अथ अष्टादशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः।
दुष्टग्रहोपघातैश्च सर्वकालमुपद्रुताः ॥१॥
मूलम्
भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः।
दुष्टग्रहोपघातैश्च सर्वकालमुपद्रुताः ॥१॥
विश्वास-प्रस्तुतिः
आभिचारुककृत्याभिः स्पर्षरोगैश्च दारुणैः।
सदा सम्पीड्यमानास्ते तिष्ठन्ति मुनिसत्तम ॥२॥
मूलम्
आभिचारुककृत्याभिः स्पर्षरोगैश्च दारुणैः।
सदा सम्पीड्यमानास्ते तिष्ठन्ति मुनिसत्तम ॥२॥
विश्वास-प्रस्तुतिः
येन कर्मविपाकेन विषरोगाद्युपद्रवाः।
न भवन्ति नृणां तन्मे यथावद्वक्तुमर्हसि ॥३॥
मूलम्
येन कर्मविपाकेन विषरोगाद्युपद्रवाः।
न भवन्ति नृणां तन्मे यथावद्वक्तुमर्हसि ॥३॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
व्रतोपवासैर्यैर्विष्णुर्नान्यजन्मनि पूजितः।
ते नरा मुनिशार्दूल ग्रहरोगादिभागिनः ॥४॥
मूलम्
व्रतोपवासैर्यैर्विष्णुर्नान्यजन्मनि पूजितः।
ते नरा मुनिशार्दूल ग्रहरोगादिभागिनः ॥४॥
विश्वास-प्रस्तुतिः
यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतम्।
विषग्रहज्वराणां ते मनुष्या दाल्भ्य भाजनाः ॥५॥
मूलम्
यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतम्।
विषग्रहज्वराणां ते मनुष्या दाल्भ्य भाजनाः ॥५॥
विश्वास-प्रस्तुतिः
आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति।
तत्तदाप्नोत्यसन्दिग्धं परत्राच्युततोषकृत् ॥६॥
मूलम्
आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति।
तत्तदाप्नोत्यसन्दिग्धं परत्राच्युततोषकृत् ॥६॥
विश्वास-प्रस्तुतिः
नाधीन्प्राप्नोति न व्याधीन्न विषग्रहबन्धनम्।
कृत्यास्पर्शभयं वापि तोषिते मधुसूदने ॥७॥
मूलम्
नाधीन्प्राप्नोति न व्याधीन्न विषग्रहबन्धनम्।
कृत्यास्पर्शभयं वापि तोषिते मधुसूदने ॥७॥
विश्वास-प्रस्तुतिः
सर्वदुष्टशमस्तस्य सौम्यास्तस्य सदा ग्रहाः।
देवानामप्रधृष्योऽसौ तुष्टो यस्य जनार्दनः ॥८॥
मूलम्
सर्वदुष्टशमस्तस्य सौम्यास्तस्य सदा ग्रहाः।
देवानामप्रधृष्योऽसौ तुष्टो यस्य जनार्दनः ॥८॥
विश्वास-प्रस्तुतिः
यः समः सर्वभूतेषु यथात्मनि तथापरे।
उपवादादिना तेन तोष्यते मधुसूदनः ॥९॥
मूलम्
यः समः सर्वभूतेषु यथात्मनि तथापरे।
उपवादादिना तेन तोष्यते मधुसूदनः ॥९॥
विश्वास-प्रस्तुतिः
तोषिते तत्र जायन्ते नराः पूऋणमनोरथाः।
अरोगाः सुखिनो भोगभोक्तारो मुनिसत्तम ॥१०॥
मूलम्
तोषिते तत्र जायन्ते नराः पूऋणमनोरथाः।
अरोगाः सुखिनो भोगभोक्तारो मुनिसत्तम ॥१०॥
विश्वास-प्रस्तुतिः
न तेषां शत्रवो नैव स्पर्शरोगाभिचारुकाः।
ग्रहरोगादिकं वापि पापकार्यं न जायते ॥११॥
मूलम्
न तेषां शत्रवो नैव स्पर्शरोगाभिचारुकाः।
ग्रहरोगादिकं वापि पापकार्यं न जायते ॥११॥
विश्वास-प्रस्तुतिः
अव्याहतानि कृष्णस्य चक्रादीन्यात्मयुधानि तम्।
रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः ॥१२॥
मूलम्
अव्याहतानि कृष्णस्य चक्रादीन्यात्मयुधानि तम्।
रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः ॥१२॥
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
अनाराधितगोविन्दा ये नरा दुःखभागिनः।
तेषां दुःखाभिभूतानां कर्तव्यं यद्दयालुभिः ॥१३॥
मूलम्
अनाराधितगोविन्दा ये नरा दुःखभागिनः।
तेषां दुःखाभिभूतानां कर्तव्यं यद्दयालुभिः ॥१३॥
विश्वास-प्रस्तुतिः
पश्यद्भिः सर्वभूतस्थं वासुदेवं महामुने।
समदृष्टिभिरीशेशं तन्मम ब्रूह्यशेषतः ॥१४॥
मूलम्
पश्यद्भिः सर्वभूतस्थं वासुदेवं महामुने।
समदृष्टिभिरीशेशं तन्मम ब्रूह्यशेषतः ॥१४॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच।
