०३०

अथ त्रिंशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

सर्वकामानवाप्नोति समाराध्य जनार्दनम्।
प्रकारैर्बहुभिर्ब्रह्मन्यान्यानिच्छति चेतसा ॥१॥

मूलम्

सर्वकामानवाप्नोति समाराध्य जनार्दनम्।
प्रकारैर्बहुभिर्ब्रह्मन्यान्यानिच्छति चेतसा ॥१॥

विश्वास-प्रस्तुतिः

नॄणां स्त्रीणां च विप्रर्षे नान्यच्छोकस्य कारणम्।
अपत्यादधिकं किञ्चिद्विद्यते ह्यत्र जन्मनि ॥२॥

मूलम्

नॄणां स्त्रीणां च विप्रर्षे नान्यच्छोकस्य कारणम्।
अपत्यादधिकं किञ्चिद्विद्यते ह्यत्र जन्मनि ॥२॥

विश्वास-प्रस्तुतिः

अपुत्रता महद्दुःखमतिदुःखं कुपुत्रता।
अपुत्रः सर्वदुःखानां हेतुभूतो मतो मम ॥३॥

मूलम्

अपुत्रता महद्दुःखमतिदुःखं कुपुत्रता।
अपुत्रः सर्वदुःखानां हेतुभूतो मतो मम ॥३॥

विश्वास-प्रस्तुतिः

धन्यास्ते ये सुतं प्राप्य सर्वदुःखविवर्जितम्।
शस्तं प्रशान्तं बलिनं परां निर्वृतिमागताः ॥४॥

मूलम्

धन्यास्ते ये सुतं प्राप्य सर्वदुःखविवर्जितम्।
शस्तं प्रशान्तं बलिनं परां निर्वृतिमागताः ॥४॥

विश्वास-प्रस्तुतिः

स्वकर्मनिरतं नित्यं देवद्विजपरायणम्।
शास्त्रज्ञं धर्मतत्त्वज्ञं दीनानाथजनाश्रयम् ॥५॥

मूलम्

स्वकर्मनिरतं नित्यं देवद्विजपरायणम्।
शास्त्रज्ञं धर्मतत्त्वज्ञं दीनानाथजनाश्रयम् ॥५॥

विश्वास-प्रस्तुतिः

विनिर्जितारिं सर्वस्य मनोहृदयनन्दनम्।
देवानुकूलतायुक्तं युक्तं सम्यग्गुणेन च ॥६॥

मूलम्

विनिर्जितारिं सर्वस्य मनोहृदयनन्दनम्।
देवानुकूलतायुक्तं युक्तं सम्यग्गुणेन च ॥६॥

विश्वास-प्रस्तुतिः

मित्रस्वजनसम्मानलब्धनिर्वाणमुत्तमम्।
यः प्राप्नोति सुतं तस्मान्नान्यो धन्यतरो भुवि ॥७॥

मूलम्

मित्रस्वजनसम्मानलब्धनिर्वाणमुत्तमम्।
यः प्राप्नोति सुतं तस्मान्नान्यो धन्यतरो भुवि ॥७॥

विश्वास-प्रस्तुतिः

सोऽहमिच्छामि तच्छ्रोतुं त्वत्तः कर्म महामुने।
येनेदृग्लक्षणः पुत्रः प्राप्यते भुवि मानवैः ॥८॥

मूलम्

सोऽहमिच्छामि तच्छ्रोतुं त्वत्तः कर्म महामुने।
येनेदृग्लक्षणः पुत्रः प्राप्यते भुवि मानवैः ॥८॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

एवमेतन्महाभाग पित्रोः पुत्रसमुद्भवम्।
दुःखं प्रयात्युपशमं तेन येनेह केनचित् ॥९॥

मूलम्

एवमेतन्महाभाग पित्रोः पुत्रसमुद्भवम्।
दुःखं प्रयात्युपशमं तेन येनेह केनचित् ॥९॥

विश्वास-प्रस्तुतिः

अत्रापि श्रूयतां वृत्तं यत्पूर्वमभवन्मुने।
उत्पत्तौ कार्तवीर्यस्य हैहयस्य महात्मनः ॥१०॥

