०१३

अथ त्रयोदशोऽध्यायः।
पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

मैत्रेयी ब्राह्मणी पूर्वं याज्ञवल्क्यमपृच्छत।
प्रणिपत्य महाभागं योगेश्वरमकल्मषम् ॥१॥

मूलम्

पापप्रशमनायालं यत्पुण्यस्योपवृंहकम्।
मनोरथप्रदं यच्च तद्व्रतं कथ्यतां मम ॥२॥

मूलम्

पापप्रशमनायालं यत्पुण्यस्योपवृंहकम्।
मनोरथप्रदं यच्च तद्व्रतं कथ्यतां मम ॥२॥

विश्वास-प्रस्तुतिः

कानि दानानि शस्तानि स्नानानि च यतव्रत।
प्रशस्तास्तिथयः काश्च प्राशनानि च शंस मे ॥३॥

याज्ञवल्क्य उवाच।

विश्वास-प्रस्तुतिः

सर्वदानानि शस्तानि यान्युद्दिश्य जनार्दनम्।
दीयन्ते विप्रमुख्येभ्यः श्रद्धापूतेन चेतसा ॥४॥

ता एव तिथयः शस्ता यास्वभ्यर्च्य जनार्दनम्।
क्रियन्ते श्रधया सम्यगुपवासव्रताः सदा ॥५॥

प्राप्यते विविधैर्यज्ञैर्यत्फलं साध्वसाधुभिः।
उपवासैस्तदाप्नोति समभ्यर्च्य जनार्दनम् ॥६॥

मनोरथानां सम्प्राप्तिकारकं पापनाशनम्।
श्रूयतां मम धर्मज्ञे व्रतानामुत्तमं व्रतम् ॥७॥

यत्कृत्वा न जडो नान्धो बधिरो न च दुःखितः।
न चैवेष्टवियोगार्तिं कश्चित्प्राप्नोति मानवः ॥८॥

न चाप्रियोऽस्य लोकस्य न दरिद्रोन दुर्गतिः।
सप्त जन्मानि भवति सर्वपापैः प्रमुच्यते ॥९॥

विष्णुव्रतमिदं ख्यातं भाषितं विष्णुना स्वयम्।
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयम् ॥१०॥

षण्मासपारणप्रायं गृह्णीयात्परमं व्रतम् ॥११॥

विश्वास-प्रस्तुतिः

पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः स्मृतम्।
वचया च तृतीयेऽह्नि सर्वौषध्या ततः परम् ॥१२॥

नाम्ना कृष्णाच्युताख्येन तथानन्तेन पूजयेत्।

विश्वास-प्रस्तुतिः

तथैव च चतुर्थेऽह्नि हृषीकेशेन केशवम्।
देवमभ्यर्च्य पुष्पैश्च पत्त्रैर्धूपानुलेपनैः ॥१३॥

उद्गच्छतश्च बालेन्दोर्दद्यादर्घ्यं समाहितः।
पुष्पैः पत्त्रैः फलैश्चैव सर्वधान्यैश्च भक्तितः ॥१४॥

दिनक्रमेण चैतानि चन्द्रनामानि कीर्तयेत्।
शशिचन्द्रशशाङ्केन्दुसञ्ज्ञानि ब्रह्मवादिनि ॥१५॥

नक्तं भुञ्जीत मतिमान्यावत्तिष्ठति चन्द्रमाः।
अस्तङ्गते न भुञ्जीत व्रतभङ्गभयाच्छुभे ॥१६॥

एवं सर्वेषु मासेषु ज्येष्ठान्तेषु यशस्विनि।
कर्तव्यं वै व्रतश्रेष्ठं द्वितीयादिचतुर्दिनम् ॥१७॥

विप्राय दक्षिणां दद्यात्पञ्चम्यां च स्वशक्तितः।
एवं समापयेन्मासैः षड्भिः प्रथमपारणम् ॥१८॥

पारणन्ते च देवस्य प्रीणनं भक्तितः शुभे।
यथाशक्त्या तु कर्तव्यं वित्तशाठ्यं विवर्जयेत् ॥१९॥

आषाढादिद्वितीयं तु षण्मासेन तपोधने।
पारणं वै समाख्यातं व्रतस्यास्य शुभप्रदम् ॥२०॥

व्रतमेतद्दिलीपेन दुष्वन्तेन ययातिना।
तथान्यैः पृथिवीपालैरुपवासविधानतः ॥२१॥

मूलम्

व्रतमेतद्दिलीपेन दुष्वन्तेन ययातिना।
तथान्यैः पृथिवीपालैरुपवासविधानतः ॥२१॥

चरितं मुनिमुख्यैश्च ऋचीकच्यवनादिभिः।

विश्वास-प्रस्तुतिः

सुरम्भया सुकैकेय्या शाण्डिल्या धूम्रपिङ्गया।
सुदेष्णयाथवा रिण्या मतिमत्या कृताशया ॥२२॥

सावित्र्या पौर्णमास्या च वैरिण्या च सुभद्रया।
ब्राह्मणक्षत्रियविशामिति स्त्रीभिरनुष्ठितम् ॥२३॥

उर्वश्या रम्भया चैव सौरभेय्या तथा व्रतम्।
वराप्सरोभिर्धर्मज्ञे चरितं धर्मवाञ्छया ॥२४॥

प्रथमे पादपूजा स्याद्द्वितीये नाभिपूजनम्।
तृतीये वक्षसः पूजा चतुर्थे शिरसो हरेः ॥२५॥

एतच्चीर्त्वा समस्तेभ्यः पापेभ्यः श्रद्धयान्वितः।
मुच्यते सकलांश्चैव सम्प्राप्नोति मनोरथान् ॥२६॥

व्रतानामुत्तमं ह्येतत्स्वयं देवेन भाषितम्।
पापप्रशमनं शस्तं मनोरथफलप्रदम् ॥२७॥

यं च काममभिध्यायन्क्रियते नियतव्रतैः।
व्रतमेतन्महाभागे तं तु पूरयते नृणाम् ॥२८॥

मनोरथान्पूरयति सर्वपापं व्यपोहति।
अव्याहतेन्द्रियत्वं च सप्त जन्मानि यच्छति ॥२९॥

माघे स्नातस्य यत्पुण्यं प्रयागे पापनाशनम्।
सकलं तदवाप्नोति श्रुत्वा विष्णुव्रतं त्विदम् ॥३०॥

इति विष्णुधर्मे विष्णुव्रतविधिर्नाम त्रयोदशोऽध्यायः।