कुशमूलस्थितो ब्रह्मा कुशमध्ये जनार्दनः ॥२॥
मूलम्
पुलस्त्य उवाच।
कुशमूलस्थितो ब्रह्मा कुशमध्ये जनार्दनः ॥२॥
कुशाग्रे शङ्करं विद्यात्त्रयो देवा व्यवस्थिताः ॥३॥
गृहीत्वा च स मूलाग्रान्कुशाञ्शुद्धानुपस्पृशेत् ॥४॥
मार्जयेत्सर्वगात्राणि कुशाग्रैर्दाल्भ्य शान्तिकृत् ॥५॥
शरीरे यस्य तिष्ठन्ति कुशस्थजलबिन्दवः ॥६॥
नश्यन्ति तस्य पापानि गरुडेनैव पन्नगाः ॥७॥
विष्णुभक्ता विशेषेण ॥॥॥॥चिद्गतमानसः ॥८॥
रोगग्रहविषार्तानां कुर्याच्छान्तिमिमां शुभाम् ॥९॥
नारसिंहं समभ्यर्च्य शुचौ देशे कुशासने ॥१०॥
मन्त्रैरेतैर्यथा लिङ्गं कुर्याद्दिग्बन्धमात्मनः ॥११॥
वाराहं नारसिंहं च वामनं विष्णुमेव च ॥१२॥
ध्यात्वा समाहितो भूत्वा दिक्षु नामानि विन्यासेत् ॥१३॥
पूर्वे नारायणः पातु वारिजाक्षस्तु दक्षिणे ॥१४॥
प्रद्युम्नः पश्चिमस्यां तु वासुदेवस्तथोत्तरे ॥१५॥
ईशान्यामवताद्विष्णुराग्नेय्यां च जनार्दनः ॥१६॥
नैरृत्यां पद्मनाभश्च वायव्यां चैव माधवः ॥१७॥
ऊर्ध्वं गोवर्धनधरो अधरायां त्रिविक्रमः ॥१८॥
एताभ्यो दशदिग्भ्यस्तु सर्वतः पातु केशवः ॥१९॥
अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यांस्तु महीधरम् ॥२०॥
मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् ॥२१॥
कणिष्ठायां न्यसेद्विष्णुं करमध्ये तु माधवम् ॥२२॥
एवं न्यासं पुरा कृत्वा पश्चादङ्गेषु विन्यसेत् ॥२३॥
शिखायां केशवं न्यस्य मूर्ध्नि नारायणं न्यसेत् ॥२४॥
चक्षुर्मध्ये न्यसेद्विष्णुं कर्णयोर्मधुसूदनम् ॥२५॥
त्रिविक्रमं कपालस्थं वामनं कर्णमूलयोः ॥२६॥
दामोदरं दन्तवक्त्रौ वाराहं चिबुके न्यसेत् ॥२७॥
उत्तरोष्ठे हृषीकेशं पद्मनाभं तथाधरे ॥२८॥
जिह्वायां वासुदेवं च ताल्वके गरुडध्वजम् ॥२९॥
वैकुण्ठं कण्ठमध्यस्थमनन्तं नासिकोपरि ॥३०॥
दक्षिणे तु भुजे विप्र विन्यसेत्पुरुषोत्तमम् ॥३१॥
वामभुजे महाभागं राघवं हृदि विन्यसेत् ॥३२॥
पीताम्बरं सर्वतनौ हरिं नाभौ तु विन्यसेत् ॥३३॥
करे तु दक्षिणे विप्र ततः सङ्कर्षणं न्यसेत् ॥३४॥
वामे विप्र हरिं विद्यात्कटिमध्येऽपराजितम् ॥३५॥
पृष्ठे क्षितिधरं विद्यादच्युतं स्कन्धयोरपि ॥३६॥
माधवं बाहु कुक्षौ तु दक्षिणे योगशायिनम् ॥३७॥
स्वयम्भुवं मेढ्रमध्ये ऊरुभ्यां तु गदाधरम् ॥३८॥
चक्रिणं जानुमध्ये तु जङ्घयोरच्युतं न्यसेत् ॥३९॥
गुल्पयोर्नरसिंहं च पादपृष्ठेऽमितौजसम् ॥४०॥
श्रीधरं चाङ्गुलीषु स्यात्पद्माक्षं सर्वसन्धिषु ॥४१॥
रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जासु ॥४२॥
मनोबुद्ध्योरहङ्कारेष्वेवं चित्ते जनार्दनम् ॥४३॥
नखेषु माधवं चैव न्यसेत्पादतलेऽच्युतम् ॥४४॥
एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् ॥४५॥
तनुर्विष्णुमयी तस्य यावत्किञ्चिन्न भाषते ॥४६॥
एवं न्यासं ततः कृत्वा यत्कार्यं शृणु तद्द्विज ॥४७॥
पादमूले तु देवस्य शङ्खं तत्रैव विन्यसेत् ॥४८॥
वनमालां तु विन्यस्य सर्वदेवाभिपूजिताम् ॥४९॥
गदां वक्षःस्थले चैव चक्रं चैव तु पृष्ठतः ॥५०॥
श्रीवत्साङ्गं शिरो न्यस्य पञ्चाङ्गकवचं न्यसेत् ॥५१॥
आपादामस्तके चैव विन्यसेत्पुरुषोत्तमम् ॥५२॥
ॐ अपामार्जनको न्यासः सर्वव्याधिविनाशनः ॥५३॥
विष्णुरूर्ध्वमधो रक्षेद्वैकुण्ठो विदिशो दिशः ॥५४॥
पातु मां सर्वतो रामो धन्वी चक्री च केशवः ॥५५॥
विश्वास-प्रस्तुतिः
इति विष्णुधर्मे विष्णोरपामार्जनन्यासकवचम्।
पूजाकाले तु देवस्य जपकाले तथैव च ॥५९॥
मूलम्
इति विष्णुधर्मे विष्णोरपामार्जनन्यासकवचम्।
पूजाकाले तु देवस्य जपकाले तथैव च ॥५९॥
होमारम्भेषु सर्वेषु त्रिसन्ध्यासु च नित्यशः ॥६०॥
आयुरारोग्यमैश्वर्यं ज्ञानं वित्तं फलं भवेत् ॥६१॥
