०२२

अथ द्वाविंशोऽध्यायः।
देवदेव उवाच।

विश्वास-प्रस्तुतिः

गार्हस्थ्येऽवस्थिता नारी भक्त्या सम्पूजयेत्पतिम्।
स एव देवता तस्याः पूज्यः पूज्यतरश्च सः ॥१॥

मूलम्

तस्मिंस्तुष्टे परो धर्मस्तस्यैव परिचर्यया।
तोषमायाति सर्वात्मा परमात्मा जनार्दनः ॥२॥

नैव तस्याः पृथग्यज्ञो न श्राद्धं नाप्युपोषितम्।
भर्तृशुश्रूषणेनैव प्राप्नोति स्त्री यथेप्सितम् ॥३॥

तेनैव साप्यनुज्ञाता तस्य शुश्रूषणादनु।
तोषयेज्जगतामीशमनन्तमपराजितम् ॥४॥

मूलम्

तेनैव साप्यनुज्ञाता तस्य शुश्रूषणादनु।
तोषयेज्जगतामीशमनन्तमपराजितम् ॥४॥

विश्वास-प्रस्तुतिः

व्रतैर्नानाविधैर्देवि ऐहिकामुष्मिकाप्तये।
विष्णुव्रतादिभिर्दिव्यैस्तथा दानैर्मनोऽनुगैः ॥५॥

घृतक्षीराभिषेकैश्च ब्राह्मणानां च तर्पणैः।
मनोज्ञैर्विविधैर्धूपैः पुष्पवस्त्रानुलेपनैः ॥६॥

गीतवाद्यैस्तथा हृद्यैरुपवासैश्च भामिनि।

विश्वास-प्रस्तुतिः

एवमाराध्य गोविन्दमनुज्ञाता यथाविधि।
पतिना सकलान्कामानवाप्नोति न संशयः ॥७॥

मूलम्

एवमाराध्य गोविन्दमनुज्ञाता यथाविधि।
पतिना सकलान्कामानवाप्नोति न संशयः ॥७॥

विश्वास-प्रस्तुतिः

पतिना त्वननुज्ञाता किञ्चित्पुण्यं करोति या।
विफलं तदशेषं वै तस्याः शैलवरात्मजे ॥८॥

न च प्रसादं कुरुते भगवान्मधुसूदनः।
नानुज्ञाता तु या नारी पतिनार्चति केशवम् ॥९॥

या तु भर्तृपरा नारी नारायणमतन्द्रिता।
भक्त्या सम्पूजयेद्देवं तोषमायाति केशवः ॥१०॥

देव्युवाच।

विश्वास-प्रस्तुतिः

या तु भर्त्रा परित्यक्ता तथा या मृतभर्तृका।
पाषण्डानुगतो वापि यस्या भर्ता महेश्वर ॥११॥

प्रायो ददाति नानुज्ञां विष्णोराराधने तदा।
कथमाराधनं कार्यं विष्णोस्तद्वद शङ्कर ॥१२॥

मूलम्

प्रायो ददाति नानुज्ञां विष्णोराराधने तदा।
कथमाराधनं कार्यं विष्णोस्तद्वद शङ्कर ॥१२॥

देवदेव उवाच।

विश्वास-प्रस्तुतिः

या तु भर्त्रा परित्यक्ता सा सम्पूज्य निजं पतिम्।
मनसा तन्मनस्का च तस्यैव हितकारिणी ॥१३॥

न निन्दाकरणी तस्य श्रेयोऽभिध्यायिनी तथा।
तस्यैव सर्वकालेषु सर्वकल्याणमिच्छति ॥१४॥

आराधयेज्जगन्नाथं सर्वधातारमच्युतम्।
कृतोपवासा पुष्पादि निवेद्य सकलं ततः ॥१५॥

भर्तुर्मनोरथावाप्तिं प्रार्थयेत्प्रथमं वरम्।
स्वयं यथाभिलषितं प्रार्थयेत्तं वरं ततः ॥१६॥

एवं भर्तृपरित्यक्ता योषिदाराधनं हरेः।
कुर्वाणा सकलान्कामानवाप्नोति न संशयः ॥१७॥

भर्ता करोति यच्चस्याः किञ्चित्पुण्यमहर्निशम्।
तस्य पुण्यस्य सम्पूर्णमर्धं प्राप्नोति सा शुभे ॥१८॥

