अथ चतुर्विंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
अतीवभीषणानित्थं शस्त्राग्निभयदान्नरः।
कथं न गच्छेन्नरकानेतन्मे वक्तुमर्हसि ॥१॥
मूलम्
अतीवभीषणानित्थं शस्त्राग्निभयदान्नरः।
कथं न गच्छेन्नरकानेतन्मे वक्तुमर्हसि ॥१॥
विश्वास-प्रस्तुतिः
अहोऽतिकष्टपापानां विपाको नरकस्थितैः।
पुरुषैर्भुज्यते ब्रह्मंस्तन्मोक्षं वद सत्तम ॥२॥
मूलम्
अहोऽतिकष्टपापानां विपाको नरकस्थितैः।
पुरुषैर्भुज्यते ब्रह्मंस्तन्मोक्षं वद सत्तम ॥२॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
पुण्यस्य कर्मणः पाकः पुण्य एव द्विजोत्तम।
चेतसः परिणामोत्तः स्वर्गस्थैर्भुज्यते नरैः ॥३॥
मूलम्
पुण्यस्य कर्मणः पाकः पुण्य एव द्विजोत्तम।
चेतसः परिणामोत्तः स्वर्गस्थैर्भुज्यते नरैः ॥३॥
विश्वास-प्रस्तुतिः
तथैव पाकः पापानां पुरुषैर्नरकस्थितैः।
भुज्यते तावदखिलं यावत्पापं क्षयं गतम् ॥४॥
मूलम्
तथैव पाकः पापानां पुरुषैर्नरकस्थितैः।
भुज्यते तावदखिलं यावत्पापं क्षयं गतम् ॥४॥
विश्वास-प्रस्तुतिः
यदा तु पापस्य जयः क्षीयते सुकृतं तदा।
शुभस्य कर्मणो वृद्धौ क्षयमायात्यशोभनम् ॥५॥
मूलम्
यदा तु पापस्य जयः क्षीयते सुकृतं तदा।
शुभस्य कर्मणो वृद्धौ क्षयमायात्यशोभनम् ॥५॥
विश्वास-प्रस्तुतिः
जये यतेत पुरुषस्तस्मात्सुकृतकर्मणः।
पापं कर्म विना नैव नरकप्राप्तिरिष्यते ॥६॥
मूलम्
जये यतेत पुरुषस्तस्मात्सुकृतकर्मणः।
पापं कर्म विना नैव नरकप्राप्तिरिष्यते ॥६॥
विश्वास-प्रस्तुतिः
जयाय द्वादशी शस्ता नॄणां सुकृतकर्मणाम्।
यामुपोष्य द्विजश्रेष्ठ न याति नरकं नरः ॥७॥
मूलम्
जयाय द्वादशी शस्ता नॄणां सुकृतकर्मणाम्।
यामुपोष्य द्विजश्रेष्ठ न याति नरकं नरः ॥७॥
विश्वास-प्रस्तुतिः
फाल्गुनामलपक्षस्य एकादश्यामुपोषितः।
द्वादश्यां तु द्विजश्रेष्ठ पूजयेन्मधुसूदनम् ॥८॥
मूलम्
फाल्गुनामलपक्षस्य एकादश्यामुपोषितः।
द्वादश्यां तु द्विजश्रेष्ठ पूजयेन्मधुसूदनम् ॥८॥
विश्वास-प्रस्तुतिः
एकादश्यां समुद्दिष्टं विष्णोर्नामानुकीर्तनम्।
पूजायां वासुदेवस्य कुर्वीत सुसमाहितः ॥९॥
मूलम्
एकादश्यां समुद्दिष्टं विष्णोर्नामानुकीर्तनम्।
पूजायां वासुदेवस्य कुर्वीत सुसमाहितः ॥९॥
विश्वास-प्रस्तुतिः
नमो नारायणायेति वाच्यं च स्वपता निशि।
क्रोधः प्रपञ्च ईर्ष्या च दम्भो लोभश्च वर्जितः ॥१०॥
मूलम्
नमो नारायणायेति वाच्यं च स्वपता निशि।
क्रोधः प्रपञ्च ईर्ष्या च दम्भो लोभश्च वर्जितः ॥१०॥
विश्वास-प्रस्तुतिः
