अथ एकद्विंशोऽध्यायः।
दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
स्त्रीणां धर्मं द्विजश्रेष्ठ उपवासं भवन्मम।
कथयेह यथातत्त्वमुपवासविधिश्च यः ॥१॥
मूलम्

कौमारके गृहस्थाया विधवायाश्च सत्तम।
धर्मं प्रब्रूह्यशेषेण भगवन्प्रीतिकारकम् ॥२॥

पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
श्रूयतामखिलं ब्रह्मन्यद्येतदनुपृच्छसि।
उपकाआय च स्त्रीणां त्रिषु लोकेष्वनुत्तमम् ॥३॥

प्रश्नमेतत्पुरा देवी शैलराजसुता पतिम्।
पप्रच्छ शङ्करं ब्रह्मन्कैलासशिखरे स्थितम् ॥४॥

देव्युवाच।
विश्वास-प्रस्तुतिः
कुमारिकाभिर्देवेश गृहस्थाभिश्च केशवः।
विधवाभिस्तथा स्त्रीभिः कथमाराध्यते वद ॥५॥

ईश्वर उवाच।
विश्वास-प्रस्तुतिः
साधु साध्वि त्वया पृष्टमेतन्नारायणाश्रितम्।
उपवासादि यत्तत्त्वं श्रूयतामस्य यो विधिः ॥६॥

योग्यं पतिं समासाद्य नारी धर्ममवाप्नुते।
दुःशीलेऽपि हि कामार्ते नारी प्राप्नोति भर्तरि ॥७॥

अनाराध्य जगन्नाथं सर्वलोकेश्वरं हरिम्।
कथमाप्नोति वै नारी पतिं शीलगुणान्वितम् ॥८॥

सुकलत्रप्रदं तस्माद्व्रतमच्युततुष्टिदम्।
कर्तव्यं लक्षणं तस्य श्रूयतां वरवर्णिनि ॥९॥

यच्चीर्त्वा सर्वनारीणां श्रेष्ठमाप्नोत्यसंशयम्।
ऐहिकं च सुखं प्राप्य स्वर्गे भुङ्क्ते सुखान्यपि ॥१०॥

अनुज्ञां प्राप्य पितृतो मातृतश्च कुमारिका।
पूजयेच्च जगन्नाथं भक्त्या पापहरं हरिम् ॥११॥

त्रिषूत्तरेषु स्वृक्षेषु पतिकामा कुमारिका।
माधवाख्यं तु वै नाम जपेन्नित्यमतन्द्रिता ॥१२॥

प्रियङ्गुणा रक्तपुष्पैर्बन्धूककुसुमैस्तथा।
समभ्यर्च्य ततो दद्याद्रक्तमेवानुलेपनम् ॥१३॥

सर्वौषध्या स्वयं स्नात्वा समभ्यर्च्य जगत्पतिम्।
नमोऽस्तु माधवायेति होमयेन्मधुसर्पिषी ॥१४॥

स देवमुत्तरायोगे समभ्यर्च्य जनार्दनम्।
शोभनं पतिमाप्नोति प्रेत्य स्वर्गं च गच्छति ॥१५॥

अतिबाल्ये च यत्किञ्चित्तया पापमनुष्ठितम्।
तस्माच्च मुच्यते देवि सुखिनी चैव जायते ॥१६॥

अब्देनैकेन तन्वङ्गि धूतपापा यदिच्छति।
तदेव प्राप्नुयाद्भद्रेनारायणपरायणा ॥१७॥
मूलम्
अब्देनैकेन तन्वङ्गि धूतपापा यदिच्छति।
तदेव प्राप्नुयाद्भद्रेनारायणपरायणा ॥१७॥
विश्वास-प्रस्तुतिः
षण्मासं प्रीणनं कार्यं भक्त्या शक्त्या च वै हरेः।
पारणान्ते महाभगे तथा ब्राह्मणतर्पणम् ॥१८॥

इति विष्णुधर्मेषु सुकलत्रप्राप्तिव्रतं नाम एकद्विंशोऽध्यायः।