अथ त्रयस्त्रिंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
आह्लादं चक्षुषः प्रीतिं करोति मनसस्तथा।
केषाञ्चिद्दर्शनं ब्रह्मन्मनुष्याणामहर्निशम् ॥१॥
मूलम्

उद्वेजनीया भूतानामनिमित्तं तथापरे।
वदन्ते विप्रियं नैव प्रीतिं कुर्वन्ति मानवाः ॥२॥

एतद्यस्य फलं ब्रह्मन्दानस्य तपसोऽथवा।
उपवासस्य वा तन्मे यथावद्वक्तुमर्हसि ॥३॥
मूलम्
एतद्यस्य फलं ब्रह्मन्दानस्य तपसोऽथवा।
उपवासस्य वा तन्मे यथावद्वक्तुमर्हसि ॥३॥
विश्वास-प्रस्तुतिः
अप्रीतिदस्य विप्रर्षे विपाको यस्य कर्मणः।
मनुष्याणामशेषं वै तन्ममाचक्ष्व सत्तम ॥४॥

पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
देवब्राह्मणवेदेषु यज्ञेषु च नराधमैः।
यैर्जुगुप्सा कृता दाल्भ्य मनसाप्यतिमानिभिः ॥५॥

तेषां सन्दर्शनात्सर्वो न सुखं विन्दते द्विज।
वदन्त्यप्यनुकूलानि न तेषु प्रीयते जनः ॥६॥

स्पर्शादुद्विजते लोकः कटु तेषां च दर्शनम्।
सम्भाषणं च निन्दा वै कृता वेदद्विजातिके ॥७॥

तस्मान्न निन्दां वेदादौ न जुगुप्सां च पण्डितः।
यज्ञादौ च नरः कुर्याद्य इच्छेच्छ्रेय आत्मनः ॥८॥

यैस्तु प्रीतिः समस्तेषु वेददेवद्विजातिषु।
यज्ञादिके चैव कृता दाल्भ्य तद्दर्शनं नृणाम् ॥९॥

आह्लादश्चक्षुषः प्रीतिर्मनसो निर्वृतिः परा।
सम्भाषणे तथाह्लादः सर्वलोकस्य जायते ॥१०॥

स्तुताः प्रशस्ताः सम्प्रीत्या पूजिता बहुमानतः।
श्रेयः परं प्रयच्छन्ति देवा वेदा मखा द्विजाः ॥११॥

लोकद्वयेऽपि चाप्रीतिं पशुपुत्रधनक्षयम्।
कुर्वन्ति द्विजशार्दूल एत एव विनिन्दिताः ॥१२॥

एत एव समाख्याताः स्तवादिग्रहणे गुणाः।
निन्दायाः श्रवणे दोष एतेषामेवमेव हि ॥१३॥

तस्मात्स्तव्याः प्रशंस्याश्च देवा वेदा द्विजातयः।
यज्ञाश्च मनसाप्येषां न निन्दामाचरेद्बुधः ॥१४॥

इति विष्णुधर्मेषु देवद्विजादिप्रशंसा।