कामो द्रोहो मदश्चापि मानमात्सर्यमेव च।
सर्वमेतत्परित्यज्य विष्णुभक्तेन चेतसा ॥११॥
मूलम्
कामो द्रोहो मदश्चापि मानमात्सर्यमेव च।
सर्वमेतत्परित्यज्य विष्णुभक्तेन चेतसा ॥११॥
असारतां च लोकेऽस्मिन्संसारे भावयेन्मतिम्।
कामं क्रोधं च लोभं च दम्भमीर्ष्यां च वर्जयेत्।
मानद्रोहादिदोषांश्च सर्वान्धनमदोद्भूतान्।
भावयेद्विष्णुभक्तांश्च संसारासारतां तथा।
विश्वास-प्रस्तुतिः
एवं भावितचित्तेन प्राणिनां हितमिच्छता।
तथैव कुर्याद्द्वादश्यां नाम्नामुच्चारणं द्विज ॥१२॥
मूलम्
एवं भावितचित्तेन प्राणिनां हितमिच्छता।
तथैव कुर्याद्द्वादश्यां नाम्नामुच्चारणं द्विज ॥१२॥
यवपात्राणि पूर्वं तु दद्यान्मासचतुष्टयम्।
विश्वास-प्रस्तुतिः
आषाढादिद्वितीयं तु पारणं यन्महामते।
तत्रापि घृतपात्राणि दद्याच्छ्रद्धासमन्वितः ॥१३॥
मूलम्
आषाढादिद्वितीयं तु पारणं यन्महामते।
तत्रापि घृतपात्राणि दद्याच्छ्रद्धासमन्वितः ॥१३॥
विश्वास-प्रस्तुतिः
कार्त्तिकादिषु मासेषु माघन्तेषु तथा तिलान्।
विप्राय दद्यात्पात्रस्ह्तान्प्रतिमासमुपोषितः ॥१४॥
मूलम्
कार्त्तिकादिषु मासेषु माघन्तेषु तथा तिलान्।
विप्राय दद्यात्पात्रस्ह्तान्प्रतिमासमुपोषितः ॥१४॥
नामत्रयमशेषेषु मासि मासि दिनद्वयम्।
विश्वास-प्रस्तुतिः
तथैवोच्चारयेद्दद्याद्द्वादश्यां च यवादिकम्।
प्रणम्य च हृषीकेशं कृतपूजः प्रसादयेत् ॥१५॥
मूलम्
तथैवोच्चारयेद्दद्याद्द्वादश्यां च यवादिकम्।
प्रणम्य च हृषीकेशं कृतपूजः प्रसादयेत् ॥१५॥
विश्वास-प्रस्तुतिः
विष्णो नमस्ते जगतः प्रसूते ॐ वासुदेवाय नमो नमस्ते।
नारायण त्वां प्रणतोऽस्म्यचिन्त्य जयोऽस्तु मे शाश्वतपुण्यराशेः ॥१६॥
मूलम्
विष्णो नमस्ते जगतः प्रसूते ॐ वासुदेवाय नमो नमस्ते।
नारायण त्वां प्रणतोऽस्म्यचिन्त्य जयोऽस्तु मे शाश्वतपुण्यराशेः ॥१६॥
विश्वास-प्रस्तुतिः
प्रसीद पुण्यं जयमेतु विष्णो ॐ वासुदेव र्द्धिमुपैतु पुण्यम्।
नारायणॐ भूतिमुपैतु पुण्यम् प्रयातु चाशेषमघं विनाशम् ॥१७॥
मूलम्
प्रसीद पुण्यं जयमेतु विष्णो ॐ वासुदेव र्द्धिमुपैतु पुण्यम्।
नारायणॐ भूतिमुपैतु पुण्यम् प्रयातु चाशेषमघं विनाशम् ॥१७॥
विश्वास-प्रस्तुतिः
विष्णो पुण्योद्भवो मेऽस्तु वासुदेवास्तु मे शुभम्।
नारायणास्तु धर्मो मे जहि पापमशेषतः ॥१८॥
मूलम्
विष्णो पुण्योद्भवो मेऽस्तु वासुदेवास्तु मे शुभम्।
नारायणास्तु धर्मो मे जहि पापमशेषतः ॥१८॥
विश्वास-प्रस्तुतिः
अनेकजन्मजनितं बाल्ययौवनवार्द्धिके।
