अथाष्टमोऽध्यायः।
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
मासि प्रोष्ठपदे शुक्ले द्वादश्यां जलशायिनम्।
प्रणम्यानन्तमभ्यर्च्य पुष्पधूपादिभिः शुचिः ॥१॥
मूलम्

पाषण्डादिभिरालापमकुर्वन्नियतात्मवान्।
विप्राय दक्षिणां दत्त्वा नक्तं भुङ्क्ते तु यो नरः ॥२॥

तिष्टन्व्रजन्स्वपंश्चैव क्षुतप्रस्खलितादिषु।
अनन्तनामस्मरणं कुर्वन्नुच्चारणं तथा ॥३॥

अनेनैव विधानेन मासान्द्वादश वै क्रमात्।
विश्वास-प्रस्तुतिः
उपोष्य पारणे पूर्णे समभ्यर्च्य जगद्गुरुम्।
गीतवाद्येन हृद्येन प्रीणयन्व्युष्टिमश्नुते ॥४॥

अनन्तं गीतवाद्येन यतः फलमुदाहृतम्।
तेनानन्तं समभ्यर्च्य तदेव लभते फलम् ॥५॥
मूलम्
अनन्तं गीतवाद्येन यतः फलमुदाहृतम्।
तेनानन्तं समभ्यर्च्य तदेव लभते फलम् ॥५॥
विश्वास-प्रस्तुतिः
एवं यः पुरुषः कुर्यादनन्ताराधनं शुचिः।
नारी वा स्वर्गमभ्येत्य सोऽअनन्तफलमश्नुते ॥६॥

एवं दाल्भ्य हृषीकेशो नरैर्भक्त्या यथाविधि।
फलं ददात्यसुलभं सलिलेनापि पूजितः ॥७॥

न विष्णुर्वित्तदानेन पुष्पैर्वा न फलैस्तथा।
आराध्यते सुशुद्धेन हृदयेनैव केवलम् ॥८॥

रागाद्यपेतं हृदयं वाग्दुष्टा नानृतादिना।
हिंसादिरहितः कायः केशवाराधनत्रयम् ॥९॥

रागादिदूषिते चित्ते नास्पदी मधुसूदनः।
करोति न रतिं हंसः कदाचित्कर्दमाम्भसि ॥१०॥

न योग्या केशवस्तुत्यै वाग्दुष्टा चानृतादिना।
तमसो नाशनायालं नेन्दोर्लेखा घनावृता ॥११॥

हिंसादिदूषितः कायः केशवाराधने कुतः।
जनचित्तप्रसादाय न नभस्तिमिरावृतम् ॥१२॥
मूलम्
हिंसादिदूषितः कायः केशवाराधने कुतः।
जनचित्तप्रसादाय न नभस्तिमिरावृतम् ॥१२॥
विश्वास-प्रस्तुतिः
तस्माच्छ्रद्धस्व भावेन सत्यभावेन च द्विज।
अहिंसकेन गोविन्दो निसर्गादेव तोषितः ॥१३॥

सर्वस्वमपि कृष्णाय यो दद्यात्कुटिलाशयः।
स नैवाराधयत्येनं सद्भावेनार्चयाच्युतम् ॥१४॥

रागाद्यपेतं हृदयं कुरु त्वं केशवार्पितम्।
ततः प्राप्स्यसि दुःप्राप्यमयत्नेनैव केशवम् ॥१५॥

-———-दाल्भ्य उवाच।
विश्वास-प्रस्तुतिः
भगवन्कथितः सम्यक् काम्योऽयं केशवं प्रति।
आराधनविधिः सर्वो भूयः पृच्छामि तद्वद ॥१६॥

कुले जन्म तथारोग्यं धनर्द्धिश्चेह दुर्लभा।
त्रितयं प्राप्यते येन तन्मे वद महामुने ॥१७॥
मूलम्
कुले जन्म तथारोग्यं धनर्द्धिश्चेह दुर्लभा।
त्रितयं प्राप्यते येन तन्मे वद महामुने ॥१७॥
पुलस्त्य उवाच।
विश्वास-प्रस्तुतिः
मातामहं काण्वमुदारवीर्यं महर्षिमभ्यर्च्य कुलप्रसूतिम्।
पप्रच्छ पुंसामथ योषितां च दुष्वन्तपुत्रो भरतः प्रणम्य ॥१८॥

यथावदाचष्ट ततो महात्मा स राजवर्याय यथा कुलेषु।
प्रयान्ति सूतिं पुरुषाः स्त्रियश्च यथा च सम्यक् सुखिनो भवन्ति ॥१९॥

पौषे सिते द्वादशमेऽह्नि सार्के तथार्क्षयोगे जगतः प्रसूतिम्।
सम्पूज्य विष्णुं विधिनोपवासी स्रग्गन्धधूपान्नवरोपहारैः ॥२०॥

गृह्णीत मासं प्रतिमासपूजां दानादियुक्तं व्रतमब्दमेकम्।
दद्याच्च दानं द्विजपुङ्गवेभ्यस्तदुच्यमानं विनिबोध भूप ॥२१॥

घृतं तिलान्व्रीहियवं हिरण्यं यवान्नमम्भःकरकान्नपानम्।
छत्त्रं पयोऽन्नं गुडफाणिताढ्यं स्रक्चन्दनं वस्त्रमनुक्रमेण ॥२२॥

मासे च मासे विधिनोदितेन तस्यां तिथौ लोकगुरुं प्रपूज्य।
अश्नीत यान्यात्मविशुद्धिहेतोः सम्प्राशनानीह निबोध तानि ॥२३॥

गोमूत्रमम्भो घृतमामशाकं दूर्वा दधि व्रीहियवांस्तिलांश्च।
सूर्यांशुतप्तं जलमम्बु दार्भं क्षीरं च मासक्रमशोपयुञ्ज्यात् ॥२४॥

कुले प्रधाने धनधान्यपूर्णे विवेकवत्यस्तसमस्तदुःखे।
प्राप्नोति जन्माविकलेन्द्रियश्च भवत्यरोगो मतिमान्सुखी च ॥२५॥

तस्मात्त्वमप्येतदमोघविद्यो नारायणाराधनमप्रमत्तः।
कुरुष्व विष्णुं भगवन्तमीशमाराध्य कामानखिलानुपैति ॥२६॥

इति विष्णुधर्मेषु कुलावाप्तिद्वादशी।