०३४

अथ चतुर्त्रिंशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

अनायासेन भगवन्दानेनान्येन केनचित्।
पापं प्रशममायाति येन तद्वक्तुमर्हसि ॥१॥

मूलम्

अनायासेन भगवन्दानेनान्येन केनचित्।
पापं प्रशममायाति येन तद्वक्तुमर्हसि ॥१॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

शृणु दाल्भ्य महापुण्यां द्वादशीं पापनाशनीम्।
यामुपोष्य परं पुण्यं प्राप्नुते श्रद्धयान्वितः ॥२॥

मूलम्

शृणु दाल्भ्य महापुण्यां द्वादशीं पापनाशनीम्।
यामुपोष्य परं पुण्यं प्राप्नुते श्रद्धयान्वितः ॥२॥

विश्वास-प्रस्तुतिः

माघमासे तु सम्प्राप्त आषाढार्क्षं भवेद्यदि।
मूलं वा कृष्णपक्षस्य द्वादश्यां नियतस्तदा ॥३॥

मूलम्

माघमासे तु सम्प्राप्त आषाढार्क्षं भवेद्यदि।
मूलं वा कृष्णपक्षस्य द्वादश्यां नियतस्तदा ॥३॥

विश्वास-प्रस्तुतिः

गृह्णीयात्पुण्यफलदं विधानं तस्य मे शृणु।
देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः ॥४॥

मूलम्

गृह्णीयात्पुण्यफलदं विधानं तस्य मे शृणु।
देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः ॥४॥

विश्वास-प्रस्तुतिः

कृष्णनाम्ना च संस्तूय एकादश्यां महामते।
उपोषितो द्वितीयेऽह्नि पुनः सम्पूज्य केशवम् ॥५॥

मूलम्

कृष्णनाम्ना च संस्तूय एकादश्यां महामते।
उपोषितो द्वितीयेऽह्नि पुनः सम्पूज्य केशवम् ॥५॥

संस्तूय नाम्ना च ततः कृष्णाख्येन पुनः पुनः।

विश्वास-प्रस्तुतिः

दद्यात्तिलांस्तु विप्राय कृष्णो मे प्रीयतामिति।
स्नानप्राशनयोः शस्तास्तथा कृष्णतिला मुने ॥६॥

मूलम्

दद्यात्तिलांस्तु विप्राय कृष्णो मे प्रीयतामिति।
स्नानप्राशनयोः शस्तास्तथा कृष्णतिला मुने ॥६॥

विश्वास-प्रस्तुतिः

तिलप्ररोहे जायन्ते यावत्सङ्ख्यास्तिला द्विज।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥७॥

मूलम्

तिलप्ररोहे जायन्ते यावत्सङ्ख्यास्तिला द्विज।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥७॥

जातश्चेहाप्यरोगोऽसौ नरो जन्मनि जन्मनि।

विश्वास-प्रस्तुतिः

नान्धो न बधिरश्चेह न कुष्ठी न जुगुप्सितः।
भवत्येतामुषित्वा तु तिलाख्यां द्वादशीं नरः ॥८॥

मूलम्

नान्धो न बधिरश्चेह न कुष्ठी न जुगुप्सितः।
भवत्येतामुषित्वा तु तिलाख्यां द्वादशीं नरः ॥८॥

विश्वास-प्रस्तुतिः

विष्णोः प्रीणनमत्रोक्तं समाप्ते वर्षपारणे।
पूजां च कुर्याद्विप्राय भूयो दद्यात्तथा तिलान् ॥९॥

मूलम्

विष्णोः प्रीणनमत्रोक्तं समाप्ते वर्षपारणे।
पूजां च कुर्याद्विप्राय भूयो दद्यात्तथा तिलान् ॥९॥

विश्वास-प्रस्तुतिः

दाल्भ्य विधिना तिलदानादसंशयम्।
मुच्यते पातकैः सर्वैर्निरायासेन मानवः ॥१०॥

मूलम्

दाल्भ्य विधिना तिलदानादसंशयम्।
मुच्यते पातकैः सर्वैर्निरायासेन मानवः ॥१०॥

उद्भृतपुलकः सर्वान्निरायासेन मानवः।

विश्वास-प्रस्तुतिः

दानविधिस्तथा श्रद्धा सर्वपातकशान्तये।
नार्थः प्रभूतो नायासः शारीरो मुनिसत्तम ॥११॥

मूलम्

दानविधिस्तथा श्रद्धा सर्वपातकशान्तये।
नार्थः प्रभूतो नायासः शारीरो मुनिसत्तम ॥११॥

इति विष्णुधर्मेषु तिलद्वादशी।