अथ द्वात्रिंशोऽध्यायः।
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
दीपं प्रयच्छति नरो विष्णोरायतने हि यः।
सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥१॥
मूलम्
दीपं प्रयच्छति नरो विष्णोरायतने हि यः।
सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥१॥
विश्वास-प्रस्तुतिः
कार्त्तिके तु विशेषेण कौमुदे मासि दीपकम्।
दत्त्वा यत्फलमाप्नोति दाल्भ्य तत्केन लभ्यते ॥२॥
मूलम्
कार्त्तिके तु विशेषेण कौमुदे मासि दीपकम्।
दत्त्वा यत्फलमाप्नोति दाल्भ्य तत्केन लभ्यते ॥२॥
विश्वास-प्रस्तुतिः
दाल्भ्यान्यदपि वक्ष्यामि पुरावृत्तमिदं शृणु।
विदर्भराजतनया ललिता यदुवाच ह ॥३॥
मूलम्
दाल्भ्यान्यदपि वक्ष्यामि पुरावृत्तमिदं शृणु।
विदर्भराजतनया ललिता यदुवाच ह ॥३॥
विश्वास-प्रस्तुतिः
विदर्भराट्चित्ररथो बभूवास्त्रविशारदः।
तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम् ॥४॥
मूलम्
विदर्भराट्चित्ररथो बभूवास्त्रविशारदः।
तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम् ॥४॥
विश्वास-प्रस्तुतिः
एकैव कन्या दाल्भ्यासील्ललिता नामनामतः।
सर्वलक्षणसम्पूर्णा भ्रातॄणां पितुरेव च ॥५॥
मूलम्
एकैव कन्या दाल्भ्यासील्ललिता नामनामतः।
सर्वलक्षणसम्पूर्णा भ्रातॄणां पितुरेव च ॥५॥
समस्तभृत्यवर्गस्य मातॄणां स्वजनस्य च।
विश्वास-प्रस्तुतिः
तथैव पौरवर्गस्य यश्चान्यो ददृशे शुभाम्।
तस्य तस्यातिचार्वङ्गी बभूवेष्टा द्विजोत्तम ॥६॥
मूलम्
तथैव पौरवर्गस्य यश्चान्यो ददृशे शुभाम्।
तस्य तस्यातिचार्वङ्गी बभूवेष्टा द्विजोत्तम ॥६॥
विश्वास-प्रस्तुतिः
तां ददौ काशिराजाय स पिता चारुवर्मने।
उपयेमे च तां सुभ्रूं चारुवर्मा महीपतिः ॥७॥
मूलम्
तां ददौ काशिराजाय स पिता चारुवर्मने।
उपयेमे च तां सुभ्रूं चारुवर्मा महीपतिः ॥७॥
विश्वास-प्रस्तुतिः
शतान्यन्यानि भार्याणां त्रीण्यासंश्चारुवर्मणः।
तासां मध्येऽग्रमहिषी ललिता तस्य चाभवत् ॥८॥
मूलम्
शतान्यन्यानि भार्याणां त्रीण्यासंश्चारुवर्मणः।
तासां मध्येऽग्रमहिषी ललिता तस्य चाभवत् ॥८॥
विश्वास-प्रस्तुतिः
सा च नित्यं जगद्धातुर्देवदेवस्य चक्रिणः।
दीपवर्तिपरा तद्वत्तैलस्याहरणोद्यता ॥९॥
मूलम्
सा च नित्यं जगद्धातुर्देवदेवस्य चक्रिणः।
दीपवर्तिपरा तद्वत्तैलस्याहरणोद्यता ॥९॥
विश्वास-प्रस्तुतिः
विष्णोरायतने तस्याः सहस्रं द्विजसत्तम।
दीपानां वै प्रजज्वाल दिवारात्रमतन्द्रितम् ॥१०॥
मूलम्
विष्णोरायतने तस्याः सहस्रं द्विजसत्तम।
दीपानां वै प्रजज्वाल दिवारात्रमतन्द्रितम् ॥१०॥
विश्वास-प्रस्तुतिः
तस्या द्युतिपराभूतास्तस्या लावण्यनिर्जिताः।