यद्यत्सुखकरं प्रोक्तं तत्सर्वं प्राप्नुयान्नरः ॥६२॥
अभयं सर्वभूतेभ्यो विष्णुलोकं च गच्छति ॥६३॥
अथ ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् ॥७७॥
वाराहरूपिणं देवं संस्मरत्यपराजितम् ॥७८॥
बृहत्तनुं बृहद्गात्रं बृहद्दंष्ट्रसुशोभनम् ॥७९॥
समस्तवेदवेदाङ्गं युक्ताङ्गं भूषणैर्युतम् ॥८०॥
उद्धृत्य भूमिं पातालाधस्ताभ्यामुपगृह्णताम् ॥८१॥
आलिङ्ग्य भूमिं शिरसि मूर्ध्नि जिघ्रन्तमास्थितम् ॥८२॥
रत्नवैडूर्यमुख्याभिर्मुक्ताभिरुपशोभितम् ॥८३॥
पीताम्बरधरं देवं शुक्लमाल्यानुलेपनम् ॥८४॥
त्रयस्त्रिंशकोटिदेवैः स्तूयमानं मुदानिशम् ॥८५॥
नृत्यद्भिरप्सरोभिश्च गीयमानं च किन्नरैः ॥८६॥
इत्थं ध्यात्वा महात्मानं जपेन्नित्यं महात्मनः ॥८७॥
सुवर्णमण्डपान्तस्थं पद्मं ध्यायेत्सकेसरम् ॥८८॥
सकर्णिकदलैरिष्टैरष्टभिः परिशोभितम् ॥८९॥
करं करहितं देवं पूर्णचन्द्राप्तसुप्रभम् ॥९०॥
तडित्समशटाशोभि कण्ठनालोपशोभितम् ॥९१॥
श्रीवत्साङ्कितवक्षःस्थं तीक्ष्णदंष्ट्रं त्रिलोचनम् ॥९२॥
जवाकुसुमसङ्काशं रक्तहस्ततलान्वितम् ॥९३॥
पीतवस्त्रपरीधानं शुक्लयस्त्रोत्तरीयकम् ॥९४॥
करं करहितं देवं पूर्णचन्द्राप्तसुप्रभम् ॥९५॥
कटिसूत्रेण हैमेन नूपुरेण विराजितम् ॥९६॥
वनमालादिशोभाढ्यं मुक्ताहारोपशोभितम् ॥९७॥
अनेकसूर्यसङ्काशं मुकुटाटोपमस्तकम् ॥९८॥
शङ्खचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितम् ॥९९॥
पङ्कजाभं चतुर्हस्तं तत्पत्राभसुलोचनम् ॥१००॥
प्रातः सूर्यसमप्रख्यकुण्डलाभ्यां विराजितम् ॥१०१॥
केयूरकान्तिसस्यर्द्धिमुक्तिकारत्नशोभितम् ॥१०२॥
जानूपरिन्यस्तहस्तं वररत्ननखाङ्कुरम् ॥१०३॥
जङ्घाभरणसस्यर्द्धिविस्फुर्यत्कङ्कनत्विषम् ॥१०४॥
मुक्ताफलाब्दसमहद्दन्तपङ्क्तिविराजितम् ॥१०५॥
चम्पकामुकुलप्रख्यसुनासामुखपङ्कजम् ॥१०६॥
अतिरक्तौष्ठवदनं व्यात्तास्यमतिभीषणम् ॥१०७॥
वामाङ्कस्थं शिवभक्तशान्तिदां सुनितम्बिनीम् ॥१०८॥
अर्हणीयां सुजातोरुं सुनासां शुभलक्षणाम् ॥१०९॥
सुभ्रूं सुकेशीं सुश्रोणीं सुशुभां सुद्विजाननाम् ॥११०॥
सुप्रतिष्ठां सुवदनां चतुर्हस्तां विचिन्तयेत् ॥१११॥
दुकूले चैव चार्वङ्गीं हारिणीं सर्वकामदाम् ॥११२॥
तप्तकञ्चनसङ्काशां सर्वाभरणभूषिताम् ॥११३॥
सुवर्णकलशप्रख्यपीनोन्नतपयोधराम् ॥११४॥
गृहीतपद्मयुगलं उद्बाहुभ्यां तथान्ययोः ॥११५॥
गृहीतमातुलङ्गाख्यं जाम्बुनदकरान्तथा ॥११६॥
एवं देवीं नृसिंहस्य वामाङ्कोपरि संस्मरेत् ॥११७॥
अतिविमलसुगात्रं रौप्यपात्रस्थमन्नं ॥११८॥
सुललितदधिखण्डं पाणिना दक्षिणेन ॥११९॥
कलशममृतपूर्णं सव्यहस्ते दधानं ॥१२०॥
तदतिसकलदुःखं वामनं भावयेद्यः ॥१२१॥
अन्या भास्करसप्रभाभिरखिलैर्भाभिर्दिशो भासयन् ॥१२२॥
भीमाक्षस्फुरदट्टहासविलसाद्दंष्ट्राग्रदीप्ताननः ॥१२३॥
दोर्भिश्चक्रधरौ गदाब्जमुकुलौ त्रासांश्च पाशाङ्कुशौ ॥१२४॥
बिभ्रत्पि गशिरोऽरुहोद्धतसटश्चक्रविधानो हरिः ॥१२५॥
मनोभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः ॥१३९॥
त्रैलोक्यस्येश्वरं सर्वमहङ्कारे प्रतिष्ठिताः ॥१४०॥
मनोबुद्धिरहङ्कारेऽर्पितस्तदनन्तेन तञ्जीवं प्रतिष्ठाप्य सर्वेषां देवानां।
मूर्तिं ध्यात्वा प्रत्यक्षं दर्शयति ॥ मम सर्वारिष्ट आपदो।
परिहारार्थे अपामार्जनस्तोत्रमन्त्रजपे विनियोगः ॥।
पुलस्त्य उवाच।
ॐ नमः परमार्थाय पुरुषाय महात्मने।
अरूपबहुरूपाय व्यापिने परमात्मने।
नमस्ते देवदेवाय सुरशूर नमोऽस्तु ते।
विश्वास-प्रस्तुतिः
लोकाध्यक्ष जगत्पूज्य परमात्मन्नमस्ते।
निष्कल्मषाय शुद्धाय सर्वपापहराय च ॥१५॥
मूलम्
लोकाध्यक्ष जगत्पूज्य परमात्मन्नमस्ते।
निष्कल्मषाय शुद्धाय सर्वपापहराय च ॥१५॥
