अथैकोनविंशोऽध्यायः।
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
फाल्गुनामलपक्षस्य एकादश्यामुपोषितः।
नरो वा यदि वा नारी समभ्यर्च्य जगद्गुरुम् ॥१॥
मूलम्
फाल्गुनामलपक्षस्य एकादश्यामुपोषितः।
नरो वा यदि वा नारी समभ्यर्च्य जगद्गुरुम् ॥१॥
विश्वास-प्रस्तुतिः
हरेर्नाम जपेद्भक्त्या सप्त वारान्नरेश्वर।
उत्तिष्ठन्प्रस्वपंश्चैव हरिमेवानुकीर्तयेत् ॥२॥
मूलम्
हरेर्नाम जपेद्भक्त्या सप्त वारान्नरेश्वर।
उत्तिष्ठन्प्रस्वपंश्चैव हरिमेवानुकीर्तयेत् ॥२॥
विश्वास-प्रस्तुतिः
ततोऽन्यदिवसे प्राप्ते द्वादश्यां प्रयतो हरिम्।
स्नात्वा सम्यक् तमभ्यर्च्य दद्याद्विप्राय दक्षिणाम् ॥३॥
मूलम्
ततोऽन्यदिवसे प्राप्ते द्वादश्यां प्रयतो हरिम्।
स्नात्वा सम्यक् तमभ्यर्च्य दद्याद्विप्राय दक्षिणाम् ॥३॥
विश्वास-प्रस्तुतिः
हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः।
प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् ॥४॥
मूलम्
हरिमुद्दिश्य चैवाग्नौ घृतहोमकृतक्रियः।
प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् ॥४॥
विश्वास-प्रस्तुतिः
पातालसंस्था वसुधा यं प्रसाद्य मनोरथान्।
अवाप वासुदेवोऽसौ प्रददातु मनोरथान् ॥५॥
मूलम्
पातालसंस्था वसुधा यं प्रसाद्य मनोरथान्।
अवाप वासुदेवोऽसौ प्रददातु मनोरथान् ॥५॥
विश्वास-प्रस्तुतिः
यमभ्यर्च्यादितिः प्राप्ता सकलांश्च मनोरथान्।
पुत्रांश्चैवेप्सितान्देवः प्रददातु मनोरथान् ॥६॥
मूलम्
यमभ्यर्च्यादितिः प्राप्ता सकलांश्च मनोरथान्।
पुत्रांश्चैवेप्सितान्देवः प्रददातु मनोरथान् ॥६॥
विश्वास-प्रस्तुतिः
भ्रष्टराज्यश्च देवेन्द्रोयमभ्यर्च्य जगत्पतिम्।
मनोरथानवापाग्र्यान्स ददातु मनोरथान् ॥७॥
मूलम्
भ्रष्टराज्यश्च देवेन्द्रोयमभ्यर्च्य जगत्पतिम्।
मनोरथानवापाग्र्यान्स ददातु मनोरथान् ॥७॥
विश्वास-प्रस्तुतिः
एवमभ्यर्च्य पूजां च निष्पाद्य हरये ततः।
भुञ्जीत प्रयतः सम्यघविष्यं मनुजर्षभ ॥८॥
मूलम्
एवमभ्यर्च्य पूजां च निष्पाद्य हरये ततः।
भुञ्जीत प्रयतः सम्यघविष्यं मनुजर्षभ ॥८॥
विश्वास-प्रस्तुतिः
फाल्गुनं चैत्रवैशाखौ ज्येष्ठमासं च पार्थिव।
चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् ॥९॥
मूलम्
फाल्गुनं चैत्रवैशाखौ ज्येष्ठमासं च पार्थिव।
चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् ॥९॥
विश्वास-प्रस्तुतिः
रक्तपुष्पैस्तु चतुरो मासान्कुर्वीत चार्चनम्।
दहेच्च गुग्गुलं प्राश्य गोशृङ्गक्षालनं जलम् ॥१०॥
मूलम्
रक्तपुष्पैस्तु चतुरो मासान्कुर्वीत चार्चनम्।
दहेच्च गुग्गुलं प्राश्य गोशृङ्गक्षालनं जलम् ॥१०॥
विश्वास-प्रस्तुतिः
हविष्यान्नं च नैवेद्यमात्मनश्चैव भोजनम्।
ततश्च श्रूयतामन्यदाषाढादौ तु या क्रिया ॥११॥
मूलम्
हविष्यान्नं च नैवेद्यमात्मनश्चैव भोजनम्।
ततश्च श्रूयतामन्यदाषाढादौ तु या क्रिया ॥११॥
विश्वास-प्रस्तुतिः
जातीपुष्पाणि धूपश्च शस्तः सर्जरसो नृप।
प्राश्य दर्भोदकं चात्र शाल्यन्नं च निवेदनम् ॥१२॥
मूलम्
जातीपुष्पाणि धूपश्च शस्तः सर्जरसो नृप।
प्राश्य दर्भोदकं चात्र शाल्यन्नं च निवेदनम् ॥१२॥
विश्वास-प्रस्तुतिः
स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत्।
कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् ॥१३॥
मूलम्
स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत्।
कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् ॥१३॥
विश्वास-प्रस्तुतिः
