०१५

अथ पञ्चदशोऽध्यायः।
याज्ञवल्क्य उवाच।

विश्वास-प्रस्तुतिः

तस्मिन्नेव दिने पुण्ये गोविन्दद्वादशीं शृणु।
यस्यां सम्यगनुष्ठानात्प्राप्नोत्यभिमतं फलम् ॥१॥

मूलम्

तस्मिन्नेव दिने पुण्ये गोविन्दद्वादशीं शृणु।
यस्यां सम्यगनुष्ठानात्प्राप्नोत्यभिमतं फलम् ॥१॥

पौषमासे सिते पक्षे द्वादश्यां समुपोषितः।

विश्वास-प्रस्तुतिः

संयक् सम्पूज्य गोविन्दं नाम्ना देवमधोक्षजम्।
पुष्पधूपोपहाराद्यैरुपवासैः समाहितः ॥२॥

मूलम्

संयक् सम्पूज्य गोविन्दं नाम्ना देवमधोक्षजम्।
पुष्पधूपोपहाराद्यैरुपवासैः समाहितः ॥२॥

विश्वास-प्रस्तुतिः

गोविन्देति जपन्नाम पुनस्तद्गतमानसः।
विप्राय दक्षिणां दद्याद्यथाशक्ति तपोधने ॥३॥

मूलम्

गोविन्देति जपन्नाम पुनस्तद्गतमानसः।
विप्राय दक्षिणां दद्याद्यथाशक्ति तपोधने ॥३॥

विश्वास-प्रस्तुतिः

स्वपन्विबुद्धः स्खलितो गोविन्देति च कीर्तयेत्।
पाषण्डादिविकर्मस्थैरालापं च विवर्जयेत् ॥४॥

मूलम्

स्वपन्विबुद्धः स्खलितो गोविन्देति च कीर्तयेत्।
पाषण्डादिविकर्मस्थैरालापं च विवर्जयेत् ॥४॥

विश्वास-प्रस्तुतिः

गोमूत्रं गोमयं वापि दधि क्षीरमथापि वा।
गोदेहतः समुत्पन्नं सम्प्राश्नीतात्मशुद्धये ॥५॥

मूलम्

गोमूत्रं गोमयं वापि दधि क्षीरमथापि वा।
गोदेहतः समुत्पन्नं सम्प्राश्नीतात्मशुद्धये ॥५॥

द्वितीयेऽह्नि पुनः स्नातस्तथैवाभ्यर्च्य तं प्रभुम्।

विश्वास-प्रस्तुतिः

तेनैव नाम्ना संस्तूय दत्त्वा विप्राय दक्षिणाम्।
ततो भुञ्जीत गोदेहसम्भूतेन समन्वितम् ॥६॥

मूलम्

तेनैव नाम्ना संस्तूय दत्त्वा विप्राय दक्षिणाम्।
ततो भुञ्जीत गोदेहसम्भूतेन समन्वितम् ॥६॥

विश्वास-प्रस्तुतिः

एवमेवाखिलान्मासानुपोष्य प्रयतः शुचिः।
दद्याद्गवाह्निकं भक्त्या प्रतिमासं स्वशक्तितः ॥७॥

मूलम्

एवमेवाखिलान्मासानुपोष्य प्रयतः शुचिः।
दद्याद्गवाह्निकं भक्त्या प्रतिमासं स्वशक्तितः ॥७॥

विश्वास-प्रस्तुतिः

पारिते च पुनर्वर्षे यथाशक्ति गवाह्निकम्।
दत्त्वा परगवे भूयः शृणु यत्फलमश्नुते ॥८॥

मूलम्

पारिते च पुनर्वर्षे यथाशक्ति गवाह्निकम्।
दत्त्वा परगवे भूयः शृणु यत्फलमश्नुते ॥८॥

विश्वास-प्रस्तुतिः

सुवर्णशृङ्गाः पञ्च गाः षष्ठं च वृषभं नरः।
प्रतिमासं द्विजाग्रेभ्यो यद्दत्त्वा फलमश्नुते ॥९॥

मूलम्

सुवर्णशृङ्गाः पञ्च गाः षष्ठं च वृषभं नरः।
प्रतिमासं द्विजाग्रेभ्यो यद्दत्त्वा फलमश्नुते ॥९॥

विश्वास-प्रस्तुतिः

तदाप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः।
तं च लोकमवाप्नोति गोविन्दो यत्र तिष्ठति ॥१०॥

मूलम्

तदाप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः।
तं च लोकमवाप्नोति गोविन्दो यत्र तिष्ठति ॥१०॥

विश्वास-प्रस्तुतिः

गोविन्दद्वादशीमेतामुपोष्य दिवि तारकाः।
विद्योतमाना दृश्यन्ते लोकैरद्यापि शोभने ॥११॥

मूलम्

गोविन्दद्वादशीमेतामुपोष्य दिवि तारकाः।
विद्योतमाना दृश्यन्ते लोकैरद्यापि शोभने ॥११॥

इति विष्णुधर्मेषु गोविन्दद्वादशी।