अथैकोनत्रिंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
सुरूपता मनुष्याणां स्त्रीणां च द्विजसत्तम।
कर्मणा जायते येन तन्ममाख्यातुमर्हसि ॥१॥
मूलम्
सुरूपता मनुष्याणां स्त्रीणां च द्विजसत्तम।
कर्मणा जायते येन तन्ममाख्यातुमर्हसि ॥१॥
विश्वास-प्रस्तुतिः
सुरूपाणां सुगात्राणां सुवेषाणां तथा मुने।
न्यूनं तथाधिकं वापि किञ्चिदङ्गं प्रजायते ॥२॥
मूलम्
सुरूपाणां सुगात्राणां सुवेषाणां तथा मुने।
न्यूनं तथाधिकं वापि किञ्चिदङ्गं प्रजायते ॥२॥
विश्वास-प्रस्तुतिः
समस्तैः शोभनैरङ्गैर्नराः केचित्तथा द्विज।
काणाः कुब्जाश्च जायन्ते त्रुटितश्रवणास्तथा ॥३॥
मूलम्
समस्तैः शोभनैरङ्गैर्नराः केचित्तथा द्विज।
काणाः कुब्जाश्च जायन्ते त्रुटितश्रवणास्तथा ॥३॥
विश्वास-प्रस्तुतिः
नराणां योषितां चैव समस्ताङ्ग्सुरूपता।
कर्मणा येन भवति तत्सर्वं कथयाअल ॥४॥
मूलम्
नराणां योषितां चैव समस्ताङ्ग्सुरूपता।
कर्मणा येन भवति तत्सर्वं कथयाअल ॥४॥
विश्वास-प्रस्तुतिः
लावण्यगतिवाक्यानि सति रूपे महामते।
प्रयान्ति चारुतां रूपं तेनोक्तः परमो गुणः ॥५॥
मूलम्
लावण्यगतिवाक्यानि सति रूपे महामते।
प्रयान्ति चारुतां रूपं तेनोक्तः परमो गुणः ॥५॥
विश्वास-प्रस्तुतिः
वाक्यलावण्यसंस्कारविलासललिता गतिः।
विडम्बना कुरूपाणां स्त्रीपुंसामभिजायते ॥६॥
मूलम्
वाक्यलावण्यसंस्कारविलासललिता गतिः।
विडम्बना कुरूपाणां स्त्रीपुंसामभिजायते ॥६॥
विश्वास-प्रस्तुतिः
रूपकारणभूताय यतेत मतिमांस्ततः।
कर्मणा तन्ममाचक्ष्व कर्म यच्चारुरूपदम् ॥७॥
मूलम्
रूपकारणभूताय यतेत मतिमांस्ततः।
कर्मणा तन्ममाचक्ष्व कर्म यच्चारुरूपदम् ॥७॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
सम्यक् पृष्टं त्वया हीदमुपवासाश्रितं द्विज।
कथयामि यथा प्रोक्तं वसिष्ठेन महात्मना ॥८॥
मूलम्
सम्यक् पृष्टं त्वया हीदमुपवासाश्रितं द्विज।
कथयामि यथा प्रोक्तं वसिष्ठेन महात्मना ॥८॥
विश्वास-प्रस्तुतिः
वसिष्ठमृषिमासीनं सप्तर्षिप्रवरं पतिम्।
पप्रच्छारुन्धती प्रश्नं यदेतद्भवता वयम् ॥९॥
मूलम्
वसिष्ठमृषिमासीनं सप्तर्षिप्रवरं पतिम्।
पप्रच्छारुन्धती प्रश्नं यदेतद्भवता वयम् ॥९॥
विश्वास-प्रस्तुतिः
तस्याः स परिपृच्छन्त्या जगाद मुनिसत्तमः।
यत्तच्छृणुष्व धर्मज्ञ ममेह वदतोऽखिलम् ॥१०॥
मूलम्
तस्याः स परिपृच्छन्त्या जगाद मुनिसत्तमः।
यत्तच्छृणुष्व धर्मज्ञ ममेह वदतोऽखिलम् ॥१०॥
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
श्रूयतां मम यत्पृष्टस्त्वयाहं ब्रह्मवादिनि।
सुरूपता नृणां येन योषितां चोपजायते ॥११॥
मूलम्
श्रूयतां मम यत्पृष्टस्त्वयाहं ब्रह्मवादिनि।
सुरूपता नृणां येन योषितां चोपजायते ॥११॥
विश्वास-प्रस्तुतिः
अनभ्यर्च्य यथान्यायमनाराध्य च केशवम्।
रूपादिका गुणाः केन प्राप्यन्तेऽन्येन कर्मणा ॥१२॥
मूलम्
अनभ्यर्च्य यथान्यायमनाराध्य च केशवम्।