सुगन्धं चेच्छया धूपं पूजाभृङ्गारकेण च।
कासारं चात्र नैवेद्यमश्नीयात्तच्च वै स्वयम् ॥१४॥
मूलम्
सुगन्धं चेच्छया धूपं पूजाभृङ्गारकेण च।
कासारं चात्र नैवेद्यमश्नीयात्तच्च वै स्वयम् ॥१४॥
विश्वास-प्रस्तुतिः
प्रतिमासं च विप्राय दातव्या दक्षिणा तथा।
प्रीणनं चेच्छया विष्णोः पारणे पारणे गते ॥१५॥
मूलम्
प्रतिमासं च विप्राय दातव्या दक्षिणा तथा।
प्रीणनं चेच्छया विष्णोः पारणे पारणे गते ॥१५॥
विश्वास-प्रस्तुतिः
यथाशक्ति यथाप्रीति वित्तशाठ्यं विवर्जयेत्।
सद्भावेनैव गोविन्दः पूजितः प्रीयते यतः ॥१६॥
मूलम्
यथाशक्ति यथाप्रीति वित्तशाठ्यं विवर्जयेत्।
सद्भावेनैव गोविन्दः पूजितः प्रीयते यतः ॥१६॥
विश्वास-प्रस्तुतिः
पारणान्ते यथाशक्त्या स्नापितः पूजितो हरिः।
प्रीणितश्चेप्सितान्कामान्ददात्यव्याहतान्नृप ॥१७॥
मूलम्
पारणान्ते यथाशक्त्या स्नापितः पूजितो हरिः।
प्रीणितश्चेप्सितान्कामान्ददात्यव्याहतान्नृप ॥१७॥
विश्वास-प्रस्तुतिः
एषा धन्या पापहरा द्वादशी फलमिच्छताम्।
यथाभिलषितान्कामान्ददाति मनुजेश्वर ॥१८॥
मूलम्
एषा धन्या पापहरा द्वादशी फलमिच्छताम्।
यथाभिलषितान्कामान्ददाति मनुजेश्वर ॥१८॥
विश्वास-प्रस्तुतिः
पूरयत्यखिलान्भक्त्या यतश्चैषा मनोरथान्।
मनोरथद्वादशीयं ततो लोकेषु विश्रुता ॥१९॥
मूलम्
पूरयत्यखिलान्भक्त्या यतश्चैषा मनोरथान्।
मनोरथद्वादशीयं ततो लोकेषु विश्रुता ॥१९॥
विश्वास-प्रस्तुतिः
उपोष्यैतां त्रिभुवनं प्राप्तमिन्द्रेण वै पुरा।
अदित्या चेप्सिताः पुत्रा धनं चोशनसा नृप ॥२०॥
मूलम्
उपोष्यैतां त्रिभुवनं प्राप्तमिन्द्रेण वै पुरा।
अदित्या चेप्सिताः पुत्रा धनं चोशनसा नृप ॥२०॥
विश्वास-प्रस्तुतिः
धौम्येन चाप्यध्ययनमन्यैश्चाभिमतं फलम्।
राजर्षिभिस्तथा विप्रैः स्त्रीभिः शूद्रैश्च भूपते ॥२१॥
मूलम्
धौम्येन चाप्यध्ययनमन्यैश्चाभिमतं फलम्।
राजर्षिभिस्तथा विप्रैः स्त्रीभिः शूद्रैश्च भूपते ॥२१॥
विश्वास-प्रस्तुतिः
यं यं काममभिध्यायेद्व्रतमेतदुपोषितः।
तं तमाप्नोत्यसन्दिग्धं विष्णोराराधनोद्यतः ॥२२॥
मूलम्
यं यं काममभिध्यायेद्व्रतमेतदुपोषितः।
तं तमाप्नोत्यसन्दिग्धं विष्णोराराधनोद्यतः ॥२२॥
विश्वास-प्रस्तुतिः
अपुत्रो लभते पुत्रमधनो लभते धनम्।
रोगाभिभूतश्चारोग्यं कन्या प्राप्नोति सत्पतिम् ॥२३॥
मूलम्
अपुत्रो लभते पुत्रमधनो लभते धनम्।
रोगाभिभूतश्चारोग्यं कन्या प्राप्नोति सत्पतिम् ॥२३॥
विश्वास-प्रस्तुतिः
समागमं प्रवसितैरुपोष्यैतामवाप्नुते।
सर्वान्कामानवाप्नोति मृतः स्वर्गे च मोदते ॥२४॥
मूलम्
समागमं प्रवसितैरुपोष्यैतामवाप्नुते।
सर्वान्कामानवाप्नोति मृतः स्वर्गे च मोदते ॥२४॥
विश्वास-प्रस्तुतिः
नापुत्रो नाधनो नेष्टवियोगी न च निर्गुणः।
उपोष्यैतद्व्रतं मर्त्यः स्त्री जनो वापि जायते ॥२५॥
मूलम्
नापुत्रो नाधनो नेष्टवियोगी न च निर्गुणः।
उपोष्यैतद्व्रतं मर्त्यः स्त्री जनो वापि जायते ॥२५॥
य एव व्रतसञ्चीर्णो विष्णुलोके महीयते।
विश्वास-प्रस्तुतिः
स्वर्गलोके सहस्राणि वर्षाणां मनुजाधिप।
भोगानभिमतान्भुक्त्वा स्वर्गलोकेऽभिकाङ्क्षितान् ॥२६॥
मूलम्
स्वर्गलोके सहस्राणि वर्षाणां मनुजाधिप।
भोगानभिमतान्भुक्त्वा स्वर्गलोकेऽभिकाङ्क्षितान् ॥२६॥
विश्वास-प्रस्तुतिः
इह पुण्यवतां नॄणां धनिनां साधुशीलिनाम्।
गृहेषु जायते राजन्सर्वव्याधिविवर्जितः ॥२७॥
मूलम्
इह पुण्यवतां नॄणां धनिनां साधुशीलिनाम्।
गृहेषु जायते राजन्सर्वव्याधिविवर्जितः ॥२७॥
इति विष्णुधर्मेषु मनोरथद्वादशीकल्पः।