सर्वाः सपत्न्यो ललितां पप्रच्छुरिदमादितः ॥११॥
मूलम्
तस्या द्युतिपराभूतास्तस्या लावण्यनिर्जिताः।
सर्वाः सपत्न्यो ललितां पप्रच्छुरिदमादितः ॥११॥
सपत्न्य ऊचुः।
विश्वास-प्रस्तुतिः
ललिते वद भद्रंते भद्रंते ललिते वद।
कौतूहलपराः सर्वा यत्पृच्छामस्तदुच्यताम् ॥१२॥
मूलम्
ललिते वद भद्रंते भद्रंते ललिते वद।
कौतूहलपराः सर्वा यत्पृच्छामस्तदुच्यताम् ॥१२॥
ललितोवाच।
विश्वास-प्रस्तुतिः
विषये सति वक्तव्यं यन्मया तदिहोच्यताम्।
नाहं मत्सरिणी भद्रान च रागादिदूषिता ॥१३॥
मूलम्
विषये सति वक्तव्यं यन्मया तदिहोच्यताम्।
नाहं मत्सरिणी भद्रान च रागादिदूषिता ॥१३॥
विश्वास-प्रस्तुतिः
भवत्यो मम सर्वासां भवतीनामहं तथा।
अपृथग्भर्तृसामन्या देवलोकाभिकामुकाः ॥१४॥
मूलम्
भवत्यो मम सर्वासां भवतीनामहं तथा।
अपृथग्भर्तृसामन्या देवलोकाभिकामुकाः ॥१४॥
सपत्न्य ऊचुः।
पूर्वं यूयमहं चैव भवतीनां सधर्मिणी।
विश्वास-प्रस्तुतिः
न तथा पुष्पधूपेषु न तथा द्विजपूजने।
प्रयत्नं तव पश्यामो विष्णोरायतने शुभे ॥१५॥
मूलम्
न तथा पुष्पधूपेषु न तथा द्विजपूजने।
प्रयत्नं तव पश्यामो विष्णोरायतने शुभे ॥१५॥
विश्वास-प्रस्तुतिः
यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि।
तव दीपप्रदानाय यथा सुभ्रु सदोद्यमः ॥१६॥
मूलम्
यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि।
तव दीपप्रदानाय यथा सुभ्रु सदोद्यमः ॥१६॥
विश्वास-प्रस्तुतिः
तदेतत्कथयास्माकं ललिते कौतुकं परम्।
मन्यामो दीपदानस्य भवत्या विदितं फलम् ॥१७॥
मूलम्
तदेतत्कथयास्माकं ललिते कौतुकं परम्।
मन्यामो दीपदानस्य भवत्या विदितं फलम् ॥१७॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एवमुक्ता ततस्ताभिर्ललिता ललितं वचः।
व्याजहार सपत्नीस्ता न किञ्चिदपि भामिनी ॥१८॥
मूलम्
एवमुक्ता ततस्ताभिर्ललिता ललितं वचः।
व्याजहार सपत्नीस्ता न किञ्चिदपि भामिनी ॥१८॥
विश्वास-प्रस्तुतिः
पुनः पुनश्च सा ताभिर्बहुषो दाल्भ्य चोदिता।
दाक्षिण्यसारा ललिता कथायामास भामिनी ॥१९॥
मूलम्
पुनः पुनश्च सा ताभिर्बहुषो दाल्भ्य चोदिता।
दाक्षिण्यसारा ललिता कथायामास भामिनी ॥१९॥
विश्वास-प्रस्तुतिः
कौतुकं भवतीनां चेदतीवाल्पेऽपि वस्तुनि।
तदेषा कथयाम्येतद्यद्वृत्तं मम शोभनाः ॥२०॥
मूलम्
कौतुकं भवतीनां चेदतीवाल्पेऽपि वस्तुनि।
तदेषा कथयाम्येतद्यद्वृत्तं मम शोभनाः ॥२०॥
विश्वास-प्रस्तुतिः
सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः।
तेन चायतनं विष्णोः कारितं देविकातटे ॥२१॥
मूलम्
सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः।
