अथैकत्रिंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
रूपसम्पत्समाख्याता स्त्रीपुंसां जायते शुभा।
समुपोष्य जगन्नाथं नक्षत्रपुरुषं हरिम् ॥१॥
मूलम्
रूपसम्पत्समाख्याता स्त्रीपुंसां जायते शुभा।
समुपोष्य जगन्नाथं नक्षत्रपुरुषं हरिम् ॥१॥
विश्वास-प्रस्तुतिः
वासोऽतिशोभनं चारुवस्त्राद्याभरणोज्ज्वलम्।
गृहं सर्वगुणोपेतमशेषोपस्करान्वितम् ॥२॥
मूलम्
वासोऽतिशोभनं चारुवस्त्राद्याभरणोज्ज्वलम्।
गृहं सर्वगुणोपेतमशेषोपस्करान्वितम् ॥२॥
विश्वास-प्रस्तुतिः
कर्मणा येन विप्रर्षे तोषितो मधुसूदनः।
ददाति भगवान्कर्म तन्नो विस्तरतो वद ॥३॥
मूलम्
कर्मणा येन विप्रर्षे तोषितो मधुसूदनः।
ददाति भगवान्कर्म तन्नो विस्तरतो वद ॥३॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
यन्मां पृच्छसि दाल्भ्य त्वं गृहोपस्करभूषणम्।
नराणां जायते येन तत्सर्वं कथयामि ते ॥४॥
मूलम्
यन्मां पृच्छसि दाल्भ्य त्वं गृहोपस्करभूषणम्।
नराणां जायते येन तत्सर्वं कथयामि ते ॥४॥
विश्वास-प्रस्तुतिः
नन्दा भद्राजया रिक्ता पूर्णा च द्विजसत्तम।
तिथयो वै समाख्याताः प्रतिपत्क्रमसञ्ज्ञया ॥५॥
मूलम्
नन्दा भद्राजया रिक्ता पूर्णा च द्विजसत्तम।
तिथयो वै समाख्याताः प्रतिपत्क्रमसञ्ज्ञया ॥५॥
विश्वास-प्रस्तुतिः
पञ्चमी दशमी चैव तथा पञ्चदशी तिथिः।
पूर्णा एताः समाख्यातास्तिथयो मुनिसत्तम ॥६॥
मूलम्
पञ्चमी दशमी चैव तथा पञ्चदशी तिथिः।
पूर्णा एताः समाख्यातास्तिथयो मुनिसत्तम ॥६॥
विश्वास-प्रस्तुतिः
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा।
ष्णोरायतने तासु यः करोत्युपलेपनम् ॥७॥
मूलम्
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा।
ष्णोरायतने तासु यः करोत्युपलेपनम् ॥७॥
विश्वास-प्रस्तुतिः
प्रवातावातगुणवद्वर्षास्वतिमनोरमम्।
अनुलिप्तं शुभाकारं सुगृहं लभते मुने ॥८॥
मूलम्
प्रवातावातगुणवद्वर्षास्वतिमनोरमम्।
अनुलिप्तं शुभाकारं सुगृहं लभते मुने ॥८॥
विश्वास-प्रस्तुतिः
पूर्णं धान्यहिरण्याद्यैर्मणिमुक्ताफलोज्ज्वलम्।
प्रत्यासन्नजलाभोगं गृहमाप्नोति शोभनम् ॥९॥
मूलम्
पूर्णं धान्यहिरण्याद्यैर्मणिमुक्ताफलोज्ज्वलम्।
प्रत्यासन्नजलाभोगं गृहमाप्नोति शोभनम् ॥९॥
