अथ विंशोऽध्यायः।
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
अशोकपूर्णिमां चान्यां शृणुश्व वदतो मम।
यामुपोष्य नरः शोकं नाप्नोति स्त्री तथापि वा ॥१॥
मूलम्
अशोकपूर्णिमां चान्यां शृणुश्व वदतो मम।
यामुपोष्य नरः शोकं नाप्नोति स्त्री तथापि वा ॥१॥
विश्वास-प्रस्तुतिः
फाल्गुनामलपक्षस्य पूर्णिमास्यां नरेश्वर।
मृज्जलेन नरः स्नात्वा दत्त्वा शिरसि वै मृदम् ॥२॥
मूलम्
फाल्गुनामलपक्षस्य पूर्णिमास्यां नरेश्वर।
मृज्जलेन नरः स्नात्वा दत्त्वा शिरसि वै मृदम् ॥२॥
मृत्प्राशनं तथा कृत्वा कृत्वा च स्थण्डिलं मृदा।
विश्वास-प्रस्तुतिः
पुष्पैः पत्रैस्तथाभ्यर्च्य भूधरं नान्यमानसः।
धरणीं च तथा देवीमशोकेत्यभिधीयते ॥३॥
मूलम्
पुष्पैः पत्रैस्तथाभ्यर्च्य भूधरं नान्यमानसः।
धरणीं च तथा देवीमशोकेत्यभिधीयते ॥३॥
विश्वास-प्रस्तुतिः
यथा विशोकां धरणीं कृतवांस्त्वं जनार्दनः।
तथा मां सर्वपापेभ्यो मोचयाशेषधारिणि ॥४॥
मूलम्
यथा विशोकां धरणीं कृतवांस्त्वं जनार्दनः।
तथा मां सर्वपापेभ्यो मोचयाशेषधारिणि ॥४॥
विश्वास-प्रस्तुतिः
यथा समस्तभूतानां धारणं त्वय्यवस्थितम्।
तथा विशोकं कुरु मां सकलेच्छाविभूतिभिः ॥५॥
मूलम्
यथा समस्तभूतानां धारणं त्वय्यवस्थितम्।
तथा विशोकं कुरु मां सकलेच्छाविभूतिभिः ॥५॥
विश्वास-प्रस्तुतिः
ध्यातमात्रे यथा विष्णौ स्वास्थ्यं यातासि मेदिनि।
तथा मनः स्वस्थतां मे कुरु त्वं भूतधारिणि ॥६॥
मूलम्
ध्यातमात्रे यथा विष्णौ स्वास्थ्यं यातासि मेदिनि।
तथा मनः स्वस्थतां मे कुरु त्वं भूतधारिणि ॥६॥
विश्वास-प्रस्तुतिः
एवं स्तुत्वा तथाभ्यर्च्य चन्द्रायार्घ्यं निवेद्य च।
उपोषितव्यं नक्तं वा भोक्तव्यं तैलवर्जितम् ॥७॥
मूलम्
एवं स्तुत्वा तथाभ्यर्च्य चन्द्रायार्घ्यं निवेद्य च।
उपोषितव्यं नक्तं वा भोक्तव्यं तैलवर्जितम् ॥७॥
विश्वास-प्रस्तुतिः
अनेनैव प्रकारेण चत्वारः फाल्गुनादयः।
उपोष्या नृपते मासाः प्रथमं तत्तु पारणम् ॥८॥
मूलम्
अनेनैव प्रकारेण चत्वारः फाल्गुनादयः।
उपोष्या नृपते मासाः प्रथमं तत्तु पारणम् ॥८॥
विश्वास-प्रस्तुतिः
आषाढादिषु मासेषु तद्वत्स्नानं मृदम्बुना।
तदेव प्राशनं पूजा तथैवेन्दोस्तथार्हणम् ॥९॥
मूलम्
आषाढादिषु मासेषु तद्वत्स्नानं मृदम्बुना।
तदेव प्राशनं पूजा तथैवेन्दोस्तथार्हणम् ॥९॥
विश्वास-प्रस्तुतिः
चतुर्ष्वन्येषु चैवोक्तं तथा वै कार्त्तिकादिषु।
पारणं त्रितयं चैव चातुर्मासिकमुच्यते ॥१०॥