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥१६॥
विश्वास-प्रस्तुतिः
वराहनरसिंहाय वामनाय महात्मने।
गोविन्दपद्मनाभाय वामदेवाय भूपते ॥१॥
मूलम्
वराहनरसिंहाय वामनाय महात्मने।
गोविन्दपद्मनाभाय वामदेवाय भूपते ॥१॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
नारायणाय देवाय अनन्ताय महात्मने ॥३॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
नारायणाय देवाय अनन्ताय महात्मने ॥३॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
गरुडध्वजाय कृष्णाय पीताम्बरधराय च ॥५॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
गरुडध्वजाय कृष्णाय पीताम्बरधराय च ॥५॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
योगीश्वराय सिद्धाय गुह्याय परमात्मने ॥७॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
योगीश्वराय सिद्धाय गुह्याय परमात्मने ॥७॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
जनार्दनाय कृष्णाय उपेन्द्रश्रीधराय च ॥९॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
जनार्दनाय कृष्णाय उपेन्द्रश्रीधराय च ॥९॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
भक्तप्रियाय विधये विष्वक्सेनाय शार्ङ्गिने ॥११॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
भक्तप्रियाय विधये विष्वक्सेनाय शार्ङ्गिने ॥११॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
हिरण्यगर्भपतये हिरण्यकशिपुच्छिदे ॥१३॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
हिरण्यगर्भपतये हिरण्यकशिपुच्छिदे ॥१३॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
चक्रहस्ताय शूलाय तर्जन्यपत्राय धीमते ॥१५॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
चक्रहस्ताय शूलाय तर्जन्यपत्राय धीमते ॥१५॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
आदित्याय उपेन्द्राय भूतानां जीवनाय च ॥१७॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
आदित्याय उपेन्द्राय भूतानां जीवनाय च ॥१७॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
वासुदेवाय वन्द्याय वरदाय महात्मने ॥१९॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
वासुदेवाय वन्द्याय वरदाय महात्मने ॥१९॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
विषूवृच्छ्रवसे तस्मै क्षीराम्बुनिछिशायिने ॥२१॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
विषूवृच्छ्रवसे तस्मै क्षीराम्बुनिछिशायिने ॥२१॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
अधोक्षजाय भद्राय श्रीधरायादिमूर्तये ॥२३॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
अधोक्षजाय भद्राय श्रीधरायादिमूर्तये ॥२३॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
विश्वेशद्वारमूर्तिश्च मृत्युरायोहितोऽस्ति सः ॥२५॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
विश्वेशद्वारमूर्तिश्च मृत्युरायोहितोऽस्ति सः ॥२५॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
नानारागांश्च दक्षांश्च विकटाय महाभीती ॥२७॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
नानारागांश्च दक्षांश्च विकटाय महाभीती ॥२७॥
जातुपतिं व्यग्रहस्तं वररत्ननखाकरम् ॥२८॥
जङ्घाभरेण –न्सने।
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
नारायणाय विश्वाय विश्वेशायाम्बराय च ॥३२॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
नारायणाय विश्वाय विश्वेशायाम्बराय च ॥३२॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
