०१८

अथ अष्टादशोऽध्यायः।
पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

तथान्यदपि धर्मज्ञ श्रूयतां गदतो मम।
पदद्वयं जगद्धातुर्देवदेवस्य शार्ङ्गिणः ॥१॥

मूलम्

तथान्यदपि धर्मज्ञ श्रूयतां गदतो मम।
पदद्वयं जगद्धातुर्देवदेवस्य शार्ङ्गिणः ॥१॥

विश्वास-प्रस्तुतिः

संवत्सरः पादपीठं तत्र न्यस्तं पदद्वयम्।
वासुदेवेन विप्रेन्द्रभूतानां हितकाम्यया ॥२॥

मूलम्

संवत्सरः पादपीठं तत्र न्यस्तं पदद्वयम्।
वासुदेवेन विप्रेन्द्रभूतानां हितकाम्यया ॥२॥

विश्वास-प्रस्तुतिः

वाममस्य पदं ब्रह्मनुत्तरायणसञ्ज्ञितम्।
देवाद्यैः सकलैर्वन्द्यं दक्षिणं दक्षिणायनम् ॥३॥

मूलम्

वाममस्य पदं ब्रह्मनुत्तरायणसञ्ज्ञितम्।
देवाद्यैः सकलैर्वन्द्यं दक्षिणं दक्षिणायनम् ॥३॥

विश्वास-प्रस्तुतिः

तस्मिन्यः प्रयतः सम्यग्देवदेवस्य मानवः।
करोत्याराधनं तस्य तोषमायाति केशवः ॥४॥

मूलम्

तस्मिन्यः प्रयतः सम्यग्देवदेवस्य मानवः।
करोत्याराधनं तस्य तोषमायाति केशवः ॥४॥

दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

कथमाराधनं तस्य देवदेवस्य शार्ङ्गिणः।
क्रियते मुनिशार्दूल तन्ममाख्यातुमर्हसि ॥५॥

मूलम्

कथमाराधनं तस्य देवदेवस्य शार्ङ्गिणः।
क्रियते मुनिशार्दूल तन्ममाख्यातुमर्हसि ॥५॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

उत्तरे त्वयने दाल्भ्य स्नातो नियतमानसः।
घृतक्षीरादिना देवं स्नापयेद्धरणीधरम् ॥६॥

मूलम्

उत्तरे त्वयने दाल्भ्य स्नातो नियतमानसः।
घृतक्षीरादिना देवं स्नापयेद्धरणीधरम् ॥६॥

चारुवस्त्रोपहारैश्च पुष्पधूपानुलेपनैः।

विश्वास-प्रस्तुतिः

समभ्यर्च्य ततः सम्यग्ब्राह्मणानां च तर्पणैः।
पदद्वयव्रतं सम्यग्गृह्णीयाद्विष्णुतत्परः ॥७॥

मूलम्

समभ्यर्च्य ततः सम्यग्ब्राह्मणानां च तर्पणैः।
पदद्वयव्रतं सम्यग्गृह्णीयाद्विष्णुतत्परः ॥७॥

विश्वास-प्रस्तुतिः

स्नातो नारायणं वक्ष्ये भुञ्जन्नारायणं तथा।
भुङ्क्त्वा नारायणं चाहं गच्छन्नारायणं ततः ॥८॥

मूलम्

स्नातो नारायणं वक्ष्ये भुञ्जन्नारायणं तथा।
भुङ्क्त्वा नारायणं चाहं गच्छन्नारायणं ततः ॥८॥

विश्वास-प्रस्तुतिः

स्वपन्विबुद्धः प्रणमन्होमं कुर्वंस्तथार्चनम्।
नारायणस्यानुदिनं करिष्ये नामकीर्तनम् ॥९॥

मूलम्

स्वपन्विबुद्धः प्रणमन्होमं कुर्वंस्तथार्चनम्।
नारायणस्यानुदिनं करिष्ये नामकीर्तनम् ॥९॥

यावदद्यदिनात्प्राप्तं क्रमशो दक्षिणायनम्।

विश्वास-प्रस्तुतिः

स्खलितेऽहं क्षुते चैव वेदनार्तोऽथवा सदा।
तावन्नारायणं वक्ष्ये सर्वमेवोत्तरायणम् ॥१०॥

मूलम्

स्खलितेऽहं क्षुते चैव वेदनार्तोऽथवा सदा।
तावन्नारायणं वक्ष्ये सर्वमेवोत्तरायणम् ॥१०॥

विश्वास-प्रस्तुतिः

यावज्जीववधं किञ्चिद्ज्ञानतोऽज्ञानतोऽपि वा।
करिष्येऽहं तथा चैव कीर्तयिष्यामि तं प्रभुम् ॥११॥

मूलम्

यावज्जीववधं किञ्चिद्ज्ञानतोऽज्ञानतोऽपि वा।
करिष्येऽहं तथा चैव कीर्तयिष्यामि तं प्रभुम् ॥११॥