मूलम्
चतुर्ष्वन्येषु चैवोक्तं तथा वै कार्त्तिकादिषु।
पारणं त्रितयं चैव चातुर्मासिकमुच्यते ॥१०॥
विश्वास-प्रस्तुतिः
प्रथमं धरणी नाम स्तुत्यै मासचतुष्टयम्।
द्वितीये मेदिनी वाच्या तृतीये च वसुन्धरा ॥११॥
मूलम्
प्रथमं धरणी नाम स्तुत्यै मासचतुष्टयम्।
द्वितीये मेदिनी वाच्या तृतीये च वसुन्धरा ॥११॥
विश्वास-प्रस्तुतिः
पारणे पारणे वस्त्रपूजया पूजयेन्नृप।
धरणीं देवदेवं च घृतस्नानेन केशवम् ॥१२॥
मूलम्
पारणे पारणे वस्त्रपूजया पूजयेन्नृप।
धरणीं देवदेवं च घृतस्नानेन केशवम् ॥१२॥
विश्वास-प्रस्तुतिः
वस्त्राभावे तु सूत्रेण पूजयेद्धरणीं तथा।
घृताभावे तथा क्षीरं शस्तं वा सलिलं हरेः ॥१३॥
मूलम्
वस्त्राभावे तु सूत्रेण पूजयेद्धरणीं तथा।
घृताभावे तथा क्षीरं शस्तं वा सलिलं हरेः ॥१३॥
विश्वास-प्रस्तुतिः
पातालमूलगतया चीर्णमेतन्महाव्रतम्।
धरण्या केशवप्रीत्यै ततः प्राप्ता समुन्नतिः ॥१४॥
मूलम्
पातालमूलगतया चीर्णमेतन्महाव्रतम्।
धरण्या केशवप्रीत्यै ततः प्राप्ता समुन्नतिः ॥१४॥
विश्वास-प्रस्तुतिः
देवेन चोक्ता धरणी वराहवपुषा तदा।
उपवासप्रसन्नेन समुद्धृत्य रसातलात् ॥१५॥
मूलम्
देवेन चोक्ता धरणी वराहवपुषा तदा।
उपवासप्रसन्नेन समुद्धृत्य रसातलात् ॥१५॥
व्रतेनानेन कल्याणि प्रणतो यः करिष्यति।
तस्य प्रसादमप्यहम् करोमि तव मेदिनि।
तथैव कुरुते पूजां भक्त्या मम शुभो जनः।
विश्वास-प्रस्तुतिः
तथैव तव कल्याणि प्रणतो यः करिष्यति।
व्रतमेतदुपाश्रित्य पारणं च यथाविधि ॥१६॥
मूलम्
तथैव तव कल्याणि प्रणतो यः करिष्यति।
व्रतमेतदुपाश्रित्य पारणं च यथाविधि ॥१६॥
विश्वास-प्रस्तुतिः
सर्वपापविनिर्मुक्तः सप्त जन्मान्तराण्यसौ।
विशोकः सर्वकल्याणभाजनो मतिमाञ्जनः ॥१७॥
मूलम्
सर्वपापविनिर्मुक्तः सप्त जन्मान्तराण्यसौ।
विशोकः सर्वकल्याणभाजनो मतिमाञ्जनः ॥१७॥
विश्वास-प्रस्तुतिः
सर्वत्र पूज्यः सततं सर्वेषामपराजितः।
यथाहमेवं वसुधे भविता निर्वृतेः पदम् ॥१८॥
मूलम्
सर्वत्र पूज्यः सततं सर्वेषामपराजितः।
यथाहमेवं वसुधे भविता निर्वृतेः पदम् ॥१८॥
तथा त्वमपि कल्याणि भविष्यसि न संशयः।
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
एवमेतन्महापुण्यं सर्वपापोपशान्तिदम्।
विशोकाख्यं व्रतं धन्यं तत्कुरुष्व महीपते ॥१९॥
मूलम्
एवमेतन्महापुण्यं सर्वपापोपशान्तिदम्।
विशोकाख्यं व्रतं धन्यं तत्कुरुष्व महीपते ॥१९॥
इति विष्णुधर्मेषु अशोकपूर्णमासीव्रतम्।