अथ सप्तमोऽध्यायः।
पुलस्त्यो उवाच।
विश्वास-प्रस्तुतिः
शृणु दाल्भ्य परं काम्यं व्रतं सन्ततिदं नृणाम्।
यमुपोष्य न विच्छेदः पितृपिण्डस्य जायते ॥१॥
मूलम्

कृष्णाष्टम्यां चैत्रमासे स्नातो नियतमानसः।
कृष्णमभ्यर्च्य पूजां च देवक्याः कुरुते तु यः ॥२॥

निराहारो जपन्नाम कृष्णस्य जगतः पतेः।
उपविष्टो जपस्नानक्षुतप्रस्खलितादिषु ॥३॥
मूलम्
निराहारो जपन्नाम कृष्णस्य जगतः पतेः।
उपविष्टो जपस्नानक्षुतप्रस्खलितादिषु ॥३॥
विश्वास-प्रस्तुतिः
पूजायां चापि कृष्णस्य सप्त वारान्प्रकीर्तयेत्।
पाषण्डिनो विकर्मस्थान्नालपेच्चैव नास्तिकान् ॥४॥

प्रभाते तु पुनः स्नातो दत्त्वा विप्राय दक्षिणाम्।
भुञ्जीत कृतपूजस्तु कृष्णस्यैव जगत्पतेः ॥५॥

वैशाखज्येष्ठयोश्चैव पारणं हि त्रिमासिकम्।
उपोष्य देवदेवेशं घृतेन स्नापयेद्धरिम् ॥६॥

आषाढे श्रावणे चैव मासे भाद्रपदे तथा।
उपोषिते द्वितीयं वै पारणं पूर्ववत्तु तत् ॥७॥

तथैवाश्वयुजं चादिं कृत्वा मासत्रयं बुधः।
उपोष्य स्नापयेद्देवं हविषा पारणे गते ॥८॥

पौषे माघे फाल्गुने च नरस्तद्वदुपोषितः।
चतुर्थे पारणे पूर्णे घृतेन स्नापयेद्धरिम् ॥९॥

एवं कृतोपवासस्य पुरुषस्य तथा स्त्रियः।
न सन्ततेः परिच्छेदः कदाचिदभिजायते ॥१०॥
मूलम्
एवं कृतोपवासस्य पुरुषस्य तथा स्त्रियः।
न सन्ततेः परिच्छेदः कदाचिदभिजायते ॥१०॥
विश्वास-प्रस्तुतिः
कृष्णाष्टमीमिमां यस्तु नरो योषिदथापि वा।
उपोष्यतीह साह्लादं नृलोके प्राप्य निर्वृत्तिम् ॥११॥

पुत्रपौत्रसमृद्धिं च मृतः स्वर्गे महीयते।
इत्येतत्कथितं दाल्भ्य मया कृष्णाष्टंईव्रतम् ॥१२॥

प्रावृट्काले तु नियमाञ्शृणु काम्यानिमान्मम १३
विश्वास-प्रस्तुतिः
प्रावृट्काले यदा शेते वासुदेवः पयोनिधौ।
भोगिभोगे निजां मायां योगनिद्रां! च मानयन् ॥१४॥

विशिष्टा न प्रवर्तन्ते तदा यज्ञादिकाः क्रियाः।
देवानां सा भवेद्रात्रिर्दक्षिणायनसञ्ज्ञिता ॥१५॥

यदा स्वपिति गोविन्दो यस्तु मासं चतुष्टयम्।
अधःशायी ब्रह्मचारी केशवार्पितमानसः ॥१६॥

नमो नमोऽस्तु कृष्णाय केशवाय नमो नमः।
नमोऽस्तु नरसिंहाय विष्णवे च नमो नमः ॥१७॥

इति प्रातस्तथा सायं जपेद्देवक्रियापरः।
शमयत्यतिदुष्पारं दुरितं जन्मसञ्चितम् ॥१८॥

मधु मांसं च यो मासाञ्चतुरस्तान्निरस्यति।
देवक्रियारतिर्विष्णोरनुस्मरणतत्परः ॥१९॥

सोऽपि स्वर्गं समभ्येति च्युतस्तस्मात्तु जायते।
अरोगी धनधान्याढ्यः कुलसन्ततिमान्नरः ॥२०॥

समस्तमन्दिराणां च यः सुप्ते मधुसूदने।
निर्वृत्तिं कुरुते सोऽपि देवो वैमानिको भवेत् ॥२१॥

अनेनैव विधानेन नरो विष्णुक्रियापरः।
एकाहारो भवेद्यस्तु सर्वपापैः प्रमुच्यते ॥२२॥

सुप्ते च सर्वलोकेशे नक्तभोजी भवेत्तु यः।
सर्वपापविनिर्मुक्तः स्वर्गलोकेऽमरो भवेत् ॥२३॥

शस्तं त्वनन्तरं पुंसां ततश्चैवेकभोजनम्।
नक्तभोजनतुल्यं तु नोपवासफलं क्वचित् ॥२४॥

तैलाभङ्गं च यो मासांश्चतुरस्तान्निरस्यति।
सोऽप्यङ्गलावण्यगुणमारोग्यं च नरो लभेत् ॥२५॥

यस्त्वेतानि समस्तानि मासानेतान्नरश्चरेत्।
स विष्णुलोकमासाद्य विष्णोरनुचरो भवेत् ॥२६॥

चतुर्भिः पारणं मासैर्निष्पाद्यं हरितत्परैः।
ब्राह्मणान्भोजयेद्दद्यात्ततस्तेभ्यश्च दक्षिणाम् ॥२७॥

पूजयेच्च जगन्नाथं सर्वपापहरं हरिम्।
प्रीयस्व देव गोविन्देत्येवं चैव प्रसादयेत् ॥२८॥

इति दाल्भ्य समाख्यातं चातुर्मास्ये हि यद्व्रतम्।
विश्वास-प्रस्तुतिः
देवदेवस्य सुप्तस्य द्वादशीं शृणु चापराम्।
यस्यामनन्तस्मरणादनन्तफलभाग्भवेत् ॥२९॥

इति विष्णुधर्मेषु वर्षामासव्रतम्।