विश्वास-प्रस्तुतिः

यदा तदानृतं किञ्चिदथ वक्ष्यामि दुर्वचः।
अज्ञानादथवा ज्ञानात्कीर्तयिष्यामि तं प्रभुम् ॥१२॥

मूलम्

यदा तदानृतं किञ्चिदथ वक्ष्यामि दुर्वचः।
अज्ञानादथवा ज्ञानात्कीर्तयिष्यामि तं प्रभुम् ॥१२॥

विश्वास-प्रस्तुतिः

षण्मासमेष मे जापो नारायणमयः परः।
तं स्मरन्मरणे याति यां गतिं सास्तु मे गतिः ॥१३॥

मूलम्

षण्मासमेष मे जापो नारायणमयः परः।
तं स्मरन्मरणे याति यां गतिं सास्तु मे गतिः ॥१३॥

विश्वास-प्रस्तुतिः

षण्मासाभ्यन्तरे मृत्युर्यद्यकस्माद्भवेन्मम।
तन्मया वासुदेवाय स्वयमात्मा निवेदितः ॥१४॥

मूलम्

षण्मासाभ्यन्तरे मृत्युर्यद्यकस्माद्भवेन्मम।
तन्मया वासुदेवाय स्वयमात्मा निवेदितः ॥१४॥

विश्वास-प्रस्तुतिः

परमार्थमयं ब्रह्म वासुदेवमयं परम्।
यमन्ते संस्मरन्याति स मे विष्णुः परा गतिः ॥१५॥

मूलम्

परमार्थमयं ब्रह्म वासुदेवमयं परम्।
यमन्ते संस्मरन्याति स मे विष्णुः परा गतिः ॥१५॥

विश्वास-प्रस्तुतिः

यदा प्रातस्तदा सायं मध्याह्ने वा म्रिये ह्यहम्।
षण्मासाभ्यन्तरे न्यासः कृतो व्रतमयो मया ॥१६॥

मूलम्

यदा प्रातस्तदा सायं मध्याह्ने वा म्रिये ह्यहम्।
षण्मासाभ्यन्तरे न्यासः कृतो व्रतमयो मया ॥१६॥

विश्वास-प्रस्तुतिः

तथा कुरु जगन्नाथ सर्वलोकपरायण।
नारायण यथा नान्यं त्वत्तो यामि मृते गतिम् ॥१७॥

मूलम्

तथा कुरु जगन्नाथ सर्वलोकपरायण।
नारायण यथा नान्यं त्वत्तो यामि मृते गतिम् ॥१७॥

विश्वास-प्रस्तुतिः

एवमुच्चार्य षण्मासपारणं प्रवरं व्रतम्।
तावन्निष्पादयेद्यावत्सम्प्राप्तं दक्षिणायनम् ॥१८॥

मूलम्

एवमुच्चार्य षण्मासपारणं प्रवरं व्रतम्।
तावन्निष्पादयेद्यावत्सम्प्राप्तं दक्षिणायनम् ॥१८॥

विश्वास-प्रस्तुतिः

ततश्च प्रीणनं कुर्याद्यथाशक्त्या जगद्गुरोः।
भोजयेद्ब्राह्मणान्सम्यग्दद्यात्तेभ्यश्च दक्षिणाम् ॥१९॥

मूलम्

ततश्च प्रीणनं कुर्याद्यथाशक्त्या जगद्गुरोः।
भोजयेद्ब्राह्मणान्सम्यग्दद्यात्तेभ्यश्च दक्षिणाम् ॥१९॥

विश्वास-प्रस्तुतिः

एवं व्रतमिदं दाल्भ्य यः पारयति मानवः।
नारी वा सर्वपापेभ्यः षण्मासाद्विप्र मुच्यते ॥२०॥

मूलम्

एवं व्रतमिदं दाल्भ्य यः पारयति मानवः।
नारी वा सर्वपापेभ्यः षण्मासाद्विप्र मुच्यते ॥२०॥

विश्वास-प्रस्तुतिः

षण्मासाभ्यन्तरे चास्य मरणं यदि जायते।
प्राप्नोत्यनशनस्योक्तं यत्फलं तदसंशयम् ॥२१॥

मूलम्

षण्मासाभ्यन्तरे चास्य मरणं यदि जायते।
प्राप्नोत्यनशनस्योक्तं यत्फलं तदसंशयम् ॥२१॥

पदद्वयं च कृष्णस्य सम्यक् तेन तथार्चितम्।

विश्वास-प्रस्तुतिः

हरेर्नाम जपन्भक्त्या स पुरा न जनेश्वर।
भगवानुज्जगौ विष्णुः पुरा गार्ग्याय पृच्छते ॥२२॥

मूलम्

हरेर्नाम जपन्भक्त्या स पुरा न जनेश्वर।
भगवानुज्जगौ विष्णुः पुरा गार्ग्याय पृच्छते ॥२२॥

इति विष्णुधर्मेषु पदद्वयव्रतम्।