अथ दशमोऽध्यायः।
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
रोहिण्याश्च यदा कृष्णपक्षेऽष्टम्यां द्विजोत्तम।
जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥१॥
मूलम्

यद्बाल्ये यच्च कौमारे यौवने वार्द्धिके च यत्।
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥२॥

तत्क्षालयति गोविन्दं तस्यामभ्यर्च्य भक्तितः।
होमजप्यादिदानानां फलं च शतसम्मितम् ॥३॥

सम्प्राप्नोति न सन्देहो यच्चान्यन्मनसेच्छति।
उपवासश्च तत्रोक्तो महापातकनाशनः ॥४॥

इति विष्णुधर्मेषु जयन्त्यष्टमी।