दामोदराय देवाय अनन्ताय महात्मने ॥३४॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
दामोदराय देवाय अनन्ताय महात्मने ॥३४॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ॥१७॥
मूलम्
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः।
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ॥१७॥
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥१८॥
विश्वास-प्रस्तुतिः
वराहनरसिंहेश वामनेश त्रिविक्रम।
हयग्रीवेश सर्वेश हृषीकेश हराशुभम् ॥१९॥
मूलम्
वराहनरसिंहेश वामनेश त्रिविक्रम।
हयग्रीवेश सर्वेश हृषीकेश हराशुभम् ॥१९॥
विश्वास-प्रस्तुतिः
अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः।
अखण्डितप्रभावैस्त्वं सर्वदुष्टहरो भव ॥२०॥
मूलम्
अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः।
अखण्डितप्रभावैस्त्वं सर्वदुष्टहरो भव ॥२०॥
विश्वास-प्रस्तुतिः
हरामुकस्य दुरितं दुष्कृतं दुरुपोषितम्।
मृत्युबन्धार्तिभयदं दुरिष्टस्य च यत्फलम् ॥२१॥
मूलम्
हरामुकस्य दुरितं दुष्कृतं दुरुपोषितम्।
मृत्युबन्धार्तिभयदं दुरिष्टस्य च यत्फलम् ॥२१॥
विश्वास-प्रस्तुतिः
परापध्यानसहितं प्रयुक्तं चाभिचारुक।
गरस्पर्शमहायोगप्रयोगजरयाजर ॥२२॥
मूलम्
परापध्यानसहितं प्रयुक्तं चाभिचारुक।
गरस्पर्शमहायोगप्रयोगजरयाजर ॥२२॥
विश्वास-प्रस्तुतिः
ॐ नमो वासुदेवाय नमः क्षृणाय शार्ङ्गिणे।
नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥२३॥
मूलम्
ॐ नमो वासुदेवाय नमः क्षृणाय शार्ङ्गिणे।
नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥२३॥
विश्वास-प्रस्तुतिः
नमः कमलकिञ्जल्कपीतनिर्मलवाससे।
महाहवरिपुस्कन्धघृष्टचक्राय चक्रिणे ॥२४॥
मूलम्
नमः कमलकिञ्जल्कपीतनिर्मलवाससे।
महाहवरिपुस्कन्धघृष्टचक्राय चक्रिणे ॥२४॥
विश्वास-प्रस्तुतिः
दंष्ट्रोद्धृतक्षितिधृते त्रयीमूर्तिमते नमः।
महायज्ञवराहाय शेषभोगोरुशायिने ॥२५॥
मूलम्
दंष्ट्रोद्धृतक्षितिधृते त्रयीमूर्तिमते नमः।
महायज्ञवराहाय शेषभोगोरुशायिने ॥२५॥
विश्वास-प्रस्तुतिः
तप्तहाटककेशान्त ज्वलत्पावकलोचन।
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥२६॥
मूलम्
तप्तहाटककेशान्त ज्वलत्पावकलोचन।
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥२६॥
कपिल हेमाश्वशीर्ष अतिरिक्तविलोचन।
विद्युत्स्फुरितदंष्ट्राग्र दिव्यसिंह नमोऽस्तु ते।
विश्वास-प्रस्तुतिः
काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित।
तुभ्यं वामनरूपाय सृजते गां नमो नमः ॥२७॥
मूलम्
काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित।
तुभ्यं वामनरूपाय सृजते गां नमो नमः ॥२७॥
विश्वास-प्रस्तुतिः
वराहाशेषदुष्टानि सर्वपापहराणि वै।
मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् ॥२८॥
मूलम्
वराहाशेषदुष्टानि सर्वपापहराणि वै।
मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् ॥२८॥
विश्वास-प्रस्तुतिः
नरसिंह करालास्य दन्तप्रान्तानलोज्ज्वल।
भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन ॥२९॥
मूलम्
नरसिंह करालास्य दन्तप्रान्तानलोज्ज्वल।
भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन ॥२९॥
विश्वास-प्रस्तुतिः
ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक्।
प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः ॥३०॥
मूलम्
ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक्।
प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः ॥३०॥
विश्वास-प्रस्तुतिः