तेन चायतनं विष्णोः कारितं देविकातटे ॥२१॥
विश्वास-प्रस्तुतिः
अहन्यहनि शुश्रूषां पुष्पधूपोपलेपनैः।
दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः ॥२२॥
मूलम्
अहन्यहनि शुश्रूषां पुष्पधूपोपलेपनैः।
दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः ॥२२॥
विश्वास-प्रस्तुतिः
कार्त्तिके दीपको ब्रह्मन्प्रदत्तस्तेन वै तदा।
आसीन्निर्वाणभूयिष्ठो देवार्चापुरतो निशि ॥२३॥
मूलम्
कार्त्तिके दीपको ब्रह्मन्प्रदत्तस्तेन वै तदा।
आसीन्निर्वाणभूयिष्ठो देवार्चापुरतो निशि ॥२३॥
विश्वास-प्रस्तुतिः
देवतायतने चासं तत्राहमपि मूषिका।
प्रदीपवर्तिहरणे कृतबुद्धिर्वराननाः ॥२४॥
मूलम्
देवतायतने चासं तत्राहमपि मूषिका।
प्रदीपवर्तिहरणे कृतबुद्धिर्वराननाः ॥२४॥
विश्वास-प्रस्तुतिः
गृहीता च मया वर्तिर्वृषदंशो ननाद च।
नष्टा चाहं तदा तस्य मार्जारस्य भयातुरा ॥२५॥
मूलम्
गृहीता च मया वर्तिर्वृषदंशो ननाद च।
नष्टा चाहं तदा तस्य मार्जारस्य भयातुरा ॥२५॥
विश्वास-प्रस्तुतिः
वर्तिप्रान्तेन नश्यन्त्या स दीपः प्रेरितो मया।
जज्वाल पूर्ववद्दीप्त्या तस्मिन्नायतने पुनः ॥२६॥
मूलम्
वर्तिप्रान्तेन नश्यन्त्या स दीपः प्रेरितो मया।
जज्वाल पूर्ववद्दीप्त्या तस्मिन्नायतने पुनः ॥२६॥
विश्वास-प्रस्तुतिः
मृताहं च ततो जाता वैदर्भी राजकन्यका।
जातिस्मरा कान्तिमती भवतीनां समा गुणैः ॥२७॥
मूलम्
मृताहं च ततो जाता वैदर्भी राजकन्यका।
जातिस्मरा कान्तिमती भवतीनां समा गुणैः ॥२७॥
विश्वास-प्रस्तुतिः
एष प्रभावो दीपस्य कार्त्तिके मासि शोभनाः।
दत्तस्य विष्ण्वायतने यस्येयं व्युष्टिरुत्तमा ॥२८॥
मूलम्
एष प्रभावो दीपस्य कार्त्तिके मासि शोभनाः।
दत्तस्य विष्ण्वायतने यस्येयं व्युष्टिरुत्तमा ॥२८॥
विश्वास-प्रस्तुतिः
असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया।
विष्ण्वायतनदीपस्य यस्येदं भुज्यते फलम् ॥२९॥
मूलम्
असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया।
विष्ण्वायतनदीपस्य यस्येदं भुज्यते फलम् ॥२९॥
विश्वास-प्रस्तुतिः
लोभाभिभूता हर्तुं तं प्रदीपमहमागता।
अवशेनैव तद्वर्त्या प्रेरणं तत्र मे कृतम् ॥३०॥
मूलम्
लोभाभिभूता हर्तुं तं प्रदीपमहमागता।
अवशेनैव तद्वर्त्या प्रेरणं तत्र मे कृतम् ॥३०॥
विश्वास-प्रस्तुतिः
ततो जातिस्मृतिर्जन्म मानुष्यं शोभनं वपुः।
वश्यः पतिः पृथिवीशः किं पुनर्दीपदायिनाम् ॥३१॥
मूलम्
ततो जातिस्मृतिर्जन्म मानुष्यं शोभनं वपुः।
वश्यः पतिः पृथिवीशः किं पुनर्दीपदायिनाम् ॥३१॥
विश्वास-प्रस्तुतिः
एतस्मात्कारणाद्दीपानहमेतानहर्निशम्।
प्रयच्छामि हरेर्धाम्नि ज्ञातमस्य हि यत्फलम् ॥३२॥