यत्तु सा कुरुते पुण्यं विना दोषेण योज्झिता।
तत्तस्याः सकलं देवि तस्यार्धं न लभेत्पतिः ॥१९॥

भर्तर्येवं प्रवसिते त्यक्ता च पतिना शुभे।
कुर्वीताराधनं नारी उपवासादिना हरेः ॥२०॥

एतत्तवोक्तं यत्पृष्टं त्वयाहं गिरिनन्दिनि।
विधवानामतो धर्मं श्रूयतां विष्णुतुष्टिदम् ॥२१॥

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रतोदिता।
स्नाता प्रतिदिनं दद्यात्स्वभर्तृसलिलाञ्जलिम् ॥२२॥

कुर्याद्यानुदिनं भक्त्या देवानामपि पूजनम्।
अतिथेस्तर्पणं तद्वदग्निहोत्रममन्त्रकम् ॥२३॥

पूर्तधर्माश्रितं चान्यत्कुर्यान्नित्यमतन्द्रिता।
नित्यकर्म ऋते चास्या नेष्टं कर्म विधीयते ॥२४॥

विष्णोराराधनं चैव कुर्यान्नित्यमुपोषिता।

विश्वास-प्रस्तुतिः

दानादि विप्रमुख्येभ्यो दद्यात्पुण्यविवृद्धये।
उपवासांश्च विविधान्कुर्याच्छास्त्रोदितान्शुभे ॥२५॥

लोकान्तरस्थं भर्तारमात्मानं च वरानने।
तारयत्युभयं नारी येत्थं धर्मपरायणा ॥२६॥

मूलम्

लोकान्तरस्थं भर्तारमात्मानं च वरानने।
तारयत्युभयं नारी येत्थं धर्मपरायणा ॥२६॥

विश्वास-प्रस्तुतिः

पुत्रैश्वर्यस्थिता नारी उपवासादिना हरिम्।
या तोषयति सिद्धिं सा पुत्रेभ्योऽपि प्रयच्छति ॥२७॥

शुभांल्लोकांस्तथा भर्तुरात्मनश्च यथेप्सितान्।
सकलं पूरयत्यस्तं पापं नयति चाखिलम् ॥२८॥

आत्मनश्चैव भर्तुश्च नारी परमिकां गतिम्।
ददात्याराध्य गोविन्दं सपुत्रा विधवा च या ॥२९॥

तस्मादेभिर्विधानैस्तु सर्वकालं तु योषितः।
केशवाराधनं कार्यं लोकद्वयफलप्रदम् ॥३०॥

ये नरा मृतपत्निकास्तैरप्येतदशेषतः।
पूर्तधर्माश्रितं कार्यं नित्यकर्म च केवलम् ॥३१॥

पुत्रैश्वर्यस्थितैः सम्यग्ब्रह्मचर्यगुणान्वितैः।
विष्णोराराधनं कार्यं तीर्थस्थैरथवा गृहे ॥३२॥

ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रश्च वरानने।
अनाराध्य हृषीकेशं नाप्नोति परमां गतिम् ॥३३॥

ऐश्वर्यं सन्ततिं श्रेष्ठामारोग्यं द्रव्यसम्पदम्।
ददाति भगवान्विष्णुर्गतिमग्र्यां सुतोषितः ॥३४॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

एवं शैलसुता प्रोक्ता स्वयं देवेन शम्भुना।
पृष्टेन सम्यक् कथितं भवतोऽपि महामुने ॥३५॥

सर्ववर्णैस्तथा स्त्रीभिरन्यैरपि जनैर्हरिः।
आराधनीयो नातुष्टे विष्णौ सम्प्राप्यते गतिः ॥३६॥

न दुर्गतिं रौरवादीन्नरकांश्च न गच्छति।
यमाराध्येश्वरं वन्द्यं कस्तं विष्णुं न पूजयेत् ॥३७॥

तस्मादमुष्मिकान्क्लेशान्नरके याश्च यातनाः।
सदैवोद्विजता दाल्भ्य समाराध्यो जनार्दनः ॥३८॥

इति विष्णुधर्मेषु स्त्रीधर्मः।