०१४

अथ चतुर्दशोऽध्यायः।
याज्ञवल्क्य उवाच।
साक्षाद्भगवता प्रोक्तं परमं पापनाशनम्।

विश्वास-प्रस्तुतिः

शुक्लपक्षे तु पौषस्य सम्प्राप्तिद्वादशीं शृणु।
यामुपोष्य समाप्नोति सर्वानेव मनोरथान् ॥१॥

मूलम्

पाषण्डादिभिरालापमकुर्वन्विष्णुतत्परः।
पूजयेत्प्रणतो देवमेकाग्रमतिरच्युतम् ॥२॥

मूलम्

पाषण्डादिभिरालापमकुर्वन्विष्णुतत्परः।
पूजयेत्प्रणतो देवमेकाग्रमतिरच्युतम् ॥२॥

विश्वास-प्रस्तुतिः

पौषादिपारणं मासैः षड्भिर्ज्येष्ठान्तकं स्मृतम्।
प्रथमे पुण्डरीकाक्षं नाम देवस्य गीयते ॥३॥

द्वितीये माधवाख्यं तु विश्वरूपं तु फाल्गुने।
पुरुषोत्तमाख्यं च ततः पञ्चमे चाच्युतेति च ॥४॥

षष्ठे जयेति देवस्य गुह्यं नाम प्रकीर्त्यते।
पूर्वेषु षट्सु मासेषु स्नानप्राशनयोस्तिलाः ॥५॥

आषाढादिषु मासेषु पञ्चगव्यमुदाहृतम्।
स्नाने च प्राशने चैव प्रशस्तं पापनाशनम् ॥६॥

प्रतिमासं च देवस्य कृत्वा पूजां यथाविधि।
विप्राय दक्षिणां दद्याच्छ्रद्दधानः स्वशक्तितः ॥७॥

पारणान्ते च देवस्य प्रीणनं भक्तिपूर्वकम्।
क्रुवीत शक्त्या गोविन्दे सद्भावाभ्यर्चनो यतः ॥८॥

नक्तं भुञ्जीत च ततस्तैलक्षारविवर्जितं।
एकादश्यामुषित्वैवं द्वादश्यामथवा दिने ॥९॥

एतामुषित्वा धर्मज्ञे प्रीणनं देवतत्परः।
सर्वकामानवाप्नोति सर्वपापैः प्रमुच्यते ॥१०॥

यतः सर्वमवाप्नोति यद्यदिच्छति चेतसा।
ततो लोकेषु विख्याता सम्प्राप्तिद्वादशीति वै ॥११॥

कृताभिलषिता ह्येषा प्रारब्धा धर्मतत्परैः।
पूरयत्यखिलान्कामान्संश्रुता च दिने दिने ॥१२॥

इति विष्णुधर्मेषु सम्प्राप्तिद्वादशी।