अथ षोडशोऽध्यायः।
मैत्रेय्युवाच।
विश्वास-प्रस्तुतिः
उपवासव्रतानां तु वैकल्यं यन्महामुने।
दानकर्मकृतं तस्य विपाको वद यादृशः ॥१॥
मूलम्
उपवासव्रतानां तु वैकल्यं यन्महामुने।
दानकर्मकृतं तस्य विपाको वद यादृशः ॥१॥
याज्ञवल्क्य उवाच।
विश्वास-प्रस्तुतिः
यज्ञानामुपवासानां व्रतानां च यतव्रते।
वैकल्यात्फलवैकल्यं यादृशं तच्छृणुष्व मे ॥२॥
मूलम्
यज्ञानामुपवासानां व्रतानां च यतव्रते।
वैकल्यात्फलवैकल्यं यादृशं तच्छृणुष्व मे ॥२॥
विश्वास-प्रस्तुतिः
उपवासादिना राज्यं सम्प्राप्यं ते तथा वसु।
भ्रष्टैश्वर्या निर्धनाश्च भवन्ति पुरुषाः पुनः ॥३॥
मूलम्
उपवासादिना राज्यं सम्प्राप्यं ते तथा वसु।
भ्रष्टैश्वर्या निर्धनाश्च भवन्ति पुरुषाः पुनः ॥३॥
विश्वास-प्रस्तुतिः
रूपं तथोत्तमं प्राप्य व्रतवैकल्यदोषतः।
काणाः कुण्ठाश्च भूयस्ते भवन्त्यन्धाश्च मानवाः ॥४॥
मूलम्
रूपं तथोत्तमं प्राप्य व्रतवैकल्यदोषतः।
काणाः कुण्ठाश्च भूयस्ते भवन्त्यन्धाश्च मानवाः ॥४॥
विश्वास-प्रस्तुतिः
उपवासान्नरः पत्नीं नारी प्राप्य तथा पतिम्।
वियोगं व्रतवैकल्यादुभयं तदवाप्नुते ॥५॥
मूलम्
उपवासान्नरः पत्नीं नारी प्राप्य तथा पतिम्।
वियोगं व्रतवैकल्यादुभयं तदवाप्नुते ॥५॥
विश्वास-प्रस्तुतिः
ये द्रव्ये सत्यदातारस्तथान्येनाहिताग्नयः।
कुले च सति दुःशीला दौष्कुलाः शीलिनश्च ये ॥६॥
मूलम्
ये द्रव्ये सत्यदातारस्तथान्येनाहिताग्नयः।
कुले च सति दुःशीला दौष्कुलाः शीलिनश्च ये ॥६॥
विश्वास-प्रस्तुतिः
वस्त्रानुलेपनैर्हीना भूषणैश्चातिरूपिणः।
विरूपरूपाश्च तथा प्रसाधनगुणान्विताः ॥७॥
मूलम्
वस्त्रानुलेपनैर्हीना भूषणैश्चातिरूपिणः।
विरूपरूपाश्च तथा प्रसाधनगुणान्विताः ॥७॥
विश्वास-प्रस्तुतिः
ते सर्वे व्रतवैकल्यात्फलवैकल्यमागताः।
गुणिनोऽपि हि दोषेण संयुक्ताः सम्भवन्ति ते ॥८॥
मूलम्
ते सर्वे व्रतवैकल्यात्फलवैकल्यमागताः।
गुणिनोऽपि हि दोषेण संयुक्ताः सम्भवन्ति ते ॥८॥
विश्वास-प्रस्तुतिः
तस्मान्न व्रतवैकल्यं यज्ञवैकल्यमेव वा।
उपवासे च कर्तव्यं वैकल्याद्विकलं फलम् ॥९॥
मूलम्
तस्मान्न व्रतवैकल्यं यज्ञवैकल्यमेव वा।
उपवासे च कर्तव्यं वैकल्याद्विकलं फलम् ॥९॥
मैत्रेय्युवाच।
विश्वास-प्रस्तुतिः
कथञ्चिद्यदि वैकल्यमुपवासादिके भवेत्।
किं तत्र वद कर्तव्यमच्छिद्रंयेन जायते ॥१०॥
मूलम्
कथञ्चिद्यदि वैकल्यमुपवासादिके भवेत्।
किं तत्र वद कर्तव्यमच्छिद्रंयेन जायते ॥१०॥
याज्ञवल्क्य उवाच।
विश्वास-प्रस्तुतिः
अखण्डद्वादशीमेतामशेषेष्वेव कर्मसु।
वैकल्यप्रशमायालं शृणुष्व गदतो मम ॥११॥
मूलम्
अखण्डद्वादशीमेतामशेषेष्वेव कर्मसु।
वैकल्यप्रशमायालं शृणुष्व गदतो मम ॥११॥
विश्वास-प्रस्तुतिः