रूपादिका गुणाः केन प्राप्यन्तेऽन्येन कर्मणा ॥१२॥
विश्वास-प्रस्तुतिः
तस्मादाराधनीयो वै विष्णुरेव यशस्विनि।
परत्र प्राप्तुकामेन रूपसम्पत्सुतादिकम् ॥१३॥
मूलम्
तस्मादाराधनीयो वै विष्णुरेव यशस्विनि।
परत्र प्राप्तुकामेन रूपसम्पत्सुतादिकम् ॥१३॥
विश्वास-प्रस्तुतिः
यस्तु वाञ्छति धर्मज्ञे रूपं सर्वाङ्गशोभनम्।
नक्षत्रपुरुषस्तेन सम्पूज्यः पुरुषोत्तमः ॥१४॥
मूलम्
यस्तु वाञ्छति धर्मज्ञे रूपं सर्वाङ्गशोभनम्।
नक्षत्रपुरुषस्तेन सम्पूज्यः पुरुषोत्तमः ॥१४॥
विश्वास-प्रस्तुतिः
नक्षत्राङ्गं यथाहारः समुपोष्यति यो हरिम्।
सुरूपैरखिलाङ्गैश्च रूपवानभिजायते ॥१५॥
मूलम्
नक्षत्राङ्गं यथाहारः समुपोष्यति यो हरिम्।
सुरूपैरखिलाङ्गैश्च रूपवानभिजायते ॥१५॥
विश्वास-प्रस्तुतिः
योषिता च परं रूपमिच्छन्त्या जगतः पतिः।
स एवाराधनीयोऽत्र नक्षत्राङ्गो जनार्दनः ॥१६॥
मूलम्
योषिता च परं रूपमिच्छन्त्या जगतः पतिः।
स एवाराधनीयोऽत्र नक्षत्राङ्गो जनार्दनः ॥१६॥
अरुन्धत्युवाच।
विश्वास-प्रस्तुतिः
नक्षत्ररूपी भगवान्पूज्यते पुरुषोत्तमः।
मुने येन विधानेन तन्ममाख्यातुमर्हसि ॥१७॥
मूलम्
नक्षत्ररूपी भगवान्पूज्यते पुरुषोत्तमः।
मुने येन विधानेन तन्ममाख्यातुमर्हसि ॥१७॥
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
चैत्रमासं समारभ्य विष्णोः पादादिपूजनम्।
यथा कुर्वीत रूपार्थी तन्निशामय तत्त्वतः ॥१८॥
मूलम्
चैत्रमासं समारभ्य विष्णोः पादादिपूजनम्।
यथा कुर्वीत रूपार्थी तन्निशामय तत्त्वतः ॥१८॥
विश्वास-प्रस्तुतिः
नक्षत्रमेकमेकं वै स्नातः सम्यगुपोषितः।
नक्षत्रपुरुषस्याङ्गं पूजयेत्साध्वी चक्रिणः ॥१९॥
मूलम्
नक्षत्रमेकमेकं वै स्नातः सम्यगुपोषितः।
नक्षत्रपुरुषस्याङ्गं पूजयेत्साध्वी चक्रिणः ॥१९॥
विश्वास-प्रस्तुतिः
मूले पादौ तथा जङ्घे रोहिणीष्वर्चयेच्छुभे।
जानुनी चाश्विनीयोग आषाढे चोरुसञ्ज्ञिते ॥२०॥
मूलम्
मूले पादौ तथा जङ्घे रोहिणीष्वर्चयेच्छुभे।
जानुनी चाश्विनीयोग आषाढे चोरुसञ्ज्ञिते ॥२०॥
विश्वास-प्रस्तुतिः
फाल्गुनीद्वितये गुह्यं कृत्तिकासु तथा कटिम्।
पार्श्वे भद्रपदायुग्मे द्वे कुक्षी रेवतीषु च ॥२१॥
मूलम्
फाल्गुनीद्वितये गुह्यं कृत्तिकासु तथा कटिम्।
पार्श्वे भद्रपदायुग्मे द्वे कुक्षी रेवतीषु च ॥२१॥
विश्वास-प्रस्तुतिः
अनुराध उरः पृष्ठं श्रविष्ठास्वभिपूजयेत्।
भुजयुग्मं विशाखासु हस्ते चैव करद्वयम् ॥२२॥
मूलम्
अनुराध उरः पृष्ठं श्रविष्ठास्वभिपूजयेत्।
भुजयुग्मं विशाखासु हस्ते चैव करद्वयम् ॥२२॥
विश्वास-प्रस्तुतिः
पुनर्वसावङ्गुलींश्च आश्लेषासु तथा नखान्।
ज्येष्ठायां पूजयेद्ग्रीवं श्रवणे श्रवणे तथा ॥२३॥
मूलम्
पुनर्वसावङ्गुलींश्च आश्लेषासु तथा नखान्।
ज्येष्ठायां पूजयेद्ग्रीवं श्रवणे श्रवणे तथा ॥२३॥
विश्वास-प्रस्तुतिः
पुष्ये मुखं तथा स्वातौ दशनानभिपूजयेत्।
हन्वौ शतभिषायोगे मघायोगे च नासिकाम् ॥२४॥
मूलम्