विश्वास-प्रस्तुतिः
साम्नतस्वजनानां यत्सर्वेषामुत्तमोत्तमम्।
तदाप्नोति गृहं ब्रह्मन्ननुलेपनकृन्नरः ॥१०॥
मूलम्
साम्नतस्वजनानां यत्सर्वेषामुत्तमोत्तमम्।
तदाप्नोति गृहं ब्रह्मन्ननुलेपनकृन्नरः ॥१०॥
येनानुलिप्ते तिष्ठन्ति विष्ण्वायतनभूतले।
विश्वास-प्रस्तुतिः
ब्राह्मणक्षत्रियविशः शूद्राः साध्व्यस्तथा स्त्रियः।
तस्य पूण्यफलं दाल्भ्य श्रूयतां यत्प्रजायते ॥११॥
मूलम्
ब्राह्मणक्षत्रियविशः शूद्राः साध्व्यस्तथा स्त्रियः।
तस्य पूण्यफलं दाल्भ्य श्रूयतां यत्प्रजायते ॥११॥
विश्वास-प्रस्तुतिः
अप्सरोगणसङ्कीर्णं मुक्ताहारगणोज्ज्वलम्।
श्रेष्ठं सर्वविमानानां स्वर्गे धिष्ण्यमवाप्नुते ॥१२॥
मूलम्
अप्सरोगणसङ्कीर्णं मुक्ताहारगणोज्ज्वलम्।
श्रेष्ठं सर्वविमानानां स्वर्गे धिष्ण्यमवाप्नुते ॥१२॥
विश्वास-प्रस्तुतिः
यावत्यस्तिथयो लिप्तं दिव्याब्दांस्तावतो द्विज।
तस्मिन्विमाने स नरः स्त्री वा तिष्ठति सत्तम ॥१३॥
मूलम्
यावत्यस्तिथयो लिप्तं दिव्याब्दांस्तावतो द्विज।
तस्मिन्विमाने स नरः स्त्री वा तिष्ठति सत्तम ॥१३॥
विश्वास-प्रस्तुतिः
सुगन्धगन्धसद्वस्त्रसर्वभूषणभूषितः।
गन्धर्वाप्सरसां सम्भैः पूज्यमानः स तिष्ठति ॥१४॥
मूलम्
सुगन्धगन्धसद्वस्त्रसर्वभूषणभूषितः।
गन्धर्वाप्सरसां सम्भैः पूज्यमानः स तिष्ठति ॥१४॥
विश्वास-प्रस्तुतिः
लिप्तं च यावतो हस्तान्विष्णोरायतनं द्विज।
तावद्योजनविस्तीर्णस्वर्गस्थानाधिपो हि सः ॥१५॥
मूलम्
लिप्तं च यावतो हस्तान्विष्णोरायतनं द्विज।
तावद्योजनविस्तीर्णस्वर्गस्थानाधिपो हि सः ॥१५॥
विश्वास-प्रस्तुतिः
पूज्यमानः सुरगणैः शीतोष्णादिविवर्जितः।
मनोज्ञगात्रो विप्रेन्द्रस्तिष्ठत्यस्ताघसंहतिः ॥१६॥
मूलम्
पूज्यमानः सुरगणैः शीतोष्णादिविवर्जितः।
मनोज्ञगात्रो विप्रेन्द्रस्तिष्ठत्यस्ताघसंहतिः ॥१६॥
विश्वास-प्रस्तुतिः
च्युतस्तस्मादिहागम्य विशिष्टे जायते कुले।
ततोऽस्य सद्गृहवरं मर्त्यलोकेऽभिजायते ॥१७॥
मूलम्
च्युतस्तस्मादिहागम्य विशिष्टे जायते कुले।
ततोऽस्य सद्गृहवरं मर्त्यलोकेऽभिजायते ॥१७॥
विश्वास-प्रस्तुतिः
न तत्र तावद्दारिद्रयं! नोपसर्गा न वा कलिः।
न चापि मृतनिष्क्रान्तिर्यावज्जीवत्यसौ द्विज ॥१८॥
मूलम्
