०११

अथैकादशोऽध्यायः।
पुलस्त्य उवाच।

विश्वास-प्रस्तुतिः

एकदश्यां शुक्लपक्षे यदा र्क्षं वै पुनर्वसुः।
नाम्ना सातिजयाख्याता तिथीनामुत्तमा तिथिः ॥१॥

मूलम्

यो ददाति तिलप्रस्थं तृष्कालं वत्सरं नरः।
उपवासं च तस्यां यः करोत्येतत्समं स्मृतम् ॥२॥

तस्यां जगत्पतिर्देवः सर्वः सर्वेश्वरो हरिः।
प्रत्यक्षतां प्रयात्यल्पं तदानन्तफलं स्मृतम् ॥३॥

सगरेण ककुत्स्थेन दुन्धुमारेण गाधिना।
तस्यामाराधितः कृष्णो दत्तवान्निखिलां भुवम् ॥४॥

इति विष्णुधर्मेष्वतिविजयैकादशी।