एकाहिकं द्व्याहिकं च तथा त्रिदिवसं ज्वरम्।
चातुर्थकं तथात्युग्रं तथैव सततज्वरम् ॥३१॥
मूलम्
एकाहिकं द्व्याहिकं च तथा त्रिदिवसं ज्वरम्।
चातुर्थकं तथात्युग्रं तथैव सततज्वरम् ॥३१॥
विश्वास-प्रस्तुतिः
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम्।
शमं नयाशु गोविन्द छित्त्वा च्छित्त्वा तु वेदनाम् ॥३२॥
मूलम्
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम्।
शमं नयाशु गोविन्द छित्त्वा च्छित्त्वा तु वेदनाम् ॥३२॥
विश्वास-प्रस्तुतिः
नेत्रदुःखं शिरोदुःखं दुःखं चोदरसम्भवम्।
अनुच्छ्वासमतिश्वासं परितापं सवेपथुं ॥३३॥
मूलम्
नेत्रदुःखं शिरोदुःखं दुःखं चोदरसम्भवम्।
अनुच्छ्वासमतिश्वासं परितापं सवेपथुं ॥३३॥
विश्वास-प्रस्तुतिः
गुदघ्राणांह्रिरोगांश्च कुष्ठरोगं तथा क्षयम्।
कामलादींस्तथा रोगान्प्रमेहांश्चातिदारुणान् ॥३४॥
मूलम्
गुदघ्राणांह्रिरोगांश्च कुष्ठरोगं तथा क्षयम्।
कामलादींस्तथा रोगान्प्रमेहांश्चातिदारुणान् ॥३४॥
विश्वास-प्रस्तुतिः
भगन्दरातिसारांश्च मुखरोगं सवल्गुलिम्।
अश्मरीमूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥३५॥
मूलम्
भगन्दरातिसारांश्च मुखरोगं सवल्गुलिम्।
अश्मरीमूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥३५॥
विश्वास-प्रस्तुतिः
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः।
कफोद्भवाश्च ये केचिद्ये चान्ये सान्निपातिकाः ॥३६॥
मूलम्
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः।
कफोद्भवाश्च ये केचिद्ये चान्ये सान्निपातिकाः ॥३६॥
विश्वास-प्रस्तुतिः
आगन्तवश्च ये रोगा लूआविस्फोटकादयः।
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः ॥३७॥
मूलम्
आगन्तवश्च ये रोगा लूआविस्फोटकादयः।
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः ॥३७॥
विश्वास-प्रस्तुतिः
विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च।
क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः ॥३८॥
मूलम्
विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च।
क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः ॥३८॥
विश्वास-प्रस्तुतिः
अच्युतानन्तगोविन्दनामोच्चारणभीषिताः।
नश्यन्तु सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥३९॥
मूलम्
अच्युतानन्तगोविन्दनामोच्चारणभीषिताः।
नश्यन्तु सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥३९॥
विश्वास-प्रस्तुतिः
स्थावरं जङ्गमं वापि कृत्रिमं वापि यद्विषम्।
दन्तोद्भवं नखभवमाकाशप्रभवं विषम् ॥४०॥
मूलम्
स्थावरं जङ्गमं वापि कृत्रिमं वापि यद्विषम्।
दन्तोद्भवं नखभवमाकाशप्रभवं विषम् ॥४०॥
विश्वास-प्रस्तुतिः
लूतादिप्रभवं यच्च विषमत्यन्तदुःखदम्।
शमं नयतु तत्सर्वं कीर्तितोऽस्य जनार्दनः ॥४१॥
मूलम्
लूतादिप्रभवं यच्च विषमत्यन्तदुःखदम्।
शमं नयतु तत्सर्वं कीर्तितोऽस्य जनार्दनः ॥४१॥
विश्वास-प्रस्तुतिः
ग्रहान्प्रेतग्रहांश्चैव तथा वै डाकिनीग्रहान्।
वेतालांश्च पिशाचांश्च गन्धर्वान्यक्षराक्षसान् ॥४२॥
मूलम्
ग्रहान्प्रेतग्रहांश्चैव तथा वै डाकिनीग्रहान्।
वेतालांश्च पिशाचांश्च गन्धर्वान्यक्षराक्षसान् ॥४२॥
विश्वास-प्रस्तुतिः
शकुनीपूतनाद्यांश्च तथा वैनायकग्रहान्।
मुखमण्डिनिकां क्रूरां रेवतीं वृद्धरेवतीम् ॥४३॥
मूलम्
शकुनीपूतनाद्यांश्च तथा वैनायकग्रहान्।
मुखमण्डिनिकां क्रूरां रेवतीं वृद्धरेवतीम् ॥४३॥
विश्वास-प्रस्तुतिः
वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि।
बालस्य विष्णोः चरितं हन्तु बालग्रहानिमान् ॥४४॥
मूलम्
वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि।