मूलम्

अत्रापि श्रूयतां वृत्तं यत्पूर्वमभवन्मुने।
उत्पत्तौ कार्तवीर्यस्य हैहयस्य महात्मनः ॥१०॥

कृतवीर्यो महीपालो हैहयानामभूत्पुरा।

विश्वास-प्रस्तुतिः

तस्य शीलधना नाम बभूव वरवर्णिनी।
पत्नी सहस्रप्रवरा महिषी शीलमण्डना ॥११॥

मूलम्

तस्य शीलधना नाम बभूव वरवर्णिनी।
पत्नी सहस्रप्रवरा महिषी शीलमण्डना ॥११॥

विश्वास-प्रस्तुतिः

सा त्वपुत्रा महाभागा मैत्रेयीं पर्यपृच्छत।
गुणवत्पुत्रलाभाय कृतासनपरिग्रहाम् ॥१२॥

मूलम्

सा त्वपुत्रा महाभागा मैत्रेयीं पर्यपृच्छत।
गुणवत्पुत्रलाभाय कृतासनपरिग्रहाम् ॥१२॥

विश्वास-प्रस्तुतिः

तया च पृष्टा वै सम्यग्मैत्रेयी ब्रह्मवादिनी।
कथयामास परमं नाम्नानन्तव्रतं व्रतम् ॥१३॥

मूलम्

तया च पृष्टा वै सम्यग्मैत्रेयी ब्रह्मवादिनी।
कथयामास परमं नाम्नानन्तव्रतं व्रतम् ॥१३॥

विश्वास-प्रस्तुतिः

सर्वकामफलावाप्तिकारकं पापनाशनम्।
तस्याः सा पुत्रलाभाय राजपुत्रास्तपस्विनी ॥१४॥

मूलम्

सर्वकामफलावाप्तिकारकं पापनाशनम्।
तस्याः सा पुत्रलाभाय राजपुत्रास्तपस्विनी ॥१४॥

मैत्रेय्युवाच।

विश्वास-प्रस्तुतिः

योऽयमिच्छेन्नरः कामं नारी वा वरवर्णिनि।
स तं समाराध्य विभुं समाप्नोति जनार्दनम् ॥१५॥

मूलम्

योऽयमिच्छेन्नरः कामं नारी वा वरवर्णिनि।
स तं समाराध्य विभुं समाप्नोति जनार्दनम् ॥१५॥

विश्वास-प्रस्तुतिः

मार्गशीर्षे मृगशिरो भीरु यस्मिन्दिने भवेत्।
तस्मिन्सम्प्राश्य गोमूत्रं स्नातो नियतमानसः ॥१६॥

मूलम्

मार्गशीर्षे मृगशिरो भीरु यस्मिन्दिने भवेत्।
तस्मिन्सम्प्राश्य गोमूत्रं स्नातो नियतमानसः ॥१६॥