पुष्ये मुखं तथा स्वातौ दशनानभिपूजयेत्।
हन्वौ शतभिषायोगे मघायोगे च नासिकाम् ॥२४॥
मृगोत्तमाङ्गे नयने पूजयेद्भक्तितः शुभे।
विश्वास-प्रस्तुतिः
चित्रायोगे ललाटं च भरण्यां च तथा शिरः।
सम्पूजनीया विद्वद्भिश्चाद्रासु च शिरोरुहाः ॥२५॥
मूलम्
चित्रायोगे ललाटं च भरण्यां च तथा शिरः।
सम्पूजनीया विद्वद्भिश्चाद्रासु च शिरोरुहाः ॥२५॥
विश्वास-प्रस्तुतिः
नक्षत्रयोगेष्वेतेषु पूजितो जगतः पतिः।
नक्षत्रपुरुषाख्योऽयं यथावत्पुरुषोत्तमः ॥२६॥
मूलम्
नक्षत्रयोगेष्वेतेषु पूजितो जगतः पतिः।
नक्षत्रपुरुषाख्योऽयं यथावत्पुरुषोत्तमः ॥२६॥
विश्वास-प्रस्तुतिः
पापापहारं कुरुते सम्यच्छ्रद्धावतां सताम्।
अङ्गोपाङ्गानि चैवास्य पापादीनि यशस्विनि ॥२७॥
मूलम्
पापापहारं कुरुते सम्यच्छ्रद्धावतां सताम्।
अङ्गोपाङ्गानि चैवास्य पापादीनि यशस्विनि ॥२७॥
विश्वास-प्रस्तुतिः
सुरूपान्यभिजायन्ते सप्त जन्मान्तराणि वै।
सर्वाणि चैव भद्राणि शरीरारोग्यमुत्तमम् ॥२८॥
मूलम्
सुरूपान्यभिजायन्ते सप्त जन्मान्तराणि वै।
सर्वाणि चैव भद्राणि शरीरारोग्यमुत्तमम् ॥२८॥
विश्वास-प्रस्तुतिः
सन्ततिं मनसः प्रीतिं रूपं चातीवशोभनम्।
वाङ्माधूर्यं तथा कान्तिं यच्चान्यदभिवाञ्छितम् ॥२९॥
मूलम्
सन्ततिं मनसः प्रीतिं रूपं चातीवशोभनम्।
वाङ्माधूर्यं तथा कान्तिं यच्चान्यदभिवाञ्छितम् ॥२९॥
विश्वास-प्रस्तुतिः
ददाति नक्षत्रपुमान्पूजितश्च जनार्दनः।
उपोष्य सम्यगेतेषु क्रमेण र्क्षेषु शोभने ॥३०॥
मूलम्
ददाति नक्षत्रपुमान्पूजितश्च जनार्दनः।
उपोष्य सम्यगेतेषु क्रमेण र्क्षेषु शोभने ॥३०॥
सम्पूजनीयो भगवान्नक्षत्राङ्गो जनार्दनः।
गन्धपुष्पादिसंयुक्तं पूजयित्वा यदाविधि।
जानुभ्यां धरणीं गत्वा इदं चोदाहरेत्ततः।
स्वरूपमारोग्यमतीव वर्चसं सुसन्ततिं त्वस्थितभक्तिमच्युताम्।
अपि सर्वमेतं प्रोतं सूत्रे मणिगणा इव।
विश्वास-प्रस्तुतिः
एकपुरुष महापुरुष ऋक्षपुरुष नमोऽस्तु ते।
प्रतिनक्षत्रयोगे च भोजनीया द्विजोत्तमाः ॥३१॥
मूलम्
एकपुरुष महापुरुष ऋक्षपुरुष नमोऽस्तु ते।
प्रतिनक्षत्रयोगे च भोजनीया द्विजोत्तमाः ॥३१॥
विश्वास-प्रस्तुतिः
नक्षत्रज्ञाय विप्राय दद्याद्दानं च शक्तितः।
पारिते च पुनर्दद्यात्स्त्रीपूंसां चारुहासिनि ॥३२॥
मूलम्
नक्षत्रज्ञाय विप्राय दद्याद्दानं च शक्तितः।
पारिते च पुनर्दद्यात्स्त्रीपूंसां चारुहासिनि ॥३२॥
विश्वास-प्रस्तुतिः
छत्त्रोपानद्युगं चैव सप्तधान्यं सकाञ्चनम्।
घृतपात्रं च धर्मज्ञे यच्चान्यदतिवल्लभम् ॥३३॥
मूलम्
छत्त्रोपानद्युगं चैव सप्तधान्यं सकाञ्चनम्।
घृतपात्रं च धर्मज्ञे यच्चान्यदतिवल्लभम् ॥३३॥
विश्वास-प्रस्तुतिः
स्त्री वा साध्वी सदा विष्णोराराधनपरायणा।
अनेनैव विधानेन सम्पूज्यैतदवाप्नुयात् ॥३४॥
मूलम्
स्त्री वा साध्वी सदा विष्णोराराधनपरायणा।
अनेनैव विधानेन सम्पूज्यैतदवाप्नुयात् ॥३४॥
इति विष्णुधर्मेषु नक्षत्रपुरुषव्रतं नामैकोनत्रिंशोऽध्यायः।