०१७

अथ सप्तदशोऽध्यायः।
पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

एवं पुरा याज्ञवल्क्यः पृष्टः पत्न्या महामुनिः।
आचष्ट पुण्यफलदमुपवासविधिं परम् ॥१॥

मूलम्

एवं पुरा याज्ञवल्क्यः पृष्टः पत्न्या महामुनिः।
आचष्ट पुण्यफलदमुपवासविधिं परम् ॥१॥

विश्वास-प्रस्तुतिः

तथा त्वमपि विप्रर्षे केशवाराधने रतः।
व्रतोपवासपरमो भवेथा नान्यमानसः ॥२॥

मूलम्

तथा त्वमपि विप्रर्षे केशवाराधने रतः।
व्रतोपवासपरमो भवेथा नान्यमानसः ॥२॥

विश्वास-प्रस्तुतिः

पुनश्चैतन्महाभाग श्रूयतां गदतो मम।
प्रोक्तं नरेण देवानां तिथिमाहात्म्यमुत्तमम् ॥३॥

मूलम्

पुनश्चैतन्महाभाग श्रूयतां गदतो मम।
प्रोक्तं नरेण देवानां तिथिमाहात्म्यमुत्तमम् ॥३॥

विश्वास-प्रस्तुतिः

विजयातिजया चैव जयन्ती पापनाशनी।
तथोत्तरायणं शस्तं सर्वदा केशवार्चने ॥४॥

मूलम्

विजयातिजया चैव जयन्ती पापनाशनी।
तथोत्तरायणं शस्तं सर्वदा केशवार्चने ॥४॥

विश्वास-प्रस्तुतिः

यदन्यकाले वर्षेण केशवाल्लभ्यते फलम्।
सकृदेवार्चिते कृष्णे तदेतास्वपि लभ्यते ॥५॥

मूलम्

यदन्यकाले वर्षेण केशवाल्लभ्यते फलम्।
सकृदेवार्चिते कृष्णे तदेतास्वपि लभ्यते ॥५॥

दाल्भ्य उवाच।

विश्वास-प्रस्तुतिः

विजयातिजया चैव जयन्ती पापनाशनी।
तथोत्तरायणं चैव यच्छस्तं केशवार्चने ॥६॥

मूलम्

विजयातिजया चैव जयन्ती पापनाशनी।
तथोत्तरायणं चैव यच्छस्तं केशवार्चने ॥६॥

विश्वास-प्रस्तुतिः

तत्सर्वं कथयेहाद्य तिथिमाहात्म्यमुत्तमम्।
यत्र सम्पूजितः कृष्णः सर्वपापं व्यपोहति ॥७॥

मूलम्

तत्सर्वं कथयेहाद्य तिथिमाहात्म्यमुत्तमम्।
यत्र सम्पूजितः कृष्णः सर्वपापं व्यपोहति ॥७॥

पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

एकादश्यां सिते पक्षे पुष्यर्क्षं यत्र सत्तम।
तिथौ भवति सा प्रोक्ता विष्णुना पापनाशनी ॥८॥

मूलम्

एकादश्यां सिते पक्षे पुष्यर्क्षं यत्र सत्तम।
तिथौ भवति सा प्रोक्ता विष्णुना पापनाशनी ॥८॥

विश्वास-प्रस्तुतिः

तस्यां सम्पूज्य गोविन्दं जगतामीश्वरेश्वरम्।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥९॥

मूलम्

तस्यां सम्पूज्य गोविन्दं जगतामीश्वरेश्वरम्।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥९॥

विश्वास-प्रस्तुतिः

यश्चोपवासं कुरुते तस्यां स्नातो द्विजोत्तम।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥१०॥

मूलम्

यश्चोपवासं कुरुते तस्यां स्नातो द्विजोत्तम।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥१०॥

विश्वास-प्रस्तुतिः

दानं यद्दीयते किञ्चित्समुद्दिश्य जनार्दनम्।
होमो वा क्रियते तस्यामक्षयं लभते फलम् ॥११॥

मूलम्

दानं यद्दीयते किञ्चित्समुद्दिश्य जनार्दनम्।
होमो वा क्रियते तस्यामक्षयं लभते फलम् ॥११॥

विश्वास-प्रस्तुतिः

एका ऋग्देवपुरतो जप्ता श्रद्धावता तथा।
ऋग्वेदस्य समस्तस्य जपता यच्छते फलम् ॥१२॥

मूलम्

एका ऋग्देवपुरतो जप्ता श्रद्धावता तथा।
ऋग्वेदस्य समस्तस्य जपता यच्छते फलम् ॥१२॥

विश्वास-प्रस्तुतिः

सामवेदफलं साम यजुर्वेदफलं यजुः।
जप्तमेकं मुनिश्रेष्ठ ददात्यत्र न संशयः ॥१३॥

मूलम्

सामवेदफलं साम यजुर्वेदफलं यजुः।
जप्तमेकं मुनिश्रेष्ठ ददात्यत्र न संशयः ॥१३॥

विश्वास-प्रस्तुतिः

तारका दिवि राजन्ते द्योतमाना द्विजोत्तम।
समभ्यर्च्य तिथावस्यां देवदेवं जनार्दनम् ॥१४॥

मूलम्

तारका दिवि राजन्ते द्योतमाना द्विजोत्तम।
समभ्यर्च्य तिथावस्यां देवदेवं जनार्दनम् ॥१४॥

विश्वास-प्रस्तुतिः

यतः पापमशेषं वै नाशयत्यत्र केशवः।
पुष्यर्क्षैकादशी ब्रह्मंस्तेनोक्ता पापनाशनी ॥१५॥

मूलम्

यतः पापमशेषं वै नाशयत्यत्र केशवः।
पुष्यर्क्षैकादशी ब्रह्मंस्तेनोक्ता पापनाशनी ॥१५॥

इति विष्णुधर्मेषु पुष्यर्क्षैकादशी।