विश्वास-प्रस्तुतिः

पुष्पैर्धूपैस्तथा गन्धैरुपहारैः स्वशक्तितः।
वामपादमनन्तस्य पूजयेद्वरवर्णिनि ॥१७॥

मूलम्

पुष्पैर्धूपैस्तथा गन्धैरुपहारैः स्वशक्तितः।
वामपादमनन्तस्य पूजयेद्वरवर्णिनि ॥१७॥

विश्वास-प्रस्तुतिः

अनन्तः सर्वकामानामनन्तं भगवान्फलम्।
ददात्वनन्तं च पुनस्तदेवास्त्वन्यजन्मनि ॥१८॥

मूलम्

अनन्तः सर्वकामानामनन्तं भगवान्फलम्।
ददात्वनन्तं च पुनस्तदेवास्त्वन्यजन्मनि ॥१८॥

विश्वास-प्रस्तुतिः

अनन्तपुण्योपचयं करोत्येतन्महाव्रतम्।
यथाभिलषितावाप्तिं कुर्वन्मा क्षयमेतु च ॥१९॥

मूलम्

अनन्तपुण्योपचयं करोत्येतन्महाव्रतम्।
यथाभिलषितावाप्तिं कुर्वन्मा क्षयमेतु च ॥१९॥

विश्वास-प्रस्तुतिः

इत्युच्चार्याभिपूज्यैनं यथावद्विधिना नरः।
समाहितमना भूत्वा प्रणिपातपुरःसरम् ॥२०॥

मूलम्

इत्युच्चार्याभिपूज्यैनं यथावद्विधिना नरः।
समाहितमना भूत्वा प्रणिपातपुरःसरम् ॥२०॥

विश्वास-प्रस्तुतिः

विप्राय दक्षिणां दद्यादनन्तः प्रीयतामिति।
समुच्चार्य ततो नक्तं भुञ्जीयात्तैलवर्जितम् ॥२१॥

मूलम्

विप्राय दक्षिणां दद्यादनन्तः प्रीयतामिति।
समुच्चार्य ततो नक्तं भुञ्जीयात्तैलवर्जितम् ॥२१॥

विश्वास-प्रस्तुतिः

ततश्च पौषे पुष्यर्क्षे तथैव भगवत्कटिम्।
वामामभ्यर्चयेत्कृत्वा गोमूत्रप्राशनं बुधः ॥२२॥

मूलम्

ततश्च पौषे पुष्यर्क्षे तथैव भगवत्कटिम्।
वामामभ्यर्चयेत्कृत्वा गोमूत्रप्राशनं बुधः ॥२२॥

विश्वास-प्रस्तुतिः

अनन्तः सर्वकामानामिति चोच्चारयेद्बुधः।
भुञ्जीत च तथा विप्रं वाचयित्वा यथाविधि ॥२३॥

मूलम्

अनन्तः सर्वकामानामिति चोच्चारयेद्बुधः।
भुञ्जीत च तथा विप्रं वाचयित्वा यथाविधि ॥२३॥

विश्वास-प्रस्तुतिः

माघे मघासु तद्वच्च बाहुं देवस्य पूजयेत्।
स्कन्धं च फल्गुनीयोगे फाल्गुने मासि भामिनि ॥२४॥

मूलम्

माघे मघासु तद्वच्च बाहुं देवस्य पूजयेत्।
स्कन्धं च फल्गुनीयोगे फाल्गुने मासि भामिनि ॥२४॥

चतुर्ष्वेतेषु गोमूत्रप्राशनं नृपनन्दिनि।
ब्राह्मणाय तथा दद्यात्तिलान्कनकमेव च।

विश्वास-प्रस्तुतिः

देवस्य दक्षिणस्कन्धं चैत्रे चित्रासु पूजयेत्।
तथैव प्राशनं चात्र पञ्चगव्यमुदाहृतम् ॥२६॥

मूलम्

देवस्य दक्षिणस्कन्धं चैत्रे चित्रासु पूजयेत्।
तथैव प्राशनं चात्र पञ्चगव्यमुदाहृतम् ॥२६॥

विश्वास-प्रस्तुतिः

विप्रे वाचनके दद्याद्यावन्मासचतुष्टयम्।
वैशाखे च विशाखासु बाहुं सम्पूज्य दक्षिणम् ॥२७॥

मूलम्

विप्रे वाचनके दद्याद्यावन्मासचतुष्टयम्।
वैशाखे च विशाखासु बाहुं सम्पूज्य दक्षिणम् ॥२७॥

विश्वास-प्रस्तुतिः

तथैवोक्तयवान्दद्यात्तद्वन्नक्तं भुजिक्रिया।
कटिपूजां च ज्येष्ठासु ज्येष्ठमूले शुभव्रते ॥२८॥

मूलम्

तथैवोक्तयवान्दद्यात्तद्वन्नक्तं भुजिक्रिया।
कटिपूजां च ज्येष्ठासु ज्येष्ठमूले शुभव्रते ॥२८॥

