अथ त्रयोविंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
भगवन्यातना घोराः श्रूयन्ते नरकेषु याः।
तासां स्वरूपमत्युग्रं यथावद्वक्तुमर्हसि ॥१॥
मूलम्
भगवन्यातना घोराः श्रूयन्ते नरकेषु याः।
तासां स्वरूपमत्युग्रं यथावद्वक्तुमर्हसि ॥१॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
शृणु दाल्भ्यातिघोराणां यातनानां मयोदितम्।
स्वरूपं नारकैर्यत्तु नरकेष्वनुभूयते ॥२॥
मूलम्
शृणु दाल्भ्यातिघोराणां यातनानां मयोदितम्।
स्वरूपं नारकैर्यत्तु नरकेष्वनुभूयते ॥२॥
विश्वास-प्रस्तुतिः
योजनानां सहस्राणि रौरवो नरको द्विज।
अङ्गारपूर्णमध्योऽसौ ज्वालामालापरिष्कृतः ॥३॥
मूलम्
योजनानां सहस्राणि रौरवो नरको द्विज।
अङ्गारपूर्णमध्योऽसौ ज्वालामालापरिष्कृतः ॥३॥
विश्वास-प्रस्तुतिः
तन्मध्ये पतितो याति योजनानि सहस्रशः।
सत्यहान्यानृती याति तत्र पापरतिर्नरः ॥४॥
मूलम्
तन्मध्ये पतितो याति योजनानि सहस्रशः।
सत्यहान्यानृती याति तत्र पापरतिर्नरः ॥४॥
विश्वास-प्रस्तुतिः
रौरवाद्द्विगुणश्चैव महारौवरसञ्ज्ञितः।
तप्तताम्रपुटाङ्गारज्वलत्पावकसंवृतः ॥५॥
मूलम्
रौरवाद्द्विगुणश्चैव महारौवरसञ्ज्ञितः।
तप्तताम्रपुटाङ्गारज्वलत्पावकसंवृतः ॥५॥
विश्वास-प्रस्तुतिः
परोपतापिनस्तत्र पतन्ति नरके नराः।
नाश्चर्यं द्विजशार्दूल वर्षलक्षयुतानि च ॥६॥
मूलम्
परोपतापिनस्तत्र पतन्ति नरके नराः।
नाश्चर्यं द्विजशार्दूल वर्षलक्षयुतानि च ॥६॥
विश्वास-प्रस्तुतिः
कालसूत्रेण च्छिद्यन्ते चक्रारूढाश्च मानवाः।
कालाङ्गुलिस्थेन सदा आपादतलमस्तकात् ॥७॥
मूलम्
कालसूत्रेण च्छिद्यन्ते चक्रारूढाश्च मानवाः।
कालाङ्गुलिस्थेन सदा आपादतलमस्तकात् ॥७॥
विश्वास-प्रस्तुतिः
कालसूत्र इति ख्यातो घोरः स नरकोत्तमः।
तत्रापि वञ्चका यान्ति ये चैवोत्कोचजीविनः ॥८॥
मूलम्
कालसूत्र इति ख्यातो घोरः स नरकोत्तमः।
तत्रापि वञ्चका यान्ति ये चैवोत्कोचजीविनः ॥८॥
विश्वास-प्रस्तुतिः
तप्तकुम्भस्तथैवान्यो नरको भृशदारुणः।
तैलकुम्भेषु पच्यन्ते तत्राप्यग्निभृतेषु ते ॥९॥
मूलम्
तप्तकुम्भस्तथैवान्यो नरको भृशदारुणः।
तैलकुम्भेषु पच्यन्ते तत्राप्यग्निभृतेषु ते ॥९॥
विश्वास-प्रस्तुतिः
देववेदद्विजातीनां ये निन्दां कुर्वते सदा।
संशृण्वन्ति च ये मूढा ये च मत्सरिणोऽधमाः ॥१०॥
मूलम्
देववेदद्विजातीनां ये निन्दां कुर्वते सदा।
संशृण्वन्ति च ये मूढा ये च मत्सरिणोऽधमाः ॥१०॥
विश्वास-प्रस्तुतिः
करम्भवालुकाकुम्भसञ्ज्ञं च नरकं शृणु।
परदाररता ये तु पतन्ति नरकेऽधमाः ॥११॥
मूलम्
करम्भवालुकाकुम्भसञ्ज्ञं च नरकं शृणु।
परदाररता ये तु पतन्ति नरकेऽधमाः ॥११॥
हृतं यैश्च जलं तेऽपि तस्मिन्यान्ति नराधमाः।
विश्वास-प्रस्तुतिः