मूलम्
एतस्मात्कारणाद्दीपानहमेतानहर्निशम्।
प्रयच्छामि हरेर्धाम्नि ज्ञातमस्य हि यत्फलम् ॥३२॥
विश्वास-प्रस्तुतिः
भवतीनामिदं सत्यं मयोक्तं केशवालये।
मूषिकत्वादहं येन कर्मणा सिद्धिमागता ॥३३॥
मूलम्
भवतीनामिदं सत्यं मयोक्तं केशवालये।
मूषिकत्वादहं येन कर्मणा सिद्धिमागता ॥३३॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एष प्रभावो दीपस्य कार्त्तिके मासि सत्तम।
विष्ण्वायतनदत्तस्य जगाद ललिता यथा ॥३४॥
मूलम्
एष प्रभावो दीपस्य कार्त्तिके मासि सत्तम।
विष्ण्वायतनदत्तस्य जगाद ललिता यथा ॥३४॥
विश्वास-प्रस्तुतिः
दिने दिने जगन्नाथ केशवेति समाहितः।
ददाति कार्त्तिके यस्तु विष्ण्वायतनदीपकम् ॥३५॥
मूलम्
दिने दिने जगन्नाथ केशवेति समाहितः।
ददाति कार्त्तिके यस्तु विष्ण्वायतनदीपकम् ॥३५॥
विश्वास-प्रस्तुतिः
जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववस्तुषु।
अव्याहतेन्द्रियत्वं च सम्प्राप्नोति न संशयः ॥३६॥
मूलम्
जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववस्तुषु।
अव्याहतेन्द्रियत्वं च सम्प्राप्नोति न संशयः ॥३६॥
विश्वास-प्रस्तुतिः
शेषकाले च चक्षुष्मान्मेधावी दीपदो नरः।
जायते नरकं वापि तमःसञ्ज्ञं न पश्यति ॥३७॥
मूलम्
शेषकाले च चक्षुष्मान्मेधावी दीपदो नरः।
जायते नरकं वापि तमःसञ्ज्ञं न पश्यति ॥३७॥
विश्वास-प्रस्तुतिः
एकादशीं द्वादशीं वा प्रतिपक्षं च यो नरः।
दीपं ददाति कृष्णाय तस्यापि शृणु यत्फलम् ॥३८॥
मूलम्
एकादशीं द्वादशीं वा प्रतिपक्षं च यो नरः।
दीपं ददाति कृष्णाय तस्यापि शृणु यत्फलम् ॥३८॥
विश्वास-प्रस्तुतिः
सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनम्।
दीपमालाकुलं दिव्यं विमानं सोऽधिरोहति ॥३९॥
मूलम्
सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनम्।
दीपमालाकुलं दिव्यं विमानं सोऽधिरोहति ॥३९॥
तस्मादायतने विष्णोर्दद्याद्दीपं द्विजोत्तम।
विश्वास-प्रस्तुतिः
तांश्च दत्तान्न हिंसेत न च तैलवियोजितान्।
कुर्वीत दीपहर्ता तु मूकोऽन्धो जायते यतः ॥४०॥
मूलम्
तांश्च दत्तान्न हिंसेत न च तैलवियोजितान्।
कुर्वीत दीपहर्ता तु मूकोऽन्धो जायते यतः ॥४०॥
जायते नरकं चापि तपःसञ्ज्ञं स पश्यति।
विश्वास-प्रस्तुतिः
अन्धे तामसि दुष्पारे नरके पतितान्किल।
विक्रोशमानान्क्षुत्क्षामाञ्जगाद यमकिङ्करः ॥४१॥
मूलम्
अन्धे तामसि दुष्पारे नरके पतितान्किल।
विक्रोशमानान्क्षुत्क्षामाञ्जगाद यमकिङ्करः ॥४१॥
विश्वास-प्रस्तुतिः
विलापैरलमत्रापि किं वो विलपिते फलम्।
यदा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ॥४२॥
