०२५

अथ पञ्चदशोऽध्यायः।
दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

पाषण्डिभिरसंस्पर्शमसम्भाषणमेव च।
विष्णोराराधनपरैर्नरैः कार्यमुपोषितैः ॥१॥

मूलम्

पाषण्डिभिरसंस्पर्शमसम्भाषणमेव च।
विष्णोराराधनपरैर्नरैः कार्यमुपोषितैः ॥१॥

विश्वास-प्रस्तुतिः

किं ब्रूहि लक्षणं तेषां यादृशान्वर्जयेद्व्रती।
कथञ्चिद्यदि संलापदर्शनस्पर्शनादिकम् ॥२॥

मूलम्

किं ब्रूहि लक्षणं तेषां यादृशान्वर्जयेद्व्रती।
कथञ्चिद्यदि संलापदर्शनस्पर्शनादिकम् ॥२॥

विश्वास-प्रस्तुतिः

उपोषितानां पाषण्डैर्नराणां विप्र जायते।
किं तत्र वद कर्तव्यं येनाखण्डंव्रतं भवेत् ॥३॥

मूलम्

उपोषितानां पाषण्डैर्नराणां विप्र जायते।
किं तत्र वद कर्तव्यं येनाखण्डंव्रतं भवेत् ॥३॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

श्रुतिस्मृत्युदितं धर्मं वर्णाश्रमविभागजम्।
उल्लङ्घ्य ये प्रवर्तन्ते स्वेच्छया कूटयुक्तिभिः ॥४॥

मूलम्

श्रुतिस्मृत्युदितं धर्मं वर्णाश्रमविभागजम्।
उल्लङ्घ्य ये प्रवर्तन्ते स्वेच्छया कूटयुक्तिभिः ॥४॥

विश्वास-प्रस्तुतिः

विकर्माभिरता मूढा युक्तिप्रागल्भ्यदुर्मदाः।
पाषण्डिनस्ते दुःशीला नरकार्हा नराधमाः ॥५॥

मूलम्

विकर्माभिरता मूढा युक्तिप्रागल्भ्यदुर्मदाः।
पाषण्डिनस्ते दुःशीला नरकार्हा नराधमाः ॥५॥

विश्वास-प्रस्तुतिः

तांस्तु पाषण्डिनः पापान्विकर्मस्थांश्च मानवान्।
वैडालव्रतिकांश्चैव नित्यमेव तु नालपेत् ॥६॥

मूलम्

तांस्तु पाषण्डिनः पापान्विकर्मस्थांश्च मानवान्।
वैडालव्रतिकांश्चैव नित्यमेव तु नालपेत् ॥६॥

विश्वास-प्रस्तुतिः

सम्भाष्यैताञ्शुचिषदं चिन्तयेदच्युतं बुधः।
इदं चोदाहरेत्सम्यक् कृत्वा तत्प्रवणं मनः ॥७॥

मूलम्

सम्भाष्यैताञ्शुचिषदं चिन्तयेदच्युतं बुधः।
इदं चोदाहरेत्सम्यक् कृत्वा तत्प्रवणं मनः ॥७॥

विश्वास-प्रस्तुतिः

शारीरमन्तःकरणोपघातं वाचश्च विष्णुर्भगवानशेषम्।
शमं नयत्वस्तु ममेह शर्म पापादनन्ते हृदि सन्निविष्टे ॥८॥

मूलम्

शारीरमन्तःकरणोपघातं वाचश्च विष्णुर्भगवानशेषम्।
शमं नयत्वस्तु ममेह शर्म पापादनन्ते हृदि सन्निविष्टे ॥८॥

विश्वास-प्रस्तुतिः

अन्तःशुद्धिं बहिःशुद्धिं शुद्धोऽन्तर्मम योऽच्युतः।
स करोत्वमले तस्मिञ्शुचिरेवास्मि सर्वदा ॥९॥

मूलम्

अन्तःशुद्धिं बहिःशुद्धिं शुद्धोऽन्तर्मम योऽच्युतः।
स करोत्वमले तस्मिञ्शुचिरेवास्मि सर्वदा ॥९॥

विश्वास-प्रस्तुतिः

बाह्योपघातादनघो बोद्धा च भगवानजः।
शुद्धिं नयत्वनन्तात्मा विष्णुश्चेतसि संस्थितः ॥१०॥

मूलम्

बाह्योपघातादनघो बोद्धा च भगवानजः।
शुद्धिं नयत्वनन्तात्मा विष्णुश्चेतसि संस्थितः ॥१०॥

विश्वास-प्रस्तुतिः

एतत्सम्भाष्य जप्तव्यं पाषण्डिभिरुपोषितैः।
नमः शुचिषदेत्युक्त्वा सूर्यं पश्येत वीक्षितैः ॥११॥