विश्वास-प्रस्तुतिः

आषाढासु तथाषाढे कुर्यात्पादार्चनं शुभे।
पदद्वयं च श्रवणे श्रावणे सुभ्रु पूजयेत् ॥२९॥

मूलम्

आषाढासु तथाषाढे कुर्यात्पादार्चनं शुभे।
पदद्वयं च श्रवणे श्रावणे सुभ्रु पूजयेत् ॥२९॥

विश्वास-प्रस्तुतिः

घृतं विप्राय दातव्यं प्राशनीयं तथा दधि।
कार्त्तिकान्तेषु मासेषु प्राशनं दानमेव च ॥३०॥

मूलम्

घृतं विप्राय दातव्यं प्राशनीयं तथा दधि।
कार्त्तिकान्तेषु मासेषु प्राशनं दानमेव च ॥३०॥

एतदेव समाख्यातं देवं तद्वच्च पूजयेत्।

विश्वास-प्रस्तुतिः

गुह्यं प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत्।
तद्वदाश्वयुजे पूज्यं हृदयं चाश्विनीषु वै ॥३१॥

मूलम्

गुह्यं प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत्।
तद्वदाश्वयुजे पूज्यं हृदयं चाश्विनीषु वै ॥३१॥

विश्वास-प्रस्तुतिः

कुर्यात्समाहितमनाः स्नानप्राशनशौचवान्।
अनन्तशिरसः पूजां कार्त्तिके कृत्तिकासु च ॥३२॥

मूलम्

कुर्यात्समाहितमनाः स्नानप्राशनशौचवान्।
अनन्तशिरसः पूजां कार्त्तिके कृत्तिकासु च ॥३२॥

विश्वास-प्रस्तुतिः

यस्मिन्यस्मिन्दिने पूजा तत्र तत्र तदा दिने।
नामानन्तस्य जप्तव्यं क्षुतप्रस्खलितादिषु ॥३३॥

मूलम्

यस्मिन्यस्मिन्दिने पूजा तत्र तत्र तदा दिने।
नामानन्तस्य जप्तव्यं क्षुतप्रस्खलितादिषु ॥३३॥

विश्वास-प्रस्तुतिः

घृतेनानन्तमुद्दिश्य पूर्वमासचतुष्टयम्।
कुर्वीत होमं चैत्रादौ शालिना कुलनन्दिनि ॥३४॥

मूलम्

घृतेनानन्तमुद्दिश्य पूर्वमासचतुष्टयम्।
कुर्वीत होमं चैत्रादौ शालिना कुलनन्दिनि ॥३४॥

विश्वास-प्रस्तुतिः

क्षीरेण श्रावणादौ तु होमं मासचतुष्टयम्।
शस्तं तु सर्वमासेषु हविष्यान्नं च भोजनम् ॥३५॥

मूलम्

क्षीरेण श्रावणादौ तु होमं मासचतुष्टयम्।
शस्तं तु सर्वमासेषु हविष्यान्नं च भोजनम् ॥३५॥

विश्वास-प्रस्तुतिः

एवं द्वादशभिर्मासैः पारणं त्रितयं शुभे।
पारिते समवाप्नोति सर्वानेव मनोरथान् ॥३६॥

मूलम्

एवं द्वादशभिर्मासैः पारणं त्रितयं शुभे।
पारिते समवाप्नोति सर्वानेव मनोरथान् ॥३६॥

विश्वास-प्रस्तुतिः

पुत्रार्थिभिर्वित्तकामैर्भृत्यदारानभीप्सुभिः।
प्रार्थयद्भिश्च कर्तव्यमारोग्यबलसम्पदम् ॥३७॥

मूलम्

पुत्रार्थिभिर्वित्तकामैर्भृत्यदारानभीप्सुभिः।
प्रार्थयद्भिश्च कर्तव्यमारोग्यबलसम्पदम् ॥३७॥