मूलम्
विलापैरलमत्रापि किं वो विलपिते फलम्।
यदा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ॥४२॥
विश्वास-प्रस्तुतिः
पूर्वमालोचितं नैतत्किमप्यन्ते भविष्यति।
इदानीं यातनाभोगः किं विलापः करिष्यति ॥४३॥
मूलम्
पूर्वमालोचितं नैतत्किमप्यन्ते भविष्यति।
इदानीं यातनाभोगः किं विलापः करिष्यति ॥४३॥
विश्वास-प्रस्तुतिः
देहो दिनानि स्वल्पानि विषयाश्चातिदुर्धराः।
एतत्को न विजानाति येन यूयं प्रमादिनः ॥४४॥
मूलम्
देहो दिनानि स्वल्पानि विषयाश्चातिदुर्धराः।
एतत्को न विजानाति येन यूयं प्रमादिनः ॥४४॥
विश्वास-प्रस्तुतिः
जन्तुजन्मसहस्रेभ्य एतस्मिन्मानुष्यो यदि।
तत्राप्यतिविमूढत्वात्किं भोगानभिधावति ॥४५॥
मूलम्
जन्तुजन्मसहस्रेभ्य एतस्मिन्मानुष्यो यदि।
तत्राप्यतिविमूढत्वात्किं भोगानभिधावति ॥४५॥
विश्वास-प्रस्तुतिः
विरुद्धविषयास्वादमुदितैर्हसितं च यत्।
भवद्भिरागतं दुःखं विलापपरिणामिकम् ॥४६॥
मूलम्
विरुद्धविषयास्वादमुदितैर्हसितं च यत्।
भवद्भिरागतं दुःखं विलापपरिणामिकम् ॥४६॥
विश्वास-प्रस्तुतिः
अद्यकालिकया बुद्ध्या यदागामि न चिन्तितम्।
परितापाय तज्जातं दुःखं कर्मविपाकजम् ॥४७॥
मूलम्
अद्यकालिकया बुद्ध्या यदागामि न चिन्तितम्।
परितापाय तज्जातं दुःखं कर्मविपाकजम् ॥४७॥
विश्वास-प्रस्तुतिः
स्वल्पमायुर्मनुष्याणां तदन्ते परतन्त्रता।
भुज्यते च कृतं पूर्वमेतत्किं वो न चिन्तितम् ॥४८॥
मूलम्
स्वल्पमायुर्मनुष्याणां तदन्ते परतन्त्रता।
भुज्यते च कृतं पूर्वमेतत्किं वो न चिन्तितम् ॥४८॥
विश्वास-प्रस्तुतिः
यदभूत्परदारेषु प्रीतयेऽङ्गकुचादिकम्।
यातनादुःखरूपाय नरके च तदागतम् ॥४९॥
मूलम्
यदभूत्परदारेषु प्रीतयेऽङ्गकुचादिकम्।
यातनादुःखरूपाय नरके च तदागतम् ॥४९॥
विश्वास-प्रस्तुतिः
परदारमनोहारि यद्भवद्भिरगीयत।
हा मात इत्यादि रुतं तदिदानीं विलप्यते ॥५०॥
मूलम्
परदारमनोहारि यद्भवद्भिरगीयत।
हा मात इत्यादि रुतं तदिदानीं विलप्यते ॥५०॥
विश्वास-प्रस्तुतिः
सन्दिग्धपरलोकानामैहिके निहतात्मनाम्।
मृतानां स्वकृतं कर्म पश्चात्तापाय केवलम् ॥५१॥
मूलम्
सन्दिग्धपरलोकानामैहिके निहतात्मनाम्।
मृतानां स्वकृतं कर्म पश्चात्तापाय केवलम् ॥५१॥
विश्वास-प्रस्तुतिः
मुहूर्तार्धसुखास्वादलुब्धानामकृतात्मनाम्।
अनेकवर्षकोटिषु दुःखदं कर्म जायते ॥५२॥
मूलम्
मुहूर्तार्धसुखास्वादलुब्धानामकृतात्मनाम्।
अनेकवर्षकोटिषु दुःखदं कर्म जायते ॥५२॥
विश्वास-प्रस्तुतिः
हा मातस्तात तातेति भवद्भिः किं विलप्यते।
शुभाशुभं निजं कर्म तदद्य ह्यत्र भुज्यते ॥५३॥
मूलम्
हा मातस्तात तातेति भवद्भिः किं विलप्यते।
