अथ नवमोऽध्यायः।
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत्।
तदा सा तु महापुण्या द्वादशी विजया स्मृता ॥१॥
मूलम्
यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत्।
तदा सा तु महापुण्या द्वादशी विजया स्मृता ॥१॥
विश्वास-प्रस्तुतिः
तस्यां स्नातः सर्वतीर्थैः स्नातो भवति मानवः।
सम्पूज्य वर्षपूजायाः सकलं फलमश्नुते ॥२॥
मूलम्
तस्यां स्नातः सर्वतीर्थैः स्नातो भवति मानवः।
सम्पूज्य वर्षपूजायाः सकलं फलमश्नुते ॥२॥
विश्वास-प्रस्तुतिः
एकं जप्त्वा सहस्रस्य जप्तस्याप्नोति यत्फलम्।
दानं सहस्रगुणितं तथा वै विप्र भोजनम् ॥३॥
मूलम्
एकं जप्त्वा सहस्रस्य जप्तस्याप्नोति यत्फलम्।
दानं सहस्रगुणितं तथा वै विप्र भोजनम् ॥३॥
यत्क्षेममपि वै तस्यां सहस्रं श्रावणे तु तत्।
विश्वास-प्रस्तुतिः
अन्यस्यामेव तिथ्यां शुभायां श्रावणं यदा।
होमस्तथोपवासश्च सहस्राख्यफलप्रदः ॥३॥
मूलम्
अन्यस्यामेव तिथ्यां शुभायां श्रावणं यदा।
होमस्तथोपवासश्च सहस्राख्यफलप्रदः ॥३॥
इति विष्णुधर्मेषु विजयद्वादशी।