बालस्य विष्णोः चरितं हन्तु बालग्रहानिमान् ॥४४॥
विश्वास-प्रस्तुतिः
वृद्धानां ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित्।
नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ॥४५॥
मूलम्
वृद्धानां ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित्।
नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ॥४५॥
विश्वास-प्रस्तुतिः
सटाकरालवदनो नरसिंहो महारवः।
ग्रहानशेषान्निःशेषान्करोतु जगतो हितम् ॥४६॥
मूलम्
सटाकरालवदनो नरसिंहो महारवः।
ग्रहानशेषान्निःशेषान्करोतु जगतो हितम् ॥४६॥
विश्वास-प्रस्तुतिः
नरसिंह महासिंह ज्वालामालोज्ज्वलानन।
ग्रहानशेषान्सर्वेश खाद खादाग्निलोचन ॥४७॥
मूलम्
नरसिंह महासिंह ज्वालामालोज्ज्वलानन।
ग्रहानशेषान्सर्वेश खाद खादाग्निलोचन ॥४७॥
ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः।
विश्वास-प्रस्तुतिः
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः।
शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः ॥४८॥
मूलम्
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः।
शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः ॥४८॥
यानि चार्याणि भूतानि प्राणिपीडाकराणि वै।
विश्वास-प्रस्तुतिः
तानि सर्वाणि सर्वात्मन्परमात्मञ्जनार्दन।
किञ्चिद्रूपं समास्थाय वासुदेव विनाशय ॥४९॥
मूलम्
तानि सर्वाणि सर्वात्मन्परमात्मञ्जनार्दन।
किञ्चिद्रूपं समास्थाय वासुदेव विनाशय ॥४९॥
विश्वास-प्रस्तुतिः
क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभीषणम्।
सर्वदुष्टोपशमनं कुरु देववराच्युत ॥५०॥
मूलम्
क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभीषणम्।
सर्वदुष्टोपशमनं कुरु देववराच्युत ॥५०॥
सुदर्शन महाचक्र गोविन्दस्य करायुध ॥४१॥
ज्वलत्पावकसङ्काश सूर्यकोटिसमप्रभ ॥४२॥
त्रैलोक्यरक्षकर्तृ त्वं त्वं दुष्टदानवदारण ॥४३॥
तीक्ष्णधार महावेग छिन्धि च्छिन्धि महाज्वरम् ॥४४॥
छिन्धि च्छिन्धि महाव्याधिं छिन्धि च्छिन्धि महाग्रहान् ॥४५॥
छिन्धि वातं च धूतं च छिन्धि घोरं महाविषम् ॥४६॥
रुजदाघं च शूलं च निमिषज्वालगर्दभम् ॥४७॥
विश्वास-प्रस्तुतिः
सुदर्शन महाज्वाल छिन्धि च्छिन्धि ममारयः।
सर्वदुष्टानि रक्षांसि क्षपयातिविभीषण ॥५१॥
मूलम्
सुदर्शन महाज्वाल छिन्धि च्छिन्धि ममारयः।
सर्वदुष्टानि रक्षांसि क्षपयातिविभीषण ॥५१॥
हां हां हूं हूं फट्कारेण ठद्वयेन हतद्विषः ॥५१॥
सुदर्शनस्य मन्त्रेण ग्रहा यान्ति दिशो दिशः ॥५२॥
त्रैलोक्यस्याभयं कर्तुमाज्ञापय जनार्दन ॥५९॥
सर्वदुष्टानि रक्षांसि क्षयं यान्ति विभीषया ॥५१०॥
विश्वास-प्रस्तुतिः
प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा।
रक्षां करोतु सर्वात्मा नरसिंहः स्वगर्जितैः ॥५२॥
मूलम्
प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा।
रक्षां करोतु सर्वात्मा नरसिंहः स्वगर्जितैः ॥५२॥
भूम्यन्तरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः।
विश्वास-प्रस्तुतिः
व्याघ्रसिंहवराहेषु अन्दिचोरभयेषु च।
रक्षां करोतु भगवान्बहुरूपी जनार्दनः ॥५३॥
मूलम्
व्याघ्रसिंहवराहेषु अन्दिचोरभयेषु च।
रक्षां करोतु भगवान्बहुरूपी जनार्दनः ॥५३॥
विश्वास-प्रस्तुतिः
यथा विष्णुऋ जगत्सर्वं सदेवासुरमानवम्।
तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै ॥५४॥
मूलम्
यथा विष्णुऋ जगत्सर्वं सदेवासुरमानवम्।
तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै ॥५४॥
विश्वास-प्रस्तुतिः
यथा विष्णौ स्मृते सम्यक् सङ्क्षयं याति पातकम्।
