अथ सप्तविंशोऽध्यायः।
पुलस्त्य उवाच।
अत्रापि श्रूयते सिद्धा काचित्स्वर्गे महाव्रता।
विश्वास-प्रस्तुतिः
नारी तपोधना भूत्वा प्रख्याता शाम्भरायणी।
समस्तसन्देहहरा सदा स्वर्गौकसां हि सा ॥१॥
मूलम्
नारी तपोधना भूत्वा प्रख्याता शाम्भरायणी।
समस्तसन्देहहरा सदा स्वर्गौकसां हि सा ॥१॥
विश्वास-प्रस्तुतिः
कस्यचित्त्वथ कालस्य देवराजः शतक्रतुः।
पूर्वेन्द्रचरितं ब्रह्मन्पप्रच्छेदं बृहस्पतिम् ॥२॥
मूलम्
कस्यचित्त्वथ कालस्य देवराजः शतक्रतुः।
पूर्वेन्द्रचरितं ब्रह्मन्पप्रच्छेदं बृहस्पतिम् ॥२॥
विश्वास-प्रस्तुतिः
पूर्वेन्द्रापरतः पूर्वे ये बभूवुः सुरेश्वराः।
तेषां चरितमिच्छामि श्रोतुमाङ्गिरसां वर ॥३॥
मूलम्
पूर्वेन्द्रापरतः पूर्वे ये बभूवुः सुरेश्वराः।
तेषां चरितमिच्छामि श्रोतुमाङ्गिरसां वर ॥३॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एवमुक्तस्तदा तेन देवेन्द्रेणामलद्युतिः।
प्राह धर्मभृतां श्रेष्ठः परमर्षिर्बृहस्पतिः ॥४॥
मूलम्
एवमुक्तस्तदा तेन देवेन्द्रेणामलद्युतिः।
प्राह धर्मभृतां श्रेष्ठः परमर्षिर्बृहस्पतिः ॥४॥
विश्वास-प्रस्तुतिः
नाहं चिरन्तनान्वेद्मि देवराज सुरेश्वरान्।
आत्मनः समकालीनं मामवैहि सुरेश्वर ॥५॥
मूलम्
नाहं चिरन्तनान्वेद्मि देवराज सुरेश्वरान्।
आत्मनः समकालीनं मामवैहि सुरेश्वर ॥५॥
विश्वास-प्रस्तुतिः
ततः पप्रच्छ देवेन्द्रः कोऽस्माभिर्मुनिपुङ्गव।
प्रष्टव्योऽत्र महाभाग कृतादिवसतिर्दिवि ॥६॥
मूलम्
ततः पप्रच्छ देवेन्द्रः कोऽस्माभिर्मुनिपुङ्गव।
प्रष्टव्योऽत्र महाभाग कृतादिवसतिर्दिवि ॥६॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
बृहस्पतिश्चिरं ध्यात्वा पुनराह शचीपतिम्।
तपस्विनीं महाभागां स्मृत्वासौ शाम्भरायणीम् ॥७॥
मूलम्
बृहस्पतिश्चिरं ध्यात्वा पुनराह शचीपतिम्।
तपस्विनीं महाभागां स्मृत्वासौ शाम्भरायणीम् ॥७॥
विश्वास-प्रस्तुतिः
न देवा न च गन्धर्वा न चान्ये चिरसंस्थिताः।
चिरन्तनानां चरितेष्वभिज्ञा त्रिदशेश्वर ॥८॥
मूलम्
न देवा न च गन्धर्वा न चान्ये चिरसंस्थिताः।
चिरन्तनानां चरितेष्वभिज्ञा त्रिदशेश्वर ॥८॥
विश्वास-प्रस्तुतिः
एकैव चिरकालज्ञा धर्मज्ञा शक्र केवलम्।
जानात्यखिलदेवेन्द्रचरितं शाम्भरायणी ॥९॥
मूलम्
एकैव चिरकालज्ञा धर्मज्ञा शक्र केवलम्।
जानात्यखिलदेवेन्द्रचरितं शाम्भरायणी ॥९॥
विश्वास-प्रस्तुतिः
इत्युक्तस्तेन देवेन्द्रः कौतूहलसमन्वितः।
ययौ यत्र महाभागा तापसी शाम्भरायणी ॥१०॥
मूलम्
इत्युक्तस्तेन देवेन्द्रः कौतूहलसमन्वितः।
ययौ यत्र महाभागा तापसी शाम्भरायणी ॥१०॥
विश्वास-प्रस्तुतिः
सा तौ दृष्ट्वा समायातौ देवराजबृहस्पती।
सम्यगर्घ्येन सम्पूज्य प्रणिपत्य शुभव्रता ॥११॥
मूलम्
सा तौ दृष्ट्वा समायातौ देवराजबृहस्पती।
सम्यगर्घ्येन सम्पूज्य प्रणिपत्य शुभव्रता ॥११॥