विश्वास-प्रस्तुतिः

एतद्व्रतं महाभागे पुण्यं स्वस्त्ययनप्रदम्।
अनन्तव्रतसञ्ज्ञं वै सर्वपापप्रणाशनम् ॥३८॥

मूलम्

एतद्व्रतं महाभागे पुण्यं स्वस्त्ययनप्रदम्।
अनन्तव्रतसञ्ज्ञं वै सर्वपापप्रणाशनम् ॥३८॥

विश्वास-प्रस्तुतिः

तत्कुरुष्वैव देवि त्वं व्रतं शीलधने वरम्।
विशिष्टं सर्वलोकस्य यदि पुत्रमभीप्ससि ॥३९॥

मूलम्

तत्कुरुष्वैव देवि त्वं व्रतं शीलधने वरम्।
विशिष्टं सर्वलोकस्य यदि पुत्रमभीप्ससि ॥३९॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

इति शीलधना श्रुत्वा मैत्रेयीवचनं शुभम्।
चचारैतद्व्रतवरं सुसमाहितमानसा ॥४०॥

मूलम्

इति शीलधना श्रुत्वा मैत्रेयीवचनं शुभम्।
चचारैतद्व्रतवरं सुसमाहितमानसा ॥४०॥

विश्वास-प्रस्तुतिः

पुत्रार्थिन्यास्ततस्तस्या व्रतेनानेन सुव्रत।
विष्णुस्तुतोष तुष्टे च विष्णौ सा सुषुवे सुतम् ॥४१॥

मूलम्

पुत्रार्थिन्यास्ततस्तस्या व्रतेनानेन सुव्रत।
विष्णुस्तुतोष तुष्टे च विष्णौ सा सुषुवे सुतम् ॥४१॥

विश्वास-प्रस्तुतिः

तस्य वै जातमात्रस्य प्रववावनिलः शिवः।
नीरजस्कमभूद्व्योम मुदं प्रापाखिलं जगत् ॥४२॥

मूलम्

तस्य वै जातमात्रस्य प्रववावनिलः शिवः।
नीरजस्कमभूद्व्योम मुदं प्रापाखिलं जगत् ॥४२॥

देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च।

विश्वास-प्रस्तुतिः

प्रजगुर्दिवि गन्धर्वा ननृतुश्चाप्सरोगणाः।
धर्मे मनः समस्तस्य दाल्भ्य लोकस्य चाभवत् ॥४३॥

मूलम्

प्रजगुर्दिवि गन्धर्वा ननृतुश्चाप्सरोगणाः।
धर्मे मनः समस्तस्य दाल्भ्य लोकस्य चाभवत् ॥४३॥

विश्वास-प्रस्तुतिः

तस्य नाम पिता चक्रे तनयस्यार्जुनेति वै।
कृतवीर्यसुतत्वाच्च कार्तवीर्यो बभूव सः ॥४४॥

मूलम्

तस्य नाम पिता चक्रे तनयस्यार्जुनेति वै।
कृतवीर्यसुतत्वाच्च कार्तवीर्यो बभूव सः ॥४४॥

विश्वास-प्रस्तुतिः

तेनापि भगवान्विष्णुर्दत्तात्रेयस्वरूपवान्।
आराधितोऽतिमहता तपसा दाल्भ्य भूभृता ॥४५॥

मूलम्

तेनापि भगवान्विष्णुर्दत्तात्रेयस्वरूपवान्।
आराधितोऽतिमहता तपसा दाल्भ्य भूभृता ॥४५॥

विश्वास-प्रस्तुतिः

तस्य तुष्टो जगन्नाथश्चक्रवर्तित्वमुत्तमम्।
ददौ शौर्यबले चातिसकलान्यायुधानि च ॥४६॥

मूलम्

तस्य तुष्टो जगन्नाथश्चक्रवर्तित्वमुत्तमम्।
ददौ शौर्यबले चातिसकलान्यायुधानि च ॥४६॥