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ॥५५॥
मूलम्
यथा विष्णौ स्मृते सम्यक् सङ्क्षयं याति पातकम्।
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ॥५५॥
विश्वास-प्रस्तुतिः
परमात्मा यथा विष्णुर्वेदान्तेष्वभिधीयते।
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥५६॥
मूलम्
परमात्मा यथा विष्णुर्वेदान्तेष्वभिधीयते।
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥५६॥
विश्वास-प्रस्तुतिः
यथा यज्ञेष्वरो विष्णुर्वेदेष्वपि तु गीयते।
तेन सत्येन सकलं यन्मयोक्तं तथास्तु तत् ॥५७॥
मूलम्
यथा यज्ञेष्वरो विष्णुर्वेदेष्वपि तु गीयते।
तेन सत्येन सकलं यन्मयोक्तं तथास्तु तत् ॥५७॥
यथा यज्ञेश्वरो विष्णुर्यज्ञान्ते अपि गीयते।
तेन सत्येन सकलं यन्मयोक्तं तथास्तु तत्।
विश्वास-प्रस्तुतिः
शान्तिरस्तु शिवं चास्तु प्रशाम्यत्वसुखं च यत्।
वासुदेवशरीरोत्थैः कुशैर्निर्मार्जितं मया ॥५८॥
मूलम्
शान्तिरस्तु शिवं चास्तु प्रशाम्यत्वसुखं च यत्।
वासुदेवशरीरोत्थैः कुशैर्निर्मार्जितं मया ॥५८॥
विश्वास-प्रस्तुतिः
अपामार्जति गोविन्दो नरो नारायणस्तथा।
तवास्तु सर्वदुःखानां प्रशमो वचनाद्धरेः ॥५९॥
मूलम्
अपामार्जति गोविन्दो नरो नारायणस्तथा।
तवास्तु सर्वदुःखानां प्रशमो वचनाद्धरेः ॥५९॥
इदं शास्त्रं पठेद्यस्तु सप्ताहन्नियतः शुचिः।
विश्वास-प्रस्तुतिः
शान्तिं समस्तरोगास्ते ग्रहाः सर्वे विषानि च।
भूतानि च प्रयान्त्वीशे संस्मृते मधुसूदने ॥६०॥
मूलम्
शान्तिं समस्तरोगास्ते ग्रहाः सर्वे विषानि च।
भूतानि च प्रयान्त्वीशे संस्मृते मधुसूदने ॥६०॥
विश्वास-प्रस्तुतिः
एतत्समस्तरोगेषु भूतग्रहभयेषु च।
अपमार्जनकं शस्तं विष्णुनामाभिमन्त्रितम् ॥६१॥
मूलम्
एतत्समस्तरोगेषु भूतग्रहभयेषु च।
अपमार्जनकं शस्तं विष्णुनामाभिमन्त्रितम् ॥६१॥
विश्वास-प्रस्तुतिः
एते कुशा विष्णुशरीरसम्भवा जनार्दनोऽहं स्वयं एव चागतः।
हतं मया दुष्टमशेषमस्य स्वस्थो भवत्येष वचो यथा हरेः ॥६२॥
मूलम्
एते कुशा विष्णुशरीरसम्भवा जनार्दनोऽहं स्वयं एव चागतः।
हतं मया दुष्टमशेषमस्य स्वस्थो भवत्येष वचो यथा हरेः ॥६२॥
विश्वास-प्रस्तुतिः
शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु।
यदस्य दुरितं किञ्चित्तत्क्षिप्तं लवणार्णवे ॥६३॥
मूलम्
शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु।
यदस्य दुरितं किञ्चित्तत्क्षिप्तं लवणार्णवे ॥६३॥
विश्वास-प्रस्तुतिः
स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात्।
यत एवागतं पापं तत्रैव प्रतिगच्छतु ॥६४॥
मूलम्
स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात्।
यत एवागतं पापं तत्रैव प्रतिगच्छतु ॥६४॥
विश्वास-प्रस्तुतिः
एतद्रोगादिपीडासु जन्तूनां हितमिच्छता।
विष्णुभक्तेन कर्तव्यमपमार्जनकं परम् ॥६५॥
मूलम्
एतद्रोगादिपीडासु जन्तूनां हितमिच्छता।
विष्णुभक्तेन कर्तव्यमपमार्जनकं परम् ॥६५॥
विश्वास-प्रस्तुतिः
अनेन सर्वदुष्टानि प्रशमं यान्त्यसंशयम्।
सर्वभूतहितार्थाय कुर्यात्तस्मात्सदैव हि ॥६६॥
मूलम्
अनेन सर्वदुष्टानि प्रशमं यान्त्यसंशयम्।
सर्वभूतहितार्थाय कुर्यात्तस्मात्सदैव हि ॥६६॥
सर्वापराधशमनमपामार्जनकं परम् ॥९१॥
एतत्स्तोत्रमिदं पुण्यं पठेदायुष्यवर्धनम् ॥९२॥
विनाशाय च रोगाणामवमृत्युक्षयाय च ॥९३॥
व्याघ्रापस्मारकुष्ठादि पिशाचोरगराक्षसाः ॥९४॥
तस्य पार्श्वं न गच्छन्ति स्तोत्रमेतद्यथा पठेत् ॥९५॥
स्मरञ्जपन्निदं स्तोत्रं सर्वव्याधिविनाशनम् ॥९६॥
पठतां शृण्वतां नित्यं विष्णुलोकं स गच्छति ॥९७॥
इति विष्णुधर्मेषु सर्वबाधाप्रशमनं नाम अष्टाविंशोऽध्यायः।