मार्गशीर्षे सिते पक्षे द्वादश्यां नियतः शुचिः।
कृतोपवासो देवेशं समभ्यर्च्य जनार्दनम् ॥१२॥
मूलम्
मार्गशीर्षे सिते पक्षे द्वादश्यां नियतः शुचिः।
कृतोपवासो देवेशं समभ्यर्च्य जनार्दनम् ॥१२॥
पञ्चगव्यजलस्नातः पञ्चगव्यकृताशनः।
विश्वास-प्रस्तुतिः
यवव्रीहिभृतं पात्रं दद्याद्विप्राय भक्तितः।
इदं चोच्चारयेद्भक्त्या देवस्य पुरतो हरेः ॥१३॥
मूलम्
यवव्रीहिभृतं पात्रं दद्याद्विप्राय भक्तितः।
इदं चोच्चारयेद्भक्त्या देवस्य पुरतो हरेः ॥१३॥
विश्वास-प्रस्तुतिः
सप्त जन्मानि यत्किञ्चिद्मया खण्डव्रतं कृतम्।
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥१४॥
मूलम्
सप्त जन्मानि यत्किञ्चिद्मया खण्डव्रतं कृतम्।
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥१४॥
विश्वास-प्रस्तुतिः
यथाखण्डं जगत्सर्वम् त्वमेव पुरुषोत्तम।
तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै ॥१५॥
मूलम्
यथाखण्डं जगत्सर्वम् त्वमेव पुरुषोत्तम।
तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै ॥१५॥
एवमेवानुमासं वै चातुर्मास्यविधिः स्मृतः ॥१६॥
विश्वास-प्रस्तुतिः
चतुर्भिरेव मासैस्तु पारणं प्रथमं स्मृतम्।
प्रीणनं च हरेः कुर्यात्पारिते पारणे ततः ॥१७॥
मूलम्
चतुर्भिरेव मासैस्तु पारणं प्रथमं स्मृतम्।
प्रीणनं च हरेः कुर्यात्पारिते पारणे ततः ॥१७॥
विश्वास-प्रस्तुतिः
चैत्रादिषु च मासेषु चतुर्ष्वन्यं तु पारणम्।
तत्रापि सक्तुपात्राणि दद्याच्छ्रद्धासमन्वितः ॥१८॥
मूलम्
चैत्रादिषु च मासेषु चतुर्ष्वन्यं तु पारणम्।
तत्रापि सक्तुपात्राणि दद्याच्छ्रद्धासमन्वितः ॥१८॥
विश्वास-प्रस्तुतिः
श्रावणादिषु मासेषु कार्त्तिकान्तेषु पारणम्।
यत्नात्तु घृतपात्राणि दद्याद्विप्राय भक्तितः ॥१९॥
मूलम्
श्रावणादिषु मासेषु कार्त्तिकान्तेषु पारणम्।
यत्नात्तु घृतपात्राणि दद्याद्विप्राय भक्तितः ॥१९॥
विश्वास-प्रस्तुतिः
एवं सम्यग्यथान्यायमखण्डद्वादशीं नरः।
यदुपोष्यत्यखण्डं स व्रतस्य फलमश्नुते ॥२०॥
मूलम्
एवं सम्यग्यथान्यायमखण्डद्वादशीं नरः।
यदुपोष्यत्यखण्डं स व्रतस्य फलमश्नुते ॥२०॥
विश्वास-प्रस्तुतिः
सप्त जन्मसु वैकल्यम् यद्व्रतस्य क्वचित्कृतम्।
करोत्यविकलं सर्वमखण्डद्वादशीव्रतम् ॥२१॥
मूलम्
सप्त जन्मसु वैकल्यम् यद्व्रतस्य क्वचित्कृतम्।
करोत्यविकलं सर्वमखण्डद्वादशीव्रतम् ॥२१॥
विश्वास-प्रस्तुतिः
तस्मादेषातियत्नेन नरैः स्त्रीभिश्च सुव्रते।
अखण्डद्वादशी सम्यगुपोष्या फलकाङ्क्षिभिः ॥२२॥
मूलम्
तस्मादेषातियत्नेन नरैः स्त्रीभिश्च सुव्रते।
अखण्डद्वादशी सम्यगुपोष्या फलकाङ्क्षिभिः ॥२२॥
इति विष्णुधर्मेषु अखण्डद्वादशीव्रतं नाम षोडशोऽध्यायः।