स च वव्रे वरं देव वधस्त्वत्तो भवेदिति।

विश्वास-प्रस्तुतिः

पुरानुस्मरणं ज्ञानं भीतानां चार्तिनाशनम्।
स्मरणादुपकारित्वं जगतोऽस्य जगत्पते ॥४७॥

मूलम्

पुरानुस्मरणं ज्ञानं भीतानां चार्तिनाशनम्।
स्मरणादुपकारित्वं जगतोऽस्य जगत्पते ॥४७॥

विश्वास-प्रस्तुतिः

तमाह देवदेवेशः पुण्डरीकनिभेक्षणः।
सर्वमेतन्महाभाग तव भूप भविष्यति ॥४८॥

मूलम्

तमाह देवदेवेशः पुण्डरीकनिभेक्षणः।
सर्वमेतन्महाभाग तव भूप भविष्यति ॥४८॥

यश्च प्रभाते रात्रौ च त्वां नरः कीर्तयिष्यति।

विश्वास-प्रस्तुतिः

नमोऽस्तु कार्तवीर्यायेत्यभिधास्यति चैव यः।
तिलप्रस्थप्रदानस्य स नरः पुण्यमाप्स्यति ॥४९॥

मूलम्

नमोऽस्तु कार्तवीर्यायेत्यभिधास्यति चैव यः।
तिलप्रस्थप्रदानस्य स नरः पुण्यमाप्स्यति ॥४९॥

विश्वास-प्रस्तुतिः

अनष्टद्रव्यता चैव तव नामाभिकीर्तनैः।
भविष्यति महीपालेत्युक्त्वा तं प्रययौ हरिः ॥५०॥

मूलम्

अनष्टद्रव्यता चैव तव नामाभिकीर्तनैः।
भविष्यति महीपालेत्युक्त्वा तं प्रययौ हरिः ॥५०॥

विश्वास-प्रस्तुतिः

स चापि वरमासाद्य प्रसन्नाद्गरुडध्वजात्।
पालयामास भूपालः सप्तद्वीपां वसुन्धराम् ॥५१॥

मूलम्

स चापि वरमासाद्य प्रसन्नाद्गरुडध्वजात्।
पालयामास भूपालः सप्तद्वीपां वसुन्धराम् ॥५१॥

विश्वास-प्रस्तुतिः

तेनेष्टं विविधैर्यज्ञैः समाप्तवरदक्षिणैः।
जित्वारिवर्गमखिलं धर्मतः पालिताः प्रजाः ॥५२॥

मूलम्

तेनेष्टं विविधैर्यज्ञैः समाप्तवरदक्षिणैः।
जित्वारिवर्गमखिलं धर्मतः पालिताः प्रजाः ॥५२॥

विश्वास-प्रस्तुतिः

अनन्तव्रतमाहात्म्यादासाद्य तनयं च तम्।
पित्रोः पुत्रोद्भवं दुःखं नासीत्स्वल्पमपि द्विज ॥५३॥

मूलम्

अनन्तव्रतमाहात्म्यादासाद्य तनयं च तम्।
पित्रोः पुत्रोद्भवं दुःखं नासीत्स्वल्पमपि द्विज ॥५३॥

विश्वास-प्रस्तुतिः

एवमेतत्समाख्यातमनन्ताख्यं व्रतं तव।
यच्चीर्त्वा राजपत्नी सा कार्तवीर्यमसूयत ॥५४॥

मूलम्

एवमेतत्समाख्यातमनन्ताख्यं व्रतं तव।
यच्चीर्त्वा राजपत्नी सा कार्तवीर्यमसूयत ॥५४॥

विश्वास-प्रस्तुतिः

यश्चैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः।
स्त्री वा दुःखमपत्योत्थं सप्त जन्मानि नाश्नुते ॥५५॥

मूलम्

यश्चैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः।
स्त्री वा दुःखमपत्योत्थं सप्त जन्मानि नाश्नुते ॥५५॥

इति विष्णुधर्मेषु अनन्तव्रतं नाम त्रिंशोऽध्यायः।