गोनिपानेषु विघ्नानि मूढा ये चापि कुर्वते।
करम्भवालुकाकुम्भनरके ते पतन्ति वै ॥१२॥
मूलम्
गोनिपानेषु विघ्नानि मूढा ये चापि कुर्वते।
करम्भवालुकाकुम्भनरके ते पतन्ति वै ॥१२॥
विश्वास-प्रस्तुतिः
अन्धे तमसि दुष्पारे शीतार्तिपरिकम्पिताः।
भ्राम्यन्ते मानवा गात्रैः समस्तैः स्फुटितास्थिभिः ॥१३॥
मूलम्
अन्धे तमसि दुष्पारे शीतार्तिपरिकम्पिताः।
भ्राम्यन्ते मानवा गात्रैः समस्तैः स्फुटितास्थिभिः ॥१३॥
विश्वास-प्रस्तुतिः
गोवधः स्त्रीवधः पापैः कृतं यैश्च गवानृतम्।
ते तत्रातिमहाभीमे पतन्ति नरके नराः ॥१४॥
मूलम्
गोवधः स्त्रीवधः पापैः कृतं यैश्च गवानृतम्।
ते तत्रातिमहाभीमे पतन्ति नरके नराः ॥१४॥
विश्वास-प्रस्तुतिः
उत्पाट्यते तथा जिह्वा सन्दंशैर्भृशदारुणैः।
आक्रिशकानां दुष्टानां सदैवाबद्धभाषिणाम् ॥१५॥
मूलम्
उत्पाट्यते तथा जिह्वा सन्दंशैर्भृशदारुणैः।
आक्रिशकानां दुष्टानां सदैवाबद्धभाषिणाम् ॥१५॥
विश्वास-प्रस्तुतिः
करपत्रैश्च पाट्यन्ते यमस्य पुरुषैस्तथा।
परदारपरद्रव्यहिंसकाः पुरुषाधमाः ॥१६॥
मूलम्
करपत्रैश्च पाट्यन्ते यमस्य पुरुषैस्तथा।
परदारपरद्रव्यहिंसकाः पुरुषाधमाः ॥१६॥
विश्वास-प्रस्तुतिः
आयसीं च शिलां तप्तामशेषाङ्गैस्तथा नराः।
परदाररता एवं समालिङ्गन्ति पापिनः ॥१७॥
मूलम्
आयसीं च शिलां तप्तामशेषाङ्गैस्तथा नराः।
परदाररता एवं समालिङ्गन्ति पापिनः ॥१७॥
विश्वास-प्रस्तुतिः
सर्वाङ्गैर्विकृतैर्रक्तमुद्गिरन्तोऽतिपीडिताः।
यन्त्रेष्वन्येषु पीड्यन्ते जन्तुपीडाकरा नराः ॥१८॥
मूलम्
सर्वाङ्गैर्विकृतैर्रक्तमुद्गिरन्तोऽतिपीडिताः।
यन्त्रेष्वन्येषु पीड्यन्ते जन्तुपीडाकरा नराः ॥१८॥
विश्वास-प्रस्तुतिः
वृकैः सम्भक्ष्यते पृष्ठं नराणां पापकारिणाम्।
जनस्य पृष्ठमांसं यैर्भक्षितं पापकारिभिः ॥१९॥
मूलम्
वृकैः सम्भक्ष्यते पृष्ठं नराणां पापकारिणाम्।
जनस्य पृष्ठमांसं यैर्भक्षितं पापकारिभिः ॥१९॥
विश्वास-प्रस्तुतिः
असिपत्रवनैर्घोरैश्छिद्यन्ते पापकर्मिणः।
सद्भावप्रवणा यैस्तु भग्ना विश्रम्भिनो जनाः ॥२०॥
मूलम्
असिपत्रवनैर्घोरैश्छिद्यन्ते पापकर्मिणः।
सद्भावप्रवणा यैस्तु भग्ना विश्रम्भिनो जनाः ॥२०॥
विश्वास-प्रस्तुतिः
अयोमुखैः खगैर्भग्नाः खण्डखण्डं तथापरैः।
व्रजन्ति पापकर्माणः श्वशृगालैस्तथापरैः ॥२१॥
मूलम्
अयोमुखैः खगैर्भग्नाः खण्डखण्डं तथापरैः।
व्रजन्ति पापकर्माणः श्वशृगालैस्तथापरैः ॥२१॥
विश्वास-प्रस्तुतिः
सूषायामपि धास्यन्ते ज्वलदग्निचयावृताः।
पाषाणपेष्यं पिष्यन्ते तथान्ये पापकर्मिणः ॥२२॥
मूलम्
सूषायामपि धास्यन्ते ज्वलदग्निचयावृताः।
पाषाणपेष्यं पिष्यन्ते तथान्ये पापकर्मिणः ॥२२॥
देवतातिथिभृत्याणामदत्त्वा भुञ्जते तु ये।