शुभाशुभं निजं कर्म तदद्य ह्यत्र भुज्यते ॥५३॥
विश्वास-प्रस्तुतिः
पुत्रदारगृहक्षेत्रहिताय सततोद्यताः।
न कुर्वत्नि कथं मूढाः स्वल्पमप्यात्मनो हितम् ॥५४॥
मूलम्
पुत्रदारगृहक्षेत्रहिताय सततोद्यताः।
न कुर्वत्नि कथं मूढाः स्वल्पमप्यात्मनो हितम् ॥५४॥
विश्वास-प्रस्तुतिः
वञ्चितोऽसौ मया लब्धमिदमस्मादुपायतः।
न वेत्ति कश्चिदात्मार्थं वेत्ति प्रक्रमतो नरः ॥५६॥
मूलम्
वञ्चितोऽसौ मया लब्धमिदमस्मादुपायतः।
न वेत्ति कश्चिदात्मार्थं वेत्ति प्रक्रमतो नरः ॥५६॥
विश्वास-प्रस्तुतिः
न वेत्ति सूर्यचन्द्रादीन्कालमात्मानमेव च।
साक्षिभूतानशेषस्य शुभस्येहाशुभस्य च ॥५७॥
मूलम्
न वेत्ति सूर्यचन्द्रादीन्कालमात्मानमेव च।
साक्षिभूतानशेषस्य शुभस्येहाशुभस्य च ॥५७॥
विश्वास-प्रस्तुतिः
जन्मान्यन्यानि जायन्ते पुत्रदारादिदेहिनाम्।
तदर्थं यत्कृतं कर्म तस्य जन्मशतानि तत् ॥५८॥
मूलम्
जन्मान्यन्यानि जायन्ते पुत्रदारादिदेहिनाम्।
तदर्थं यत्कृतं कर्म तस्य जन्मशतानि तत् ॥५८॥
विश्वास-प्रस्तुतिः
अहो मोहस्य माहात्म्यं ममत्वं नरकेष्वपि।
क्रन्दते मातरं तातं पीड्यमानोऽपि यत्स्वयम् ॥५९॥
मूलम्
अहो मोहस्य माहात्म्यं ममत्वं नरकेष्वपि।
क्रन्दते मातरं तातं पीड्यमानोऽपि यत्स्वयम् ॥५९॥
एवमाकृष्टचित्तानां विषयास्वादतर्षुलैः।
विश्वास-प्रस्तुतिः
नॄणां न जायते बुद्धिः परमार्थावलोकिनी।
तथा च विषयासक्तिं करोत्यविरतं मनः ॥६०॥
मूलम्
नॄणां न जायते बुद्धिः परमार्थावलोकिनी।
तथा च विषयासक्तिं करोत्यविरतं मनः ॥६०॥
कोऽतिभारो हरेर्नाम्नि जिह्वायाः परिकीर्तने।
विश्वास-प्रस्तुतिः
वर्तितैलेऽल्पमौल्येऽपि यदग्निर्लभ्यते मुधा।
अतोऽधिकतरो लोभः को वश्चित्तेऽभवत्तदा ॥६२॥
मूलम्
वर्तितैलेऽल्पमौल्येऽपि यदग्निर्लभ्यते मुधा।
अतोऽधिकतरो लोभः को वश्चित्तेऽभवत्तदा ॥६२॥
विश्वास-प्रस्तुतिः
येनेयं तेषु हस्तेषु स्वातन्त्र्ये सति दीपकः।
महाफलो विष्णुगृहे न दत्तो नरकापहः ॥६३॥
मूलम्
येनेयं तेषु हस्तेषु स्वातन्त्र्ये सति दीपकः।
महाफलो विष्णुगृहे न दत्तो नरकापहः ॥६३॥
विश्वास-प्रस्तुतिः
न वो विलपिते किञ्चिदिदानीं दृश्यते फलम्।
अस्वातन्त्र्ये विलपतां स्वातन्त्र्येऽतिप्रमादिनाम् ॥६४॥
मूलम्
न वो विलपिते किञ्चिदिदानीं दृश्यते फलम्।
अस्वातन्त्र्ये विलपतां स्वातन्त्र्येऽतिप्रमादिनाम् ॥६४॥
विश्वास-प्रस्तुतिः
अवश्यम्पातिनः प्राणा भोक्ता जीवो ह्यहर्निशम्।
दत्तं च लभते भोक्ता समये विषयानिति ॥६५॥
मूलम्
अवश्यम्पातिनः प्राणा भोक्ता जीवो ह्यहर्निशम्।
दत्तं च लभते भोक्ता समये विषयानिति ॥६५॥
विश्वास-प्रस्तुतिः
एतत्स्वातन्त्र्यवद्भिर्वो युक्तमासीत्परीक्षितुम्।
