अथ द्वादशोऽध्यायः।
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
अयने चोत्तरे प्राप्ते यः स्नापयति केशवम्।
घृतप्रस्थेन पापं सः सकलं वै व्यपोहति ॥१॥
मूलम्
अयने चोत्तरे प्राप्ते यः स्नापयति केशवम्।
घृतप्रस्थेन पापं सः सकलं वै व्यपोहति ॥१॥
विश्वास-प्रस्तुतिः
कपिलां विप्रमुख्याय ददात्यनुदिनं हि यः।
घृतस्नानं च देवस्य तस्मिन्काले समं हि तत् ॥२॥
मूलम्
कपिलां विप्रमुख्याय ददात्यनुदिनं हि यः।
घृतस्नानं च देवस्य तस्मिन्काले समं हि तत् ॥२॥
विश्वास-प्रस्तुतिः
स्नाप्यमानं च पश्यति ये घृतेनोत्तरायणे।
ते यान्ति विष्णुसालोक्यं सर्वपापविवर्जिताः ॥३॥
मूलम्
स्नाप्यमानं च पश्यति ये घृतेनोत्तरायणे।
ते यान्ति विष्णुसालोक्यं सर्वपापविवर्जिताः ॥३॥
इति विष्णुधर्मेषूत्तरायणव्रतं नाम द्वादशोऽध्यायः।