्

सर्वगः सर्वभूतोऽहं न हि किञ्चिद्मया विना।
चराचरे जगत्यस्मिन्विद्यते कुरुसत्तम ॥९॥

विश्वास-प्रस्तुतिः

तथापि येषु स्थानेषु चिन्तनीयोऽहमर्जुन।
स्तोतव्यो नामभिर्यैस्तु श्रूयतां तद्वदामि ते ॥१०॥

मूलम्

तथापि येषु स्थानेषु चिन्तनीयोऽहमर्जुन।
स्तोतव्यो नामभिर्यैस्तु श्रूयतां तद्वदामि ते ॥१०॥

विश्वास-प्रस्तुतिः

पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम्।
लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ॥११॥

मूलम्

पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम्।
लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ॥११॥

क्ष्वामाच्ये कुमारं नेपाले लोकभावनम्।

विश्वास-प्रस्तुतिः

राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम्।
वृन्दावने च गोविन्दं मा स्तुवन्पुण्यभाग्भवेत् ॥१२॥

मूलम्

राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम्।
वृन्दावने च गोविन्दं मा स्तुवन्पुण्यभाग्भवेत् ॥१२॥

मन्दोदपाने वैकुण्ठं माहन्त्रे चाच्युतं विभुम्।

विश्वास-प्रस्तुतिः

जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे।
वाराहं कर्दमाले तु काश्मीरे चक्रपाणिनम् ॥१३॥

मूलम्

जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे।
वाराहं कर्दमाले तु काश्मीरे चक्रपाणिनम् ॥१३॥

विश्वास-प्रस्तुतिः

जनार्दनं च कुब्जाम्रे मथुरायां च केशवम्।
कुब्जके श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् ॥१४॥

मूलम्

जनार्दनं च कुब्जाम्रे मथुरायां च केशवम्।
कुब्जके श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् ॥१४॥

विश्वास-प्रस्तुतिः

शालग्रामे महायोगिं हरिं गोवर्धनाचले।
पिण्डारके चतुर्बाहुं शङ्खोद्धारे च शङ्खिनम् ॥१५॥

मूलम्

शालग्रामे महायोगिं हरिं गोवर्धनाचले।
पिण्डारके चतुर्बाहुं शङ्खोद्धारे च शङ्खिनम् ॥१५॥

वामनं च कुरुक्षेत्रे यमुनायां त्रिविक्रमम्।
वनमालं च किष्किन्धाआं देवं रैवतके द्विज।
काशीजले महायोगं देवं चामिततेजसम्।

विश्वास-प्रस्तुतिः

वैशाखयूपे अजितं विरजायां विप्रक्षयम्।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥१६॥

मूलम्

वैशाखयूपे अजितं विरजायां विप्रक्षयम्।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥१६॥

विश्वास-प्रस्तुतिः

श्वेतद्वीपपतिं चापि गङ्गासागरसङ्गमे।
भूधरं देविकानद्यां प्रयागे चैव माधवम् ॥१७॥

मूलम्

श्वेतद्वीपपतिं चापि गङ्गासागरसङ्गमे।
भूधरं देविकानद्यां प्रयागे चैव माधवम् ॥१७॥

विश्वास-प्रस्तुतिः

नरनारायणाख्यं च तथा बदरिकाश्रमे।
समुद्रेदक्षिणे स्तव्यं पद्मनाभेति फाल्गुन ॥१८॥

मूलम्

नरनारायणाख्यं च तथा बदरिकाश्रमे।
समुद्रेदक्षिणे स्तव्यं पद्मनाभेति फाल्गुन ॥१८॥

विश्वास-प्रस्तुतिः

द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम्।
रामं नाम महेन्द्राद्रौहृषीकेशं तथार्बुदे ॥१९॥

मूलम्

द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम्।
रामं नाम महेन्द्राद्रौहृषीकेशं तथार्बुदे ॥१९॥

विश्वास-प्रस्तुतिः

अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले।
नृसिंहं कृतसौचे च विपाशायां द्विजप्रियम् ॥२०॥

मूलम्

अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले।
नृसिंहं कृतसौचे च विपाशायां द्विजप्रियम् ॥२०॥

विश्वास-प्रस्तुतिः

नैमिषे यज्ञपुरुषं जम्बूमार्गे तथाच्युतम्।
अनन्तं सैन्धवारण्ये दण्डके शाङ्गधारिणम् ॥२१॥

मूलम्

नैमिषे यज्ञपुरुषं जम्बूमार्गे तथाच्युतम्।
अनन्तं सैन्धवारण्ये दण्डके शाङ्गधारिणम् ॥२१॥

विश्वास-प्रस्तुतिः

उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम्।
दामोदरं रैवतके नन्दायां जलशायिनम् ॥२२॥

मूलम्

उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम्।
दामोदरं रैवतके नन्दायां जलशायिनम् ॥२२॥