विश्वास-प्रस्तुतिः
मृषागतास्तथाइवैक्यं त्रपुषा सीसकेन च।
प्रयान्ति पुरुषास्तैलैः क्वाथ्यन्तेऽन्ये पुनः पुनः ॥२३॥
मूलम्
मृषागतास्तथाइवैक्यं त्रपुषा सीसकेन च।
प्रयान्ति पुरुषास्तैलैः क्वाथ्यन्तेऽन्ये पुनः पुनः ॥२३॥
विश्वास-प्रस्तुतिः
वर्णधर्मपरित्यागे नैक्यं ये पुरुषा गताः।
तेऽपि पापसमाचारा वर्णसङ्करकारिणः ॥२४॥
मूलम्
वर्णधर्मपरित्यागे नैक्यं ये पुरुषा गताः।
तेऽपि पापसमाचारा वर्णसङ्करकारिणः ॥२४॥
विश्वास-प्रस्तुतिः
स्वरूपं नारकस्याग्नेः शृणुष्व कथयामि ते।
मुक्तस्ततोऽन्यवह्निस्ह्तः शेते सम्प्राप्य निर्वृतिम् ॥२५॥
मूलम्
स्वरूपं नारकस्याग्नेः शृणुष्व कथयामि ते।
मुक्तस्ततोऽन्यवह्निस्ह्तः शेते सम्प्राप्य निर्वृतिम् ॥२५॥
विश्वास-प्रस्तुतिः
शस्त्रधारास्तथैवैता मृणालप्रस्तरं नरः।
मन्यते नारकैः शस्त्रैर्विक्षतो द्विजसत्तम ॥२६॥
मूलम्
शस्त्रधारास्तथैवैता मृणालप्रस्तरं नरः।
मन्यते नारकैः शस्त्रैर्विक्षतो द्विजसत्तम ॥२६॥
विश्वास-प्रस्तुतिः
हिमखण्डचयाछन्नो निवातं मन्यते नरः।
विमुक्तो नारकाच्छीतात्प्रकाशं तमसस्तमः ॥२७॥
मूलम्
हिमखण्डचयाछन्नो निवातं मन्यते नरः।
विमुक्तो नारकाच्छीतात्प्रकाशं तमसस्तमः ॥२७॥
विश्वास-प्रस्तुतिः
प्रोता गुदेषु भिन्नाङ्गा आर्ता रावविराविणः।
शूलेषु लोहेष्वपरे त्रिशूलेषु तथापरे ॥२८॥
मूलम्
प्रोता गुदेषु भिन्नाङ्गा आर्ता रावविराविणः।
शूलेषु लोहेष्वपरे त्रिशूलेषु तथापरे ॥२८॥
विश्वास-प्रस्तुतिः
याज्योपाध्यायदाम्पत्यसुहृन्मित्रसुतादिषु।
कृतो भेदो दुराचारैर्यैरलीकोक्तिभाषिभिः ॥२९॥
मूलम्
याज्योपाध्यायदाम्पत्यसुहृन्मित्रसुतादिषु।
कृतो भेदो दुराचारैर्यैरलीकोक्तिभाषिभिः ॥२९॥
विश्वास-प्रस्तुतिः
आयसाः कण्टकास्तीक्ष्णा नरके कूटशाल्मलौ।
तेषु प्रोता दुरात्मानः परदारभुजो नराः ॥३०॥
मूलम्
आयसाः कण्टकास्तीक्ष्णा नरके कूटशाल्मलौ।
तेषु प्रोता दुरात्मानः परदारभुजो नराः ॥३०॥
विश्वास-प्रस्तुतिः
कृमिकीटजलौकादितीक्ष्णदंष्ट्रास्यविक्षताः।
भ्राम्यन्ते चान्धतामिस्रे वृथामांसाशिनो हि ये ॥३१॥
मूलम्
कृमिकीटजलौकादितीक्ष्णदंष्ट्रास्यविक्षताः।
भ्राम्यन्ते चान्धतामिस्रे वृथामांसाशिनो हि ये ॥३१॥
विश्वास-प्रस्तुतिः
एतांश्चान्यांश्च नरकाञ्शतशोऽथ सहस्रशः।
कर्मान्तरं जनो भुङ्क्ते परिणामांश्च चेतसः ॥३२॥
मूलम्
एतांश्चान्यांश्च नरकाञ्शतशोऽथ सहस्रशः।
कर्मान्तरं जनो भुङ्क्ते परिणामांश्च चेतसः ॥३२॥
विश्वास-प्रस्तुतिः
यादृक् कर्म मनुष्याणां तादृग्विषयरूपवत्।
परिणामं मनो याति शुभाशुभमयं द्विज ॥३३॥
मूलम्
यादृक् कर्म मनुष्याणां तादृग्विषयरूपवत्।
परिणामं मनो याति शुभाशुभमयं द्विज ॥३३॥
इति विष्णुधर्मेषु नरकाध्यायः।