शाम्भरायण्युवाच।
विश्वास-प्रस्तुतिः
नमोऽस्तु देवराजाय तथैवाङ्गिरसे नमः।
यद्वां कार्यं महाभागौ सकलं तदिहोच्यताम् ॥१२॥
मूलम्
नमोऽस्तु देवराजाय तथैवाङ्गिरसे नमः।
यद्वां कार्यं महाभागौ सकलं तदिहोच्यताम् ॥१२॥
बृहस्पतिरुवाच।
विश्वास-प्रस्तुतिः
आवामभ्यागतौ प्रष्टुं त्वामत्रातिविवेकिनीम्।
यच्च कार्यं महाभागे तत्पृष्टा कथयेह नौ ॥१३॥
मूलम्
आवामभ्यागतौ प्रष्टुं त्वामत्रातिविवेकिनीम्।
यच्च कार्यं महाभागे तत्पृष्टा कथयेह नौ ॥१३॥
विश्वास-प्रस्तुतिः
यदि स्मरसि कल्याणि पूर्वेन्द्रचरितानि नौ।
तदाख्याहि महाभागे देवेन्द्रस्य कुतूहलात् ॥१४॥
मूलम्
यदि स्मरसि कल्याणि पूर्वेन्द्रचरितानि नौ।
तदाख्याहि महाभागे देवेन्द्रस्य कुतूहलात् ॥१४॥
शाम्भरायण्युवाच।
यदि शक्यं मया कर्तुं तत्करिष्ये विमृष्यतु।
विश्वास-प्रस्तुतिः
यो वै पूर्वः सुरेन्द्रस्य ततश्च प्रथमो हि यः।
तस्मात्पूर्वतरो यश्च तस्यापि प्रथमाश्च ये ॥१५॥
मूलम्
यो वै पूर्वः सुरेन्द्रस्य ततश्च प्रथमो हि यः।
तस्मात्पूर्वतरो यश्च तस्यापि प्रथमाश्च ये ॥१५॥
विश्वास-प्रस्तुतिः
तेषां पूर्वतरा ये च वेद्मि तानखिलानहम्।
तेषां च चरितं कृत्स्नं जानाम्याङ्गिरसां वर ॥१६॥
मूलम्
तेषां पूर्वतरा ये च वेद्मि तानखिलानहम्।
तेषां च चरितं कृत्स्नं जानाम्याङ्गिरसां वर ॥१६॥
मन्वन्तराण्यनेकानि सृष्टिं च त्रिदिवौकसाम्।
विश्वास-प्रस्तुतिः
सप्तर्षीन्सुबहून्देव मनूनां च सुतान्नृप।
तत्पृच्छ त्वं वदाम्येषा पूर्वेन्द्रचरितं मुने ॥१७॥
मूलम्
सप्तर्षीन्सुबहून्देव मनूनां च सुतान्नृप।
तत्पृच्छ त्वं वदाम्येषा पूर्वेन्द्रचरितं मुने ॥१७॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एवमुक्ते ततस्ताभ्यां पृष्टा सा शाम्भरायणी।
यथावदाचष्ट तयोः पूर्वेन्द्रचरितं द्विज ॥१८॥
मूलम्
एवमुक्ते ततस्ताभ्यां पृष्टा सा शाम्भरायणी।
यथावदाचष्ट तयोः पूर्वेन्द्रचरितं द्विज ॥१८॥
विश्वास-प्रस्तुतिः
स्वायम्भुवे यस्तु मनौ मनौ स्वारोचिषे तु यः।
उत्तमे तामसे चैव रैवते चाक्षुषे तथा ॥१९॥
मूलम्
स्वायम्भुवे यस्तु मनौ मनौ स्वारोचिषे तु यः।
उत्तमे तामसे चैव रैवते चाक्षुषे तथा ॥१९॥
विश्वास-प्रस्तुतिः
यो यो बभूव देवेन्द्रस्तस्य तस्य तपस्विनी।
तयोर्जगाद चरितं यथावच्छाम्भरायणी ॥२०॥
मूलम्
यो यो बभूव देवेन्द्रस्तस्य तस्य तपस्विनी।
तयोर्जगाद चरितं यथावच्छाम्भरायणी ॥२०॥
विश्वास-प्रस्तुतिः
ततः कौतूहलपरो देवराट्तां तपस्विनीम्।
उवाच जानासि कथं त्वमेतच्छाम्भरायणि ॥२१॥
मूलम्
ततः कौतूहलपरो देवराट्तां तपस्विनीम्।
उवाच जानासि कथं त्वमेतच्छाम्भरायणि ॥२१॥
शाम्भरायण्युवाच।
विश्वास-प्रस्तुतिः
सर्व एव हि देवेन्द्राः स्वर्गस्था ये मनीषिणः।
बभूवुरेतच्चरितमेतेषां वेद्मि तेन वै ॥२२॥
मूलम्
सर्व एव हि देवेन्द्राः स्वर्गस्था ये मनीषिणः।
बभूवुरेतच्चरितमेतेषां वेद्मि तेन वै ॥२२॥
इन्द्रउवाच।
विश्वास-प्रस्तुतिः
किं कृतं वद धर्मज्ञे त्वया येनेयमक्षया।
स्वर्लोके वसतिः प्राप्ता यथा नान्येन केनचित् ॥२३॥
मूलम्
किं कृतं वद धर्मज्ञे त्वया येनेयमक्षया।
स्वर्लोके वसतिः प्राप्ता यथा नान्येन केनचित् ॥२३॥
विश्वास-प्रस्तुतिः
अहो सर्वव्रतानां तदुपोषितं महद्व्रतम्।
प्रधानतरमत्यर्थं स्वर्गसंवासदं मतम् ॥२४॥
मूलम्
अहो सर्वव्रतानां तदुपोषितं महद्व्रतम्।
प्रधानतरमत्यर्थं स्वर्गसंवासदं मतम् ॥२४॥
पुलस्त्य उवाच।
चरितं च मया तेषां श्रुतं दृष्टं तथैव च।
विश्वास-प्रस्तुतिः
एवमुक्ता ततस्तेन देवेन्द्रेण यशस्विनी।
प्रत्युवाच महाभागा यथावच्छाम्भरायणी ॥२५॥
मूलम्
एवमुक्ता ततस्तेन देवेन्द्रेण यशस्विनी।
प्रत्युवाच महाभागा यथावच्छाम्भरायणी ॥२५॥
शाम्भरायण्युवाच।
विश्वास-प्रस्तुतिः
मासर्क्षेष्वच्युतो देवः प्रतिमासं सुरेश्वर।
यथोक्तव्रतया सम्यक् सप्त वर्षाणि पूजितः ॥२६॥
मूलम्
मासर्क्षेष्वच्युतो देवः प्रतिमासं सुरेश्वर।
यथोक्तव्रतया सम्यक् सप्त वर्षाणि पूजितः ॥२६॥
विश्वास-प्रस्तुतिः
तस्येयं कर्मणो व्युष्टिरच्युताराधनस्य मे।
देवलोकादभिमता देवराज यदच्युतिः ॥२७॥
मूलम्
तस्येयं कर्मणो व्युष्टिरच्युताराधनस्य मे।
देवलोकादभिमता देवराज यदच्युतिः ॥२७॥
विश्वास-प्रस्तुतिः
स्वर्गं द्रव्यमयैश्वर्यं सन्ततिं वापि योऽच्युताम्।
नरो वाञ्छति तेनेत्थं तोषणीयोऽच्युतः प्रभुः ॥२८॥
मूलम्
स्वर्गं द्रव्यमयैश्वर्यं सन्ततिं वापि योऽच्युताम्।
नरो वाञ्छति तेनेत्थं तोषणीयोऽच्युतः प्रभुः ॥२८॥
विश्वास-प्रस्तुतिः
एतत्ते पूर्वदेवेन्द्रचरितं सकलं मया।
स्वर्गवासाक्षयत्वं च मासर्क्षाच्युतपूजनात् ॥२९॥
मूलम्
एतत्ते पूर्वदेवेन्द्रचरितं सकलं मया।
स्वर्गवासाक्षयत्वं च मासर्क्षाच्युतपूजनात् ॥२९॥
यथावत्कथितं देव पृच्छतस्त्रिदशेश्वर।
विश्वास-प्रस्तुतिः
धर्मार्थकाममोक्षांस्तु वाञ्छतां विबुधाधिप।
विष्णोराराधनान्नान्यत्परमं सिद्धिकारणम् ॥३०॥
मूलम्
धर्मार्थकाममोक्षांस्तु वाञ्छतां विबुधाधिप।
विष्णोराराधनान्नान्यत्परमं सिद्धिकारणम् ॥३०॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
तस्यास्तद्वचनं श्रुत्वा देवराजबृहस्पती।
तां तथेत्यूचतुः साध्वीं चेरतुश्चापि तद्व्रतम् ॥३१॥
मूलम्
तस्यास्तद्वचनं श्रुत्वा देवराजबृहस्पती।
तां तथेत्यूचतुः साध्वीं चेरतुश्चापि तद्व्रतम् ॥३१॥
विश्वास-प्रस्तुतिः
तस्माद्दाल्भ्य प्रयत्नेन प्रतिमासं समाहितः।
मासर्क्षाच्युतपूजायां भवेथास्तन्मनाः सदा ॥३२॥
मूलम्
तस्माद्दाल्भ्य प्रयत्नेन प्रतिमासं समाहितः।
मासर्क्षाच्युतपूजायां भवेथास्तन्मनाः सदा ॥३२॥
इति विष्णुधर्मेषु मासर्क्षपूजाप्रशंसा।