मूलम्

एतत्सम्भाष्य जप्तव्यं पाषण्डिभिरुपोषितैः।
नमः शुचिषदेत्युक्त्वा सूर्यं पश्येत वीक्षितैः ॥११॥

विश्वास-प्रस्तुतिः

श्रूयते च पुरा मर्त्याः स्वेच्छया स्वर्गगामिनः।
बभूवुरनघाः सर्वे स्वधर्मपरिपालनात् ॥१२॥

मूलम्

श्रूयते च पुरा मर्त्याः स्वेच्छया स्वर्गगामिनः।
बभूवुरनघाः सर्वे स्वधर्मपरिपालनात् ॥१२॥

विश्वास-प्रस्तुतिः

देवाश्च बलिनो मर्त्यैर्वर्णकर्मण्यनुव्रतैः।
यज्ञाध्ययनदानेषु वर्तमानैश्च मानवैः ॥१३॥

मूलम्

देवाश्च बलिनो मर्त्यैर्वर्णकर्मण्यनुव्रतैः।
यज्ञाध्ययनदानेषु वर्तमानैश्च मानवैः ॥१३॥

दैतेयाश्च पराभावमतुष्टावसुरा ययुः।

विश्वास-प्रस्तुतिः

ततश्च षण्डो मर्कश्च दैत्येन्द्राणां पुरोहितौ।
चक्रतुः कर्म देवानां विनाशायातिभीषणम् ॥१४॥

मूलम्

ततश्च षण्डो मर्कश्च दैत्येन्द्राणां पुरोहितौ।
चक्रतुः कर्म देवानां विनाशायातिभीषणम् ॥१४॥

विश्वास-प्रस्तुतिः

तत्रोत्पन्नोऽतिकृष्णाङ्गस्तमःप्रायोऽतिदारुणः।
दम्भाधारः शाठ्यसारो निद्राप्रकृतिरुल्वणः ॥१५॥

मूलम्

तत्रोत्पन्नोऽतिकृष्णाङ्गस्तमःप्रायोऽतिदारुणः।
दम्भाधारः शाठ्यसारो निद्राप्रकृतिरुल्वणः ॥१५॥

विश्वास-प्रस्तुतिः

महामोह इति ख्यातः कृत्यरूपो विभीषणः।
चतुर्धा स विभक्तश्च ताभामत्र महीयते ॥१६॥

मूलम्

महामोह इति ख्यातः कृत्यरूपो विभीषणः।
चतुर्धा स विभक्तश्च ताभामत्र महीयते ॥१६॥

विश्वास-प्रस्तुतिः

वेददेवद्विजातीनामेकांशेन स निन्दनम्।
करोत्यन्येन न रतिं योगकर्मसु विन्दति ॥१७॥

मूलम्

वेददेवद्विजातीनामेकांशेन स निन्दनम्।
करोत्यन्येन न रतिं योगकर्मसु विन्दति ॥१७॥

विश्वास-प्रस्तुतिः

विकर्मण्यपरेणापि संयोजयति मानवान्।
ज्ञानापहारमन्येन करोति द्विजसत्तम ॥१८॥

मूलम्

विकर्मण्यपरेणापि संयोजयति मानवान्।
ज्ञानापहारमन्येन करोति द्विजसत्तम ॥१८॥

विश्वास-प्रस्तुतिः

ज्ञानबुद्ध्या तथाज्ञानं गृह्णात्यज्ञानमोहितः।
वेदवादविरोधेन या कथा सास्य रोचते ॥१९॥

मूलम्

ज्ञानबुद्ध्या तथाज्ञानं गृह्णात्यज्ञानमोहितः।
वेदवादविरोधेन या कथा सास्य रोचते ॥१९॥

विश्वास-प्रस्तुतिः

एवं स तु महामोहः षण्डमर्कोपपादितः।
दम्भादिदूषितोऽधर्मस्वरूपोऽतिभयङ्कर ॥२०॥

मूलम्

एवं स तु महामोहः षण्डमर्कोपपादितः।
दम्भादिदूषितोऽधर्मस्वरूपोऽतिभयङ्कर ॥२०॥

विश्वास-प्रस्तुतिः

स लोकान्विविधोपायैर्लोकेष्वेव व्यवस्थितः।
मोहाभिभवनिःसाराण्करोति द्विजसत्तम ॥२१॥

मूलम्

स लोकान्विविधोपायैर्लोकेष्वेव व्यवस्थितः।
मोहाभिभवनिःसाराण्करोति द्विजसत्तम ॥२१॥

विश्वास-प्रस्तुतिः

तन्मोहितानामचिराद्विवेको याति सङ्क्षयम्।
क्षीणज्ञाना विकर्माणि कुर्वन्त्यहरहो द्विज ॥२२॥