न तत्र तावद्दारिद्रयं! नोपसर्गा न वा कलिः।
न चापि मृतनिष्क्रान्तिर्यावज्जीवत्यसौ द्विज ॥१८॥
विश्वास-प्रस्तुतिः
विष्णुः समस्तभूतानि ससर्जैतानि यानि वै।
तेषां मध्ये जगद्धातुरतीवेष्टा वसुन्धरा ॥१९॥
मूलम्
विष्णुः समस्तभूतानि ससर्जैतानि यानि वै।
तेषां मध्ये जगद्धातुरतीवेष्टा वसुन्धरा ॥१९॥
विश्वास-प्रस्तुतिः
कृते सम्मार्जने तस्यास्तथैवोपरिलेपने।
प्रयाति परमं तोषं वैष्णवीयं मही यतः ॥२०॥
मूलम्
कृते सम्मार्जने तस्यास्तथैवोपरिलेपने।
प्रयाति परमं तोषं वैष्णवीयं मही यतः ॥२०॥
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
ब्रह्मन्येन विधानेन देवागारोपलेपलम्।
कर्तव्यं पुरुषैः सम्यक् स्त्रीभिर्वा तदुदीरय ॥२१॥
मूलम्
ब्रह्मन्येन विधानेन देवागारोपलेपलम्।
कर्तव्यं पुरुषैः सम्यक् स्त्रीभिर्वा तदुदीरय ॥२१॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
रिक्तायास्तु तिथेर्मध्ये कुर्यात्सङ्कल्पमात्मनः।
उपलेपनकृद्विप्रो विष्णोरायतने भुवि ॥२२॥
मूलम्
रिक्तायास्तु तिथेर्मध्ये कुर्यात्सङ्कल्पमात्मनः।
उपलेपनकृद्विप्रो विष्णोरायतने भुवि ॥२२॥
विश्वास-प्रस्तुतिः
द्वितीयेऽह्नि ततो देवं प्रणम्य यतमानसः।
धरणीपितरं विष्णुमिदं वाक्यमुदीरयेत् ॥२३॥
मूलम्
द्वितीयेऽह्नि ततो देवं प्रणम्य यतमानसः।
धरणीपितरं विष्णुमिदं वाक्यमुदीरयेत् ॥२३॥
विश्वास-प्रस्तुतिः
त्वं सर्वभूतप्रभवो जगत्पते त्वय्येतदीशेश जगत्प्रतिष्ठितम्।
त्वमेव भूतानि यतस्ततोऽहं त्वां पूजयाम्यद्य महीस्वरूपम् ॥२४॥
मूलम्
त्वं सर्वभूतप्रभवो जगत्पते त्वय्येतदीशेश जगत्प्रतिष्ठितम्।
त्वमेव भूतानि यतस्ततोऽहं त्वां पूजयाम्यद्य महीस्वरूपम् ॥२४॥
विश्वास-प्रस्तुतिः
त्वं मही जगतां नाथ सर्वनाथ नमोऽस्तु ते।
शुश्रूषितः प्रसीदेश भुवो लेपनकर्मणा ॥२५॥
मूलम्
त्वं मही जगतां नाथ सर्वनाथ नमोऽस्तु ते।
शुश्रूषितः प्रसीदेश भुवो लेपनकर्मणा ॥२५॥
इत्युच्चार्य क्षितौ क्षिप्त्वा प्रथमं धारनीतले।
विश्वास-प्रस्तुतिः
पुष्पाणि वा द्विजश्रेष्ठ यः करोत्यनुलेपनम्।
न तस्य जायते भङ्गो गार्हस्थ्यस्य कदाचन ॥२६॥
मूलम्
पुष्पाणि वा द्विजश्रेष्ठ यः करोत्यनुलेपनम्।
न तस्य जायते भङ्गो गार्हस्थ्यस्य कदाचन ॥२६॥