विश्वास-प्रस्तुतिः

सर्वयोगेश्वरं चैव सिन्धुसागरसङ्गमे।
सह्याद्रौदेवदेवेशं वैकुण्ठं मागधे वने ॥२३॥

मूलम्

सर्वयोगेश्वरं चैव सिन्धुसागरसङ्गमे।
सह्याद्रौदेवदेवेशं वैकुण्ठं मागधे वने ॥२३॥

विश्वास-प्रस्तुतिः

सर्वपापहरं विन्ध्ये उड्रेषु पुरुषोत्तमम्।
हृदये चापि कौन्तेय परमात्मानमात्मनः ॥२४॥

मूलम्

सर्वपापहरं विन्ध्ये उड्रेषु पुरुषोत्तमम्।
हृदये चापि कौन्तेय परमात्मानमात्मनः ॥२४॥

विश्वास-प्रस्तुतिः

वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम्।
पर्वते पर्वते रामं सर्वत्र मधुसूदनम् ॥२५॥

मूलम्

वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम्।
पर्वते पर्वते रामं सर्वत्र मधुसूदनम् ॥२५॥

विश्वास-प्रस्तुतिः

नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम्।
वासुदेवं च सर्वत्र संस्मरञ्ज्योतिषां पतिम् ॥२६॥

मूलम्

नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम्।
वासुदेवं च सर्वत्र संस्मरञ्ज्योतिषां पतिम् ॥२६॥

विश्वास-प्रस्तुतिः

अर्चयन्प्रणमंस्तु त्वं संस्मरंश्च धनञ्जय।
एतेष्वेतानि नामानि नरः पापैः प्रमुच्यते ॥२७॥

मूलम्

अर्चयन्प्रणमंस्तु त्वं संस्मरंश्च धनञ्जय।
एतेष्वेतानि नामानि नरः पापैः प्रमुच्यते ॥२७॥

विश्वास-प्रस्तुतिः

स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणनं नरः।
द्विजानां प्रीणनं कृत्वा स्वर्गलोकेऽभिजायते ॥२८॥

मूलम्

स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणनं नरः।
द्विजानां प्रीणनं कृत्वा स्वर्गलोकेऽभिजायते ॥२८॥

विश्वास-प्रस्तुतिः

नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान्।
जयं वै पञ्चपञ्चाशत्त्रिसन्ध्यं मत्परायणः ॥२९॥

मूलम्

नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान्।
जयं वै पञ्चपञ्चाशत्त्रिसन्ध्यं मत्परायणः ॥२९॥

विश्वास-प्रस्तुतिः

त्रीणि जन्मानि यत्पापमवस्थात्रितये कृतम्।
तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले ॥३०॥

मूलम्

त्रीणि जन्मानि यत्पापमवस्थात्रितये कृतम्।
तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले ॥३०॥

विश्वास-प्रस्तुतिः

द्विष्कालं वा जपन्नेव दिवारात्रौ च यत्कृतम्।
तस्माद्विमुच्यते पापात्सद्भावपरमो नरः ॥३१॥

मूलम्

द्विष्कालं वा जपन्नेव दिवारात्रौ च यत्कृतम्।
तस्माद्विमुच्यते पापात्सद्भावपरमो नरः ॥३१॥

विश्वास-प्रस्तुतिः

जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम्।
मोचयन्ते नरं पापाद्यत्तत्रैव दिने कृतम् ॥३२॥

मूलम्

जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम्।
मोचयन्ते नरं पापाद्यत्तत्रैव दिने कृतम् ॥३२॥

विश्वास-प्रस्तुतिः

धन्यं यशस्यमायुष्यं जयं कुरु कुलोद्वह।
ग्रहानुकूलतां चैव करोत्याशु न संशयः ॥३३॥

मूलम्

धन्यं यशस्यमायुष्यं जयं कुरु कुलोद्वह।
ग्रहानुकूलतां चैव करोत्याशु न संशयः ॥३३॥

विश्वास-प्रस्तुतिः

उपोषितो मत्परमः स्थानेष्वेतेषु मानवः।
कृतायतनवासश्च प्राप्नोत्यभिमतं फलम् ॥३४॥

मूलम्

उपोषितो मत्परमः स्थानेष्वेतेषु मानवः।
कृतायतनवासश्च प्राप्नोत्यभिमतं फलम् ॥३४॥

विश्वास-प्रस्तुतिः

उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते।
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् ॥३५॥

मूलम्

उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते।
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् ॥३५॥

विश्वास-प्रस्तुतिः

यस्तु मत्परमः कालं करोत्येतेषु मानवः।
देवानामपि पूज्योऽसौ मम लोके महीयते ॥३६॥

मूलम्

यस्तु मत्परमः कालं करोत्येतेषु मानवः।
देवानामपि पूज्योऽसौ मम लोके महीयते ॥३६॥

इति विष्णुधर्मेषु पञ्चपञ्चाशन्नामानि।