मूलम्

तन्मोहितानामचिराद्विवेको याति सङ्क्षयम्।
क्षीणज्ञाना विकर्माणि कुर्वन्त्यहरहो द्विज ॥२२॥

विश्वास-प्रस्तुतिः

निजवर्णात्मकं धर्मं परित्यज्य विमोहिताः।
धर्मबुद्ध्या ततः पापं कुर्वन्त्यज्ञानदुर्मदाः ॥२३॥

मूलम्

निजवर्णात्मकं धर्मं परित्यज्य विमोहिताः।
धर्मबुद्ध्या ततः पापं कुर्वन्त्यज्ञानदुर्मदाः ॥२३॥

ज्ञानावलेपस्तत्रैव ततस्तेषां प्रजायते।

विश्वास-प्रस्तुतिः

सुहृद्भिर्वार्यमाणास्ते पण्डितैश्च दयालुभिः।
प्रयच्छन्त्युत्तरं ऊढाः कूटयुक्तिसमन्वितम् ॥२४॥

मूलम्

सुहृद्भिर्वार्यमाणास्ते पण्डितैश्च दयालुभिः।
प्रयच्छन्त्युत्तरं ऊढाः कूटयुक्तिसमन्वितम् ॥२४॥

विश्वास-प्रस्तुतिः

ततस्ते स्वयमात्मानमन्यं चाल्पमतिं नरम्।
विकर्मणा योजयन्तश्च्यवयन्ति स्वधर्मतः ॥२५॥

मूलम्

ततस्ते स्वयमात्मानमन्यं चाल्पमतिं नरम्।
विकर्मणा योजयन्तश्च्यवयन्ति स्वधर्मतः ॥२५॥

विश्वास-प्रस्तुतिः

पाषण्डिनो दुराचाराः परान्नगुणवादिनः।
असंस्कृतान्नभोक्तारो व्रात्याः संस्कारवर्जिताः ॥२६॥

मूलम्

पाषण्डिनो दुराचाराः परान्नगुणवादिनः।
असंस्कृतान्नभोक्तारो व्रात्याः संस्कारवर्जिताः ॥२६॥

पाषण्डाः पापसङ्कल्पा दाम्भिकाः शठबुद्धयः।

विश्वास-प्रस्तुतिः

वर्णसङ्करकर्तारो मायाव्याजोपजीविनः।
निःशौचा वक्रमतयो नान्यदस्तीतिवादिनः ॥२७॥

मूलम्

वर्णसङ्करकर्तारो मायाव्याजोपजीविनः।
निःशौचा वक्रमतयो नान्यदस्तीतिवादिनः ॥२७॥

एवंविधास्ते सन्मार्गाद्वेदप्रोक्ताद्बहिःस्थिताः।

विश्वास-प्रस्तुतिः

क्रियाकलापं निन्दन्त ऋग्यजुःसामसञ्ज्ञितम्।
आत्मानं च परांश्चैव कुर्वन्ति नरकस्थितान् ॥२८॥

मूलम्

क्रियाकलापं निन्दन्त ऋग्यजुःसामसञ्ज्ञितम्।
आत्मानं च परांश्चैव कुर्वन्ति नरकस्थितान् ॥२८॥

तेषां दर्शनसम्भाषस्पर्शनानि नरैः सदा।

विश्वास-प्रस्तुतिः

परित्याज्यानि दृष्टे च प्रोक्तः सम्भाषणे च यः।
संस्पर्शे च बुधः स्नात्वा शुचिः शुचिषदं स्मरेत् ॥२९॥

मूलम्

परित्याज्यानि दृष्टे च प्रोक्तः सम्भाषणे च यः।
संस्पर्शे च बुधः स्नात्वा शुचिः शुचिषदं स्मरेत् ॥२९॥

विश्वास-प्रस्तुतिः

भवत्यतः सदैवैषामालापस्पर्१शनं त्यजेत्।
पुण्यकामो महाभागः किं पुनर्यदुपोषितः ॥३०॥

मूलम्

भवत्यतः सदैवैषामालापस्पर्१शनं त्यजेत्।
पुण्यकामो महाभागः किं पुनर्यदुपोषितः ॥३०॥

यतो हि निन्दिते कर्मण्यभ्यासो रतिरेव च।

विश्वास-प्रस्तुतिः

पाषण्डिनामशेषाणामप्रीतिर्वेदकर्मणि।
ते ह्यधोगामिनः प्रोक्ता आसुरं भावमाश्रिताः ॥३१॥

मूलम्

पाषण्डिनामशेषाणामप्रीतिर्वेदकर्मणि।
ते ह्यधोगामिनः प्रोक्ता आसुरं भावमाश्रिताः ॥३१॥

इति विष्णुधर्मेषु पाषण्डालापप्रायश्चित्तम्।