विश्वास-प्रस्तुतिः
या च नारी करोत्येवं यथावदनुलेपनम्।
नाप्नोति सा च वैधव्यं गृहभङ्गं कदाचन ॥२७॥
मूलम्
या च नारी करोत्येवं यथावदनुलेपनम्।
नाप्नोति सा च वैधव्यं गृहभङ्गं कदाचन ॥२७॥
विश्वास-प्रस्तुतिः
कृत्वोपलेपनं भूयः प्रणिपत्य जनार्दनम्।
स्नातो विष्णुं समभ्यर्च्य इदं वाक्यमुदीरयेत् ॥२८॥
मूलम्
कृत्वोपलेपनं भूयः प्रणिपत्य जनार्दनम्।
स्नातो विष्णुं समभ्यर्च्य इदं वाक्यमुदीरयेत् ॥२८॥
विश्वास-प्रस्तुतिः
प्रसीद भूधरानन्त मया यदुपलेपनम्।
कृतं तेन समस्तं मे नाशमभ्येतु पातकम् ॥२९॥
मूलम्
प्रसीद भूधरानन्त मया यदुपलेपनम्।
कृतं तेन समस्तं मे नाशमभ्येतु पातकम् ॥२९॥
विश्वास-प्रस्तुतिः
एवं सम्पूज्य भुईयादपराह्ने द्विजोत्तम।
स्वनुलिप्ते महाभागे भुक्त्वा लिम्पेच्च तत्पुनः ॥३०॥
मूलम्
एवं सम्पूज्य भुईयादपराह्ने द्विजोत्तम।
स्वनुलिप्ते महाभागे भुक्त्वा लिम्पेच्च तत्पुनः ॥३०॥
विश्वास-प्रस्तुतिः
पक्षे पक्षे त्रिरात्रं तु यः करोत्युपलेपनम्।
सर्वपापविनिर्मुक्तः स्वर्गं गच्छत्यसंशयम् ॥३१॥
मूलम्
पक्षे पक्षे त्रिरात्रं तु यः करोत्युपलेपनम्।
सर्वपापविनिर्मुक्तः स्वर्गं गच्छत्यसंशयम् ॥३१॥
विश्वास-प्रस्तुतिः
तत्क्षयात्स्वर्गेलोके तु जातो गृहवरं यथा।
समाप्नोति यथाख्यातं तत्सर्वं तव सत्तम ॥३२॥
मूलम्
तत्क्षयात्स्वर्गेलोके तु जातो गृहवरं यथा।
समाप्नोति यथाख्यातं तत्सर्वं तव सत्तम ॥३२॥
विश्वास-प्रस्तुतिः
सर्वाभरणसम्पूर्णं सर्वोपस्करधान्यवत्।
गोमहिष्यादिसम्भोगं गृहमाप्नोति मानवः ॥३३॥
मूलम्
सर्वाभरणसम्पूर्णं सर्वोपस्करधान्यवत्।
गोमहिष्यादिसम्भोगं गृहमाप्नोति मानवः ॥३३॥
विश्वास-प्रस्तुतिः
तस्मादभीप्सता सम्यग्गार्हस्थ्यमविखण्डितम्।
विष्णोरायतने कार्यं सर्वदैवोपलेपनम् ॥३४॥
मूलम्
तस्मादभीप्सता सम्यग्गार्हस्थ्यमविखण्डितम्।
विष्णोरायतने कार्यं सर्वदैवोपलेपनम् ॥३४॥
सप्तद्वीपवतीं कृत्स्नां यथेन्द्रस्त्रिदिवं तथा।
विश्वास-प्रस्तुतिः
अल्पोपलेपनाद्यस्य मान्धाता सकलां महीम्।
अवाप विष्ण्वायतनं नोपलिम्पेत को हि तत् ॥३५॥
मूलम्
अल्पोपलेपनाद्यस्य मान्धाता सकलां महीम्।
अवाप विष्ण्वायतनं नोपलिम्पेत को हि तत् ॥३५॥
इति विष्णुधर्मेषु देवगृहलेपनविधिः।