इदानीं किं विलापेन सहध्वं यदुपागतम् ॥६६॥
मूलम्
एतत्स्वातन्त्र्यवद्भिर्वो युक्तमासीत्परीक्षितुम्।
इदानीं किं विलापेन सहध्वं यदुपागतम् ॥६६॥
विश्वास-प्रस्तुतिः
यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम्।
तद्भूयोऽपि मतिः पापे न कर्तव्या कथञ्चन ॥६७॥
मूलम्
यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम्।
तद्भूयोऽपि मतिः पापे न कर्तव्या कथञ्चन ॥६७॥
विश्वास-प्रस्तुतिः
कृतेऽपि पापके कर्मण्यज्ञानादघनाशनम्।
कर्तव्यमव्यवस्थितं स्मरद्भिर्मधुसूदनम् ॥६८॥
मूलम्
कृतेऽपि पापके कर्मण्यज्ञानादघनाशनम्।
कर्तव्यमव्यवस्थितं स्मरद्भिर्मधुसूदनम् ॥६८॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
नारकास्तद्वचः श्रुत्वा तामूचुरतिदुःखिताः।
क्षुत्क्षामकण्ठास्तृषया परिस्फुटिततालुकाः ॥६९॥
मूलम्
नारकास्तद्वचः श्रुत्वा तामूचुरतिदुःखिताः।
क्षुत्क्षामकण्ठास्तृषया परिस्फुटिततालुकाः ॥६९॥
विश्वास-प्रस्तुतिः
भो भो साधो कृतं कर्म यदस्माभिस्तदुच्यताम्।
नरकस्थैर्विपाकोऽयं भुज्यते यस्य दारुणः ॥७०॥
मूलम्
भो भो साधो कृतं कर्म यदस्माभिस्तदुच्यताम्।
नरकस्थैर्विपाकोऽयं भुज्यते यस्य दारुणः ॥७०॥
किङ्कर उवाअ।
विश्वास-प्रस्तुतिः
युष्माभिर्यौवनोन्मादमुदितैरविवेकिभिः।
द्यूतोद्योताय गोविन्दगृहाद्दीपः पुरा हृतः ॥७१॥
मूलम्
युष्माभिर्यौवनोन्मादमुदितैरविवेकिभिः।
द्यूतोद्योताय गोविन्दगृहाद्दीपः पुरा हृतः ॥७१॥
विश्वास-प्रस्तुतिः
तेनास्मिन्नरके घोरे क्षुत्तृष्णापरिपीडिताः।
भवन्तः पतितास्तीव्रशीतवातविदारिताः ॥७२॥
मूलम्
तेनास्मिन्नरके घोरे क्षुत्तृष्णापरिपीडिताः।
भवन्तः पतितास्तीव्रशीतवातविदारिताः ॥७२॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एतत्ते दीपदानस्य प्रदीपहरणस्य च।
पुण्यं पापं च कथितं केशवायतने द्विज ॥७३॥
मूलम्
एतत्ते दीपदानस्य प्रदीपहरणस्य च।
पुण्यं पापं च कथितं केशवायतने द्विज ॥७३॥
विश्वास-प्रस्तुतिः
सर्वत्रैव हि दीपस्य प्रदानं द्विज शस्यते।
विशेषेण जगद्धातुः केशवस्य निवेशने ॥७४॥
मूलम्
सर्वत्रैव हि दीपस्य प्रदानं द्विज शस्यते।
विशेषेण जगद्धातुः केशवस्य निवेशने ॥७४॥
विश्वास-प्रस्तुतिः
येऽन्धा मूका निःश्रुता निर्विवेका हीनास्तैस्तैः साधनैर्विप्रवर्य।
तैस्तैर्दीपाः साधुलोकप्रदत्ता देवागारादन्यतो विप्रणीताः ॥७५॥
मूलम्
येऽन्धा मूका निःश्रुता निर्विवेका हीनास्तैस्तैः साधनैर्विप्रवर्य।
तैस्तैर्दीपाः साधुलोकप्रदत्ता देवागारादन्यतो विप्रणीताः ॥७५॥
इति विष्णुधर्मेषु दीपदानविधिर्नाम द्वात्रिंशोऽध्यायः।