पुण्यं विवृद्धिमायातु यातु पापं तु सङ्क्षयम् ॥१९॥
मूलम्
अनेकजन्मजनितं बाल्ययौवनवार्द्धिके।
पुण्यं विवृद्धिमायातु यातु पापं तु सङ्क्षयम् ॥१९॥
आकाशादिषु शब्दादौ श्रोत्रादौ महदादिषु।
विश्वास-प्रस्तुतिः
प्रकृतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः।
यथैक एव सर्वात्मा वासुदेवो व्यवस्थितः ॥२०॥
मूलम्
प्रकृतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः।
यथैक एव सर्वात्मा वासुदेवो व्यवस्थितः ॥२०॥
तेन सत्येन मे पापं नरकार्तिप्रदं क्षयम्।
विश्वास-प्रस्तुतिः
प्रयातु सुकृतस्यास्तु ममानुदिवसं जयः।
पापस्य हानिः पुण्यं च वृद्धिमभ्येत्यनुत्तमाम् ॥२१॥
मूलम्
प्रयातु सुकृतस्यास्तु ममानुदिवसं जयः।
पापस्य हानिः पुण्यं च वृद्धिमभ्येत्यनुत्तमाम् ॥२१॥
विश्वास-प्रस्तुतिः
एवमुच्चार्य विप्राय दत्त्वा यत्कथितं तव।
भुञ्जीत कृतकृत्यस्तु पारणे पारणे गते ॥२२॥
मूलम्
एवमुच्चार्य विप्राय दत्त्वा यत्कथितं तव।
भुञ्जीत कृतकृत्यस्तु पारणे पारणे गते ॥२२॥
विश्वास-प्रस्तुतिः
पारणान्ते च देवस्य प्रीणनं शक्तितो द्विज।
कुर्वीताखिलपाषण्डैरालापं च विवर्जयेत् ॥२३॥
मूलम्
पारणान्ते च देवस्य प्रीणनं शक्तितो द्विज।
कुर्वीताखिलपाषण्डैरालापं च विवर्जयेत् ॥२३॥
विश्वास-प्रस्तुतिः
इत्येतत्कथितं दाल्भ्य सुकृतस्य जयावहा।
द्वादशी नरकं मृत्यो यामुपोष्य न पश्यति ॥२४॥
मूलम्
इत्येतत्कथितं दाल्भ्य सुकृतस्य जयावहा।
द्वादशी नरकं मृत्यो यामुपोष्य न पश्यति ॥२४॥
विश्वास-प्रस्तुतिः
नाग्नयो न च शस्त्राणि न च लोहमूखाः खगाः।
नारकास्तं प्रबाधन्ते मतिर्यस्य जनार्दने ॥२५॥
मूलम्
नाग्नयो न च शस्त्राणि न च लोहमूखाः खगाः।
नारकास्तं प्रबाधन्ते मतिर्यस्य जनार्दने ॥२५॥
विश्वास-प्रस्तुतिः
नामोच्चारणमात्रेण विष्णोः क्षीणोऽघसञ्चयः।
भवत्यपास्तपापस्य नरके गमनं कुतः ॥२६॥
मूलम्
नामोच्चारणमात्रेण विष्णोः क्षीणोऽघसञ्चयः।
भवत्यपास्तपापस्य नरके गमनं कुतः ॥२६॥
विश्वास-प्रस्तुतिः
नमो नारायण हरे वासुदेवेति कीर्तयेत्।
न याति नरकं मर्त्यः सङ्क्षीणाशेषपातकः ॥२७॥
मूलम्
नमो नारायण हरे वासुदेवेति कीर्तयेत्।
न याति नरकं मर्त्यः सङ्क्षीणाशेषपातकः ॥२७॥
विश्वास-प्रस्तुतिः
तस्मात्पाषण्डिसंसर्गमकुर्वन्द्वादशीमिमाम्।
उपोष्य पुण्योपचयी न याति नरकं नरः ॥२८॥
मूलम्
तस्मात्पाषण्डिसंसर्गमकुर्वन्द्वादशीमिमाम्।
उपोष्य पुण्योपचयी न याति नरकं नरः ॥२८॥
इति विष्णुधर्मेषु नरकद्वादशी नाम चतुर्दशोऽध्यायः।