०२६

अथ षड्विंशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

अप्राप्तिर्न तथा दुःखमैश्वर्यादेर्द्विजोत्तम।
यथा मनोरथैर्लब्धैर्विच्युतिर्धर्महानिजा ॥१॥

मूलम्

ऐश्वर्याद्वित्ततो वापि सन्ततेर्देवलोकतः।
अभीष्टादन्यतो वापि पदाद्येन न विच्युतिम् ॥२॥

प्राप्नोति पुरुषो ब्रह्मन्नारी वापुण्यसङ्क्षयात्।
तन्ममाचक्ष्व विप्रर्षे दुःखमेभ्यो हि विच्युतिः ॥३॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

सत्यमेतन्महाभाग दुःखं प्राप्तस्य सङ्क्षयः।
ऐश्वर्यादथ वित्तस्य बन्धुवर्गसुखस्य वा ॥४॥

तदेतच्छ्रूयतां दाल्भ्य यथा नेष्टात्परिच्युतिः।
सर्गादेर्जायते सम्यगुपवासवतां सताम् ॥५॥

द्वादशर्क्षाणि विप्रर्षे प्रतिमासं तु यानि वै।
तन्नामान्यच्युतं तेषु सम्यक् सम्पूजयेद्बुधः ॥६॥

पुष्पैर्धूपैस्तथाम्भोभिरभीष्टैरपरैस्तथा।
आदितः कृत्तिकां कृत्वा कार्त्तिके मुनिपुङ्गव ॥७॥

नैवेद्यं कृसरं पूर्वमन्नं मासचतुष्टयम्।
निवेदयेत्कार्त्तिकादि संयावं च ततः परम् ॥८॥

आषाढादौ च देवाय पायसं वै निवेदयेत्।
तेनैवान्नेन विप्रर्षे ब्राह्मणान्भोजयेद्बुधः ॥९॥

पञ्चगव्यजलस्नातस्तस्यैव प्राशनाच्छुचिः।
नैवेद्यं स्वयमश्नीयान्नक्तं सम्पूजितेऽच्युते ॥१०॥

एवं संवत्सरस्यान्ते ततः सुप्तोत्थितेऽच्युते।

विश्वास-प्रस्तुतिः

संयक् सम्पूज्य विप्रर्षे तमेव पुरुषोत्तमम्।
प्रणम्य प्रार्थयेद्विद्वाञ्शुचिः स्नातो यथाविधि ॥११॥

नमो नमस्तेऽच्युत सङ्क्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम्।
ऐश्वर्यवित्तादि सदाक्षयं मेऽक्षया च मे सन्ततिरच्युतास्तु ॥१२॥

यथाच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतात्परतः परात्मन्।
तथाच्युतं मे कुरु वाञ्छितं यन्मया पदं पापहराप्रमेय ॥१३॥

अच्युतानन्त गोविन्द प्रसीद यदभीप्सितम्।
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ॥१४॥

मूलम्

अच्युतानन्त गोविन्द प्रसीद यदभीप्सितम्।
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ॥१४॥

विश्वास-प्रस्तुतिः

एवमन्ते समभ्यर्च्य प्रार्थयित्वा तथाशिषः।
यथावन्मुनिशार्दूल च्युतिं नाप्नोति मानवः ॥१५॥

सन्ततेः स्वर्गवित्तादेरैश्वर्यस्य तथा मुने।
यद्वाभिमतमत्यन्तं ततो न च्यवते नरः ॥१६॥

तस्मात्सर्वप्रयत्नेन मासनक्षत्रपूजने।
यतेताक्षयकामस्तु सदैव मुनिपुङ्गव ॥१७॥

मूलम्

तस्मात्सर्वप्रयत्नेन मासनक्षत्रपूजने।
यतेताक्षयकामस्तु सदैव मुनिपुङ्गव ॥१७॥

इति विष्णुधर